सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 78, कुल 837 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः १९ फिर उससे तृतीय रेफ वर्ण का उद्धार करे । उसे नाभि के तृतीय वर्ण इकार से संयुक्त करे (र्शि), इसके बाद दशम से द्वितीय वर्ण नकार, जिसे नाभि के एकादश वर्ण एकार से संयुक्त कर देवे (ने) । इसके बाद सनमस्कं नमस्कार शिरस्थ 'चैतन्याय' इस चार अक्षर का उद्धार करे । यहाँ २२ अक्षर का मन्त्र कहा गया जो छः पदों से अलङ्कृत है ॥ २३-३२ ॥ तत्रैकार्णं पदं ज्ञानं चतुर्वर्णं पदं बलम् । षडक्षरं चाप्यैश्वर्यं वीर्यं पञ्चाक्षरं परम् ॥ ३३ ॥ चतुर्वर्णं पदं तेजः शाक्तं स्याद् द्व्यक्षरं च यत् । तेषामेव षण्णां पदानामक्षरसंख्याकथनपूर्वकं ज्ञानादिगुणवाचकत्वमाह—तत्रेति सार्धेन । अथ बलस्य ज्ञानोपसर्जनत्वात् तद्व्यवहितमेव तदुक्तम् । एवमेव ऐश्वर्यो- पसर्जनं वीर्यम्, वीर्यशक्त्युपसर्जनं तेजश्चोक्तमिति ज्ञेयम् । बलादीनां ज्ञानाद्युपसर्जनत्वं सुस्पष्टमुपबृंहितं लक्ष्मीतन्त्रे— तिस्रो मम स्वभावाख्या विज्ञानैश्वर्यशक्तयः ॥ उन्मिषत्यः पृथक् तत्त्वत्रयेण परिकीर्तिताः । बलं वीर्यं तथा तेज इत्येतत्तु गुणत्रयम् ॥ श्रमाद्यविद्याभावाख्यंज्ञानादेरुपसर्जनम् । (२।४९-५१) इति । वस्तुतस्तु ऐश्वर्यादिपञ्चकमपि ज्ञानधर्म इति विज्ञेयम्, ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः ॥ शेषमैश्वर्यवीर्यादि ज्ञानधर्मः सनातनम् । (२।२५-२६) इति लक्ष्मीतन्त्रोक्तेः । ज्ञानादीन्यपि तत्रैव विवृतानि— अहमित्यान्तरं रूपं ज्ञानरूपमुदीर्यते ॥ प्रकाशकादिकं रूपंस्फटिकादिसलक्षणम् । अतस्तज्ज्ञानरूपत्वं मम नारायणस्य च ॥ अव्याहतिर्यदुद्यन्त्यास्तदैश्वर्यं परं मम । इच्छेति सोच्यते तत्तत्तच्छास्त्रेषु पण्डितैः ॥ जगत्प्रभूतिभावो मे यः सा शक्तिरुदीर्यते । सृजन्त्या यच्छ्रमाभावो मम तद्बलमिष्यते ॥ भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते । शक्त्यंशकेन च प्राहुर्भरणं तत्त्वकोविदाः ॥ विकारविरहो वीर्यं प्रकृतित्वेऽपि मेसदा । स्वभावं हि जहात्याशु पयो दधिसमुद्भवे ॥ जगद्भावेऽपि सा नास्ति विकृतिर्मम नित्यदा । विकारविरहो वीर्यमिति तत्त्वविदां मतम् ॥ विक्रमः कथितो वीर्यमैश्वर्यांशस्तु स स्मृतः ।