सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 691, कुल 837 में से
संदर्भ में पढ़ें६३२ सात्वतसंहिता एवमावाहनानन्तरं बिम्बसंमार्जनमर्घ्याद्यभ्यर्चनम्, अर्चामि त इत्यादिमन्त्रपठनम्, मध्यकुण्डे दिक्कुण्डेषु च हवनम्, जितन्तास्तोत्रपूर्वकं गायत्ररथन्तरसामपठनम्, जप- मुद्राप्रणामविज्ञापनानि ब्रह्मरथोपरि भगवदुत्सवं शय्याधिवासं लाञ्छनन्यासं दामोदरा- दीनां महिमादितच्छक्तीनां विशाखयूपबीजस्य तत्तन्मूर्तिबीजस्य प्रणवस्य वा मूलमन्त्रस्य च पादादिमूर्धान्तं संहारक्रमेण न्यासम्, निस्तरङ्गार्णववत् सुशान्तत्वेन भगवद्ध्यानमुप- संहारप्रतिपादकानां विद्यां गदामित्यादिमन्त्राणां पाठनम्, बिम्बविन्यस्तैर्मन्त्रैः प्रत्येकं शतसंख्यया होमं पूर्णाहुतिं पुनः सर्वशक्तिमयेन स्वभावेन भगवतोऽभ्युदितत्वचिन्तनम्, बिम्बहृत्पद्मे षट्शक्तिकरणोपेतमूलमन्त्रस्मरणम्, नृसिंहकल्पोक्तरीत्या पाञ्चभौतिकतनू- पसंहारचिन्तनम्, अमलमन्त्रमयमूर्त्युत्पत्तिचिन्तनम्, तद्वाचकानां सहस्रशीर्षं देवमि- त्यादिमन्त्राणां पाठनम्, औपचारिकसांस्पर्शिकाभ्यवहारिकैर्भोगैर्यथाविधि शयनस्थ- भगवदर्चनम्, मध्यकुण्डे दिक्कुण्डेषु च समित्सप्तकादिभिर्भगवत्सन्तर्पणम्, स्वस्व- मूर्तिकुम्भोदकैर्बिम्बसेचनम्, पुनराज्यादिभिः सपरिवारमन्त्रनाथसन्तर्पणम्, पूर्णाहुतिम्, घृतादिचतुर्द्रव्येष्वेकैकेन तत्तदङ्गस्पर्शपूर्वकं हृन्मन्त्रेणाहुतिद्विषट्कात्मकं होमं चाह—ततो विमृज्य वस्त्रेणेत्यारभ्य स्पृष्ट्वा देहं तु चाखिलमित्यन्तम् ॥ १२३-१६७ ॥ फिर वस्त्र से बिम्ब को पोंछ कर सब प्रकार के भोगों से अर्चना करे । ऋग्वेद के अर्ध्यादि से आरम्भ कर दक्षिणान्त मन्त्रों का पाठ करावे ॥ १२३ ॥ अर्चामि तेति वै मन्त्रं साम यच्चार्चितस्त्विति । भगवानिति तज्ज्ञांस्तु ततः सन्तर्पितेऽनले ॥ १२४ ॥ स्तुत्वा जितन्तमन्त्रेण सामज्ञान् पाठयेत् पुनः । सह गायत्रसाम्ना तु तद्रथन्तरसंज्ञितम् ॥ १२५ ॥ ‘अर्चामि ते’ इस मन्त्र का तथा ‘याच्चार्चितास्त्विति’ और ‘भगवानिति’ इत्यादि मन्त्र का पाठ करावे । फिर मध्य कुण्ड में तथा दिक् कुण्ड में होम करे । फिर ‘जितन्तास्तोत्रपूर्वक गायत्ररथन्तर’ साम का पठन करे ॥ १२४-१२५ ॥ प्रजप्य द्वादशार्णं तु मुद्रां बद्ध्वा प्रणम्य च । अष्टाङ्गेनाथ विज्ञाप्यो भगवान् भूतभावनः ॥ १२६ ॥ मूर्तिभूतेन रूपेण अनेनैव हि साम्प्रतम् । लोकानज्ञाततत्त्वांस्तु समाह्लादय नागरान् ॥ १२७ ॥ येनान्तःसम्प्रविष्टेन ईषत्कालवशात् तु वै । जन्मान्तरसहस्रोत्थान्मोक्षमायान्ति किल्बिषात् ॥ १२८ ॥ एवमर्थ्यो हि भगवांल्लोकानुग्रहकृत् प्रभुः । करावङ्घ्रिगतौ कृत्वा पाठयेद् ऋङ्मयांस्ततः ॥ १२९ ॥ उत्तिष्ठेति ऋचो मन्त्रं कृत्वा ब्रह्मरथे स्थिरे । सुयन्त्रिते च क्षीराज्ये दध्योदनसमन्विते ॥ १३० ॥