सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 680, कुल 837 में से
संदर्भ में पढ़ेंपञ्चविंशः परिच्छेदः ६२१ एवं प्रवेश्य तद्बिम्बं साम्प्रतं विनिवेश्य च ॥ ६२ ॥ निषण्णदृढकाष्ठोत्थतोरणेऽस्त्राहुतीस्ततः । एवं यागगेहानयनानन्तरं तत्र दृढकाष्ठोत्थतोरणे सन्निवेशमस्त्रमन्त्रेण होमं चाह—एवमिति । पीठब्रह्मशिलयोः पूर्वमेव तत्रानयनं तदुपरि ब्रह्मस्थापनं कार्य- मित्युक्तमीश्वरपारमेश्वरयोः— यागभूमिं ततो बिम्बमवरोप्य रथादिकात् । निषण्णदृढकाष्ठोत्थतोरणे सन्निवेश्य च ॥ स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः । यद्वा पूर्वं समानीय पीठं ब्रह्मशिलान्वितम् ॥ भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च । ततो बिम्बं समानीय स्थापयेत् पिण्डिकोपरि ॥ इति । —(ई०सं० १८।६८-७१, पार०सं० १५।१८६९-१९१) ॥ ६२-६३॥ इसके पश्चात् बिम्ब का प्रवेश कराकर दृढ़ काष्ठ से बने हुए तोरण पर उसे स्थापित करे । फिर अस्त्र मन्त्र से आहुति देवे ॥ ६२-६३ ॥ स्नपनार्थ कलशस्थापनविधिकथनम् निवेश्य स्नानकलशान् हेमाद्युत्थांस्तु निर्व्रणान् ॥ ६३ ॥ पूर्ववद् वदनोपेतान् सुसमांस्त्रासवर्जितान् । निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ ६४ ॥ द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत् । तेनैव पूजयेत् पश्चादर्घ्यस्रक्चन्दनादिना ॥ ६५ ॥ तदाहरणहोमं तु यथाशक्ति समाचरेत् । पूर्णान्तमथ सम्पूर्य क्रमाद् द्रव्यैर्नियोजयेत् ॥ ६६ ॥ अथ स्नपनार्थं कलशस्थापनविधिमाह—निवेश्य स्नानकलशानित्यारभ्य वस्त्रे- णाच्छाद्य वै तत इत्यन्तम् । पूर्वोदितैर्दीक्षाप्रकरणोक्तैरित्यर्थः । अस्य स्नपनस्य पार- मेश्वरेऽप्युक्तत्वात् तद्व्याख्याने पाद्यार्घ्याचमनीयद्रव्याण्युपरि स्पष्टीकरिष्यतीत्युक्तम् । तद्विरुद्धम्, पूर्वोदितैरिति विशेषणस्य वैयर्थ्यात्, तत्रोपरि स्पष्टीकरिष्यमाणपाद्यादि- द्रव्याणां वैजात्याच्च । चमसी = मलनिरहरणार्थकसुगन्धद्रव्यविशेषः । त्रिफलं (नेल्लिक्कायि अरलेकायि तारेकायि । वचा बजे) 'वचोग्रन्था' (२।४।१०२) इत्यमरः। शतावरी = आषाढी । कन्या लोलिसरकन्या, कुमारीति निघण्टुः । व्याघ्री गुल्ली सिंही आडुसोगे । कृताञ्जलिः सट्टदकरिकै कृताञ्जलिर्नार्गबालेति निघण्टुः । गोलोमी पिल्लगरिकै, 'गोलोमी शतवीर्या च' (२।४।१५९) इत्यमरः । "गोलोमी शतपर्विका" (२।४।१०२) इति गोलोमीशब्दस्य वचापरत्वमप्यस्ति, वचायाः पूर्वमेवोक्तत्वादत्र श्वेतदूर्वैव प्रकृता । सिंहलोमी नरियाल्दहुल्लु, क्रोष्टुविन्ना सिंहपुच्छी''