सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 681, कुल 837 में से
संदर्भ में पढ़ें६२२ सात्वतसंहिता (२।४।९३) इत्यमरः । कुष्ठं चगलकोष्ठ, "व्याधि कुष्ठं पारिभाव्यम्" (२।४। १२६) इत्यमरः । भूम्यञ्जनम् । महागंरुडवेगा गरुडनगरिगिड्डा । महानीला करि- गुरुग, गलूची अमृतवल्ली, गल्लूच्यमृतवल्ली चेति निघण्टुः । सहदेवी प्रसिद्धा । विष्णुकान्ता च प्रसिद्धा । शतावरी पूर्वोक्ता । कार्कोटा तोट्टिगिड्डा, हिंस्रा कार्कोटकी चेति निघण्टुः । सिंहा बिल्वः शैलूषश्रीफलसिंहा इति वैद्यनिघण्टुः । वह्निशिखा गिणिमृभिनगड्डे, "स्याल्लाङ्गलिक्यग्निशिखा" (२।४।११८) इत्यमरः । यष्टि अतिमधुरम् । वाराहकर्णी, "अनेलदालु । बला बेण्णेगरुड, "बला वाट्यालकी घण्टा" (२।४।१०७) इत्यमरः । मोटा अगलशुण्ठी । पद्मकं प्रसिद्धम् । सप्त ग्राम्यौषधयः शालिमुद्गादयः, सप्तान्यका वेणुश्यामाकादयश्चेश्वरपारमेश्वरयोर्हविः- पाकप्रकरणोक्ता ग्राह्याः । एवं वामभागे स्थापितचत्वारिंशत्कलशस्नपनस्य स्थूलपर- संज्ञत्वम्, पृष्ठभागे स्थापितचत्वारिंशत्संख्याककेवलशीतोदककलशस्नपनस्य स्थूल- सूक्ष्मसंज्ञत्वम्, दक्षिणभागे स्थापितगन्धोदकपूरितचत्वारिंशत्कलशस्य स्थूलस्थूल- संज्ञत्वं चेश्वरपारमेश्वरयोः प्रतिपादितम् । एवं देवस्य वामभागादिषु स्नपनत्रयकलश- स्थापनं पृथक् स्नपनमण्डपे सति कार्यम्, तदभावे यागगेहस्थतदर्थपीठ एव पूर्वादि- पश्चिमान्तं तत्तद्दिने तत्तत्स्नपनकलशस्थापनं कार्यमिति च तत्रैव प्रतिपादितं ज्ञेयम् । तत्तत्स्नपनकालश्च तत्रैवोक्तः- अधिवासदिने कुर्यात् स्नानं स्थूलपराभिधम् ॥ प्रतिष्ठादिवसे कुर्यात् स्नपनं स्थूलसूक्ष्मकम् । चतुर्थे दिवसे स्नानं स्थूलस्थूलाभिधं भवेत् ॥ इति । -(ई०सं० १८।१६४-१६५, पा०सं० १५।२८८-२८९) एषां स्नपनानां सति विभवे विस्तारस्तदभावे संकोचश्च तत्रैव स्नपनाध्याये प्रतिपादितः- भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा ॥ त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् । अनुकल्पे तदर्धं वा पादमष्टांशमेव वा ॥ चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् । एकैकं वापि विप्रेन्द्राः सर्वद्रव्यमयं घटम् ॥ -(ई०सं० १५।१३८-१४०, पा०सं० १४।१४०-१४२) इति ॥ ६३-९० ॥ इसके बाद स्वर्णादि विनिर्मित व्रण रहित दीक्षा प्रकरण में कहे गये मुखों से युक्त सर्वत्र एक समान, फूटने-टूटने के भय से वर्जित, अच्छी तरह देखभाल कर, शुद्ध किये गये, सौहार्दपूर्वक बनाये गये कलशों को स्थापित करे । फिर एक-एक कलश को द्वादशाक्षर मन्त्र से अभिमन्त्रित करे । पुनः उसी मन्त्र से अर्घ, माला एवं चन्दन से उनकी पूजा करे । उसके स्थापित करने के मन्त्र से यथाशक्ति होम करे । पूर्णाहुती करे । तदनन्तर उसमें तत्तद् द्रव्य स्थापित करे ॥ ६३-६६ ॥