सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 75, कुल 837 में से
संदर्भ में पढ़ें१६ सात्वतसंहिता करे। वह वर्णचक्र साक्षात् भगवान् का शरीर है। जिसमें आब्रह्मभुवन समस्त लोक प्रतिष्ठित हैं, जिनके द्वारा इस जगत् की उत्पत्ति हुई है, अपनी आत्मा के उपरत कर लेने पर इस जगत् का जिसमें प्रलय हो जाता है जो चन्द्रमा और सूर्य के द्वारा सारे जगत् के बाहर भी है और भीतर भी है, प्रेरक है ॥ १४-१६ ॥ नित्योदितं यदक्षस्थं वर्णमीश्वरवाचकम् ॥ १६ ॥ यत्र स्थानविभागेन वागात्मा भगवान् स्थितः । तत्र प्रणवादिवर्णसंस्थितिक्रममाह—नित्योदितमित्यादिभिः ॥ १६-१७ ॥ जो प्रणव रूप से नित्योदित है, अक्ष पर निवास करने वाला है और जो वर्ण रूप से ईश्वर का वाचक है। इस वर्ण चक्र पर भिन्न-भिन्न स्थानों पर वर्णात्मा भगवान् स्थित हैं ॥ १६-१७ ॥ अकाराद्यो विसर्गान्तः सौरश्चान्द्रः कलागणः ॥ १७ ॥ ह्रस्वदीर्घविभागेन नाभौ यत्र द्विरष्टकः । कादिभान्तोऽप्यरान्तस्थः प्राकृतस्तत्त्वसञ्चयः ॥ १८ ॥ पृथिव्यादिप्रकृत्यन्तो युग्मयोगेन लाङ्गलिन् । कलनादेहभृत् कालो नेमिगो नवलक्षणः ॥ १९ ॥ मकाराद्यो हवर्णान्तो यत्र प्रधिगणे स्वयम् । कालवैश्वानरः साक्षान्मार्ताण्डायुतसन्निभः ॥ २० ॥ ज्वालाऽयुतसहस्राढ्यो वर्णान्तो भगवान् स्थितः । 'अकाराद्यो विसर्गान्त' इत्यत्र अकारादीनां ह्रस्वानामष्टवर्णानां सौरत्वादा- लोकाद्यात्मकत्वम्, अकारादीनां दीर्घाणामष्टानां चान्द्रत्वाद् द्रवताद्यात्मकत्वं चोक्तं जयाख्ये— आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे ॥ पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागेव्यवस्थिताः । अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात् ॥ द्रवता शैत्यभावश्च तृप्तिः कान्तिः प्रसन्नता । रसतास्वाद आनन्दो ह्यष्टौ चान्द्रा इमा मताः ॥ आकारादिषु दीर्घेषु संस्थिता मातृकात्मना । अविनाभावरूपेण अन्योन्येन सदैव हि ॥ अष्टानामति चाष्टौ तु संस्थिता बहिरन्तरे । (६।१३-१७) इति ॥ १७-२१ ॥ आमध्यात् प्रधिपर्यन्तां नमोन्तां वर्णसन्ततिम् ॥ २१ ॥ उच्चार्यार्घ्यादिनाऽभ्यर्च्य विद्याबीजं हि चक्रराट् ।