भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 702, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 702

पञ्चविंशः परिच्छेदः ६४३ महानीलं च वङ्गं तु तथा पाषाणमाक्षिकम् ॥ २०३ ॥ यवाः सगरुकाश्चापि ह्याग्नेयाः स्फाटिकं तथा । ताम्रं मनःशिला चैव गोधूमाःशङ्खपुष्पिका ॥ २०४ ॥ मध्ये सर्वाणि तदनु ततो गर्तगणं तु तत् । लेपैराच्छादितं कृत्वा साङ्गं मन्त्रं पदे पदे ॥ २०५ ॥ पूजयित्वा यजुर्वेदान् चमषट्कांश्च पाठयेत् । इसके बाद बाहर पूर्व में विदिक् में अप्यय योग से पृथक्-पृथक् अन्य वस्तुयें इस प्रकार स्थापित करे । लौह, वैदूर्य, चक्राङ्क, अभ्रक और षाठी का धान्य ईशान वायव्य कोण में स्थापित करे । पुष्पराग, हरीतकी, गैरिका, शारिका और मसूर नैर्ऋत्य कोण में, महानील, वङ्ग, पाषाण, माक्षिक, करुक के सहित यव एवं स्फटिक अग्निकोण में स्थापित करे । ताँबा, मन, शिला, गोधूम, शङ्खपुष्पिका ये सभी वस्तुयें गड्ढे के मध्य में स्थापित करे । फिर उन वस्तुओं के सहित समस्त गड्ढों को लेप से आच्छादित कर साङ्ग मन्त्र का पद-पद पर पाठ करावे । यजुर्वेदज्ञों का पूजन कर छह चमक मन्त्रों का पाठ करावे । फिर उस गड्ढे में पीठ को डालकर ऊपर पीठ स्थापित करे ॥ । १९७-२०६ ॥ तदूर्ध्वे विन्यसेत् पाठं तच्छ्वभ्रे विनिवेश्य च ॥ २०६ ॥ अष्टलोहमयं चक्रं तदूर्ध्वे तु महामते । द्वादशाख्याद् विशेषोत्यादाधारो यस्य यः स्वकः ॥ २०७ ॥ हैमं तदूर्ध्वे कमलं तज्जं वा ताम्रमेव वा । यथाक्रमस्थितं ह्येतत् पञ्चकं चतुरात्मनि ॥ २०८ ॥ न्यसेदनन्तं चक्रस्य मीनकूर्मौ कृतस्य च । कूर्मनिनन्तौ तु मीनस्य मीनानन्तौ तु तस्य च ॥ २०९ ॥ सर्वस्य विहितं पद्मं तस्यानन्तं तु विन्यसेत् । मण्टपे तु खगेशस्य चक्रं स्थापनकर्मणि ॥ २१० ॥ न्यस्य पूर्णान्तिकं कृत्वा कर्मण्यत्र च तर्पणम् । सह मूर्तिधरैः प्राग्वत् कार्या दर्भोदकक्रिया ॥ २११ ॥ तदूर्ध्वे पीठस्थापनं तद्गर्ते चक्रादिस्थापनं चाह—तदूर्ध्वे विन्यसेत्पीठमित्यारभ्य कार्या दर्भोदकक्रियेत्यन्तम् । द्वादशाख्याद् विशेषोत्यादाधारो यस्य यः स्वकः । विभवदेवेष्वनन्तादिद्विष्टकस्य कूर्मस्त्वाधारः । मीनादिद्विष्टकस्य मीनस्त्वाधार इत्यर्थः । चतुरात्मनि चातुरात्म्यप्रक्रियायामेतत् पञ्चकं चक्रा(न)न्तकूर्ममीनपद्मपञ्चक- मित्यर्थः । एवं चानन्तकूर्ममीनव्यतिरिक्तविभवदेवानां प्रतिष्ठायां पीठगर्ते प्रथमं चक्रम्, तदुपरि तत्तद्द्विष्टकाधारमनन्तकूर्ममीनेष्वन्यतमम्, तदुपरि पद्ममेतत् त्रयमेव न्यसेदिति

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक) · पृष्ठ 702, कुल 837 में से · BharatKosha