सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 697, कुल 837 में से
संदर्भ में पढ़ें६३८ सात्वतसंहिता गायत्रीभिस्तदर्थं च बह्वृचाद्यैः पृथक् पृथक् । अजस्य नाभावित्यादिमन्त्रैरेकायनेस्ततः ॥ १७० ॥ अध्वाऽधिभूतमूर्तं तु भोग्यं वापि पृथक् स्थितम् । देवतानां त्वधिष्ठानं पीठं कृत्वाऽथ बुद्धिगम् ॥ १७१ ॥ फिर साधक को गायत्री मन्त्र से तत्पश्चात् बह्वृचा आदि के मन्त्रों से पृथक्- पृथक् होम करना चाहिए ॥ १७०-१७१ ॥ होतव्यं प्रणवेनैव स्वयं व्याहृतिभिस्तु तैः । अपरैर्मूलमन्त्रेण प्रणवान्तेन लाङ्गलिन् ॥ १७२ ॥ इसके बाद 'अजस्य नाभौ' इत्यादि मन्त्रों से पृथक्-पृथक् होम करे । हे लाङ्गलिन् ! व्याहृति युक्त प्रणव से होम करे अथवा प्रणव लगाकर मूल मन्त्र से होम करे ॥ १७२ ॥ ततो वाहनमन्त्रेण तर्पणीयः सदैव हि । स्वनाम्ना प्रणवेनैव स्वाहान्तेनापरैस्ततः ॥ १७३ ॥ ततो गरुडमन्त्रेण परिवारमन्त्रैश्च होममाह—तत इति । पारमेश्वरपुस्तकेषु केषुचित् "ततो हवनमन्त्रेण" (१५।१५४) इत्यबद्धपाठो दृश्यते, तद्व्याख्यानेऽपि हवनमन्त्रेण स्वाहान्तमन्त्रेणेत्यबद्धपाठ एवं व्याख्यातः । अपरैः परिवारमन्त्रैरित्यर्थः ॥ १७३ ॥ अब गरुड़ मन्त्र से तथा परिवार मन्त्र से तर्पण कहते हैं—इसके बाद वाहन मन्त्र, गरुड़ मन्त्र से तर्पण करे । कोई कहते हैं प्रणव, फिर चतुर्थ्यन्त नाम, फिर अन्त में स्वाहा शब्द से तर्पण करे ॥ १७३ ॥ संरोधस्तर्पितानां तु कार्यः पूर्णान्त एव हि । साम्भसा विष्टरेणैव भावेन सजपेन च ॥ १७४ ॥ सर्वेश्वरस्य देवस्य स्वकीयासु च मूर्तिषु । शब्दात्मिकास्वमूर्तासु तद्वच्छ्रुतिमयस्य च ॥ १७५ ॥ एवमेतावदन्तं समर्पितानां सर्वेषामपि परिवारदेवानां सर्वेश्वरस्य भगवतश्च प्रतिष्ठानन्तरभाविपूर्णाहुत्यन्तसन्निरोधमाह—सन्निरोध इति द्वाभ्याम् । साम्भसा = विष्टरेण कूर्चगतार्घ्येणेत्यर्थः । आवाहने सन्निधाने सन्निरोधे तथार्चने ॥ विसर्जनेऽर्घ्यपात्रं तु प्राक् पात्रान्नित्यमाचरेत् । (१८।७१-७२) इति सन्निरोधेऽप्यर्घ्यदानस्य पूर्वोक्तत्वात् । भावेन ध्यानेनेत्यर्थः । सर्वैः स्वकस्य देवस्येति पाठ एव सरसः । यतः सर्वैराचार्यऋत्विग्भिः स्वकस्य देवस्य प्रागादिस्व-