सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 76, कुल 837 में से
संदर्भ में पढ़ेंद्वितीयः परिच्छेदः १७ ततः समुद्धरेन्मन्त्रं परमात्मनि वाचकम् ॥ २२ ॥ वर्णचक्रार्चनपूर्वकं मन्त्रमुद्धरेदित्याह—आमध्यादिति द्वाभ्याम् । चक्रराट् = वर्णचक्रमित्यर्थः । विभक्तिविनिमयच्छान्दसः । तथा चात्रैवं प्रयोगः—प्रशस्ते विजने गुप्ते गन्धलिप्तेऽर्घ्यपुष्पाढ्ये सुधूपिते धरातले द्वादशारं चक्रं विलिख्य तन्मध्येऽक्षस्थाने प्रणवं, नाभौ अकारादिविसर्गान्तान् षोडशस्वरान्, द्वादशारेषु प्रत्यरं वर्णयुग्मक्रमेण ककारादिभकारान्तानि चतुर्विंशतिवर्णानि, नेमिभागे मकारादिहकारान्तवर्णनवकम्, प्रधिगणे क्षकारं च विलिख्य आमध्यात् प्रधिपर्यन्तं वर्णपरम्पराम् ॐ ओं नमः, ॐ अं नम इत्यादिक्रमेणोच्चार्यार्घ्यादिभिरभ्यर्च्य मन्त्रमुद्धरेत् ॥ २२-२२ ॥ ‘अ’ से लेकर विसर्गान्त १६ स्वर वर्ण ह्रस्व एवं दीर्घ के विभाग से (अकारादि ८ ह्रस्व वर्ण सौर रूप से तथा आकारादि ८ दीर्घ वर्ण चान्द्र रूप से) नाभि में स्थित हैं। ‘क’ से लेकर ‘भ’ पर्यन्त २४ वर्ण दो-दो के क्रम से १२ ‘अरा’ पर स्थित हैं। इन्हें ‘प्राकृत तत्त्व सञ्चय’ कहा जाता है ॥ १७-१८ ॥ नेमि भाग में कलनात्मक देह धारण किये स्वयं काल मकार से हकार पर्यन्त ९ वर्ण का रूप धारण किये हुये स्थित हैं । प्रधिगण में क्षकार लिखे । यह वर्णात्मक कालवैश्वानर साक्षात् करोड़ों मार्तण्ड के समान देदीप्यमान हैं और हजारों ज्वालाओं से परिवेष्टित वर्णात्मा भगवान् स्थित हैं । अतः मध्य से लेकर प्रधिपर्यन्त ॐ ओं नमः, ॐ अं नमः इत्यादि क्रम से वर्णों को लिख कर अर्घ्यादि से अर्चन करे और मन्त्र का उद्धार करे । यह चक्रराट् विद्या का बीज है और परमात्मा का वाचक है ॥ १९-२२ ॥ गलन्तममृतप्रख्यमचिरान्मोक्षसिद्धिदम् । अक्षस्थमुद्धरेत् पूर्वं नेमिषष्ठमनन्तरम् ॥ २३ ॥ नाभिद्वितीयेनाक्रान्तं द्वितीयमिदमक्षरम् । द्वितीयं दशसंख्याच्च तदधश्चाष्टमात् परम् ॥ २४ ॥ नाभेस्त्रयोदशोपेतं द्वितीयमिदमक्षरम् । अथ द्वितीयं नवमान्नाभितुर्यादिनान्वितम् ॥ २५ ॥ द्वितीयमष्टमाद् वर्णं केवलं विद्धि पञ्चमम् । विज्ञानपदमादाय त्र्यक्षरं तदनन्तरम् ॥ २६ ॥ आद्यमेकादशाद् वर्णं भिन्नं नाभ्यपरेण तु । नेमेस्तृतीयवर्णस्य ततस्तमुपरि न्यसेत् ॥ २७ ॥ मन्त्राणां नवमं ह्येतद् दशमं मे निबोधत । नाभिद्वितीयेनाक्रान्तं प्राग्वर्णं चाष्टमारगम् ॥ २८ ॥ नेमेर्द्वितीयं तदनु नेमेरादाय चाष्टकम् । तदुद्देशात् तृतीयं च स्थितं तत् पञ्चमोपरि ॥ २९ ॥