सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 685, कुल 837 में से
संदर्भ में पढ़ें६२६ सात्वतसंहिता पाठयेत् सर्पसामाथ संज्ञां ज्ञानबलात्मिकाम् । अथ नयनोन्मीलनार्थमधिवासार्थं च शयनद्वयकल्पनं तत्रानन्तार्चनादिकं चाह— तदिति द्वाभ्याम् । तदर्पणावसाने कलशपूजानन्तरमित्यर्थः । सर्वोपकरणोपेतमित्यत्र शयनोपकरणानीश्वरपारमेश्वरोक्तानि ग्राह्याणि । प्रभवाप्यययोगेन प्रागादिषु वासुदेव- रूपेणाग्नेयादिषु पुरुषादिरूपेणेत्यर्थः । सर्पसाम = चर्षणीधृतमित्यादि । ज्ञानबला- त्मिकां = सङ्कर्षणो भगवानित्यादिकं मन्त्रम् ॥ ९०-९२ ॥ इस प्रकार पूजा के पश्चात् सर्वोपकरण युक्त दो शयन का निर्माण करे । उसकी सब प्रकार से पूजा करे । तदनन्तर उसके नीचे अनन्त की प्रभव एवं अव्यय क्रम से पूजा करे । उनके ऊपर सर्वत्र गमन करने वाले प्रभु की पूजा करे । ब्राह्मणों से ‘चर्षणी धृतमित्यादि सर्पसाम’ की तथा ‘सङ्कर्षणो भगवान्’ इत्यादि ज्ञानबलात्मिका ऋचा का पाठ करावे ॥ ९०-९२ ॥ हुत्वा शताष्टसंख्यं तु मूलं तदनु कल्पयेत् ॥ ९२ ॥ मण्डलं पावनै रागैः सिताद्यैर्माङ्गलीयकैः । तदूनाधिकशान्त्यर्थं हुत्वा कुण्डगणं ततः ॥ ९३ ॥ संस्कुर्यात् प्रतिकुण्डस्य निकटे कुम्भमध्यगम् । प्रभवाप्यययोगेन चातुरात्म्यं तु संयजेत् ॥ ९४ ॥ हृदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रराट् । कृत्वा तदर्थं पूर्णां तु पूर्णात् पूर्णं च पाठयेत् ॥ ९५ ॥ एकायनान् यजुर्मयानाश्रावितमनन्तरम् । अथ मूलमन्त्रेणाष्टोत्तरशताहुतिपूर्वकं मण्डललेखनम्, तन्न्यूनातिरिक्तशान्त्यर्थं प्रायश्चित्तहोमम्, प्रागाद्यष्टकुण्डसंस्कारम्, प्रतिकुण्डसमीपं कुम्भस्थापनम्, तेषु प्रभ- वाप्ययक्रमेण वासुदेवाद्यर्चनं यद्वा हृन्मन्त्राद्यर्चनम्, मध्यकुण्डे तदर्थं पूर्णाहुतिम्, एकायनादिभिः पूर्णात्पूर्णपठनं चाह—हुत्वेति चतुर्भिः । आश्रावितमथर्ववेद इति पारमेश्वरव्याख्याने ॥ ९२-९६ ॥ तदनन्तर मूल मन्त्र से १०८ आहुति देकर मण्डल निर्माण करे । उसे पवित्र श्वेत, लाल, पीत आदि रंगों से रञ्जित करे । उसमें होने वाले न्यूनातिरिक्त दोष की शान्ति के लिये प्रायश्चित होम करे । इसके पश्चात् आठ कुण्डों का संस्कार करे । प्रत्येक कुण्ड के समीप कलश स्थापित करे । उन कुम्भों पर सृष्टि एवं संहार क्रम से वासुदेवादि का अर्चन करे, अथवा हृन्मन्त्रादि का अर्चन करे । मध्य कुण्ड में अर्चना पूर्ति के लिये पूर्णाहुति करे । तदनन्तर ‘पूर्णमदं पूर्णमिदं पूर्णात्पूर्णमुदच्यते’ का पाठ करावे । इसके बाद ‘एकायनान यजुर्मयानाश्रावितम्’ का पाठ करावे ॥ ९३-९६ ॥ अथास्त्रमन्त्रेण पुरा माङ्गल्यकलशाम्भसा ॥ ९६ ॥