सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 705, कुल 837 में से
संदर्भ में पढ़ें६४६ सात्वतसंहिता मोक्षादिफलसिद्धीनां प्राप्तये ह्यविचारतः । ब्रह्मपदस्थापितस्यापि देवस्य किञ्चिद् दिव्यभागानयने युक्तिमाह—शान्तमिति द्वाभ्याम् । दिव्यभागानयनं च वामभाग इति बोध्यम् । तथा च पारमेश्वरे— यत्रापि केवले ब्राह्मे स्थापनं समुदीरितम् । तत्रापि वामतः किञ्चिद् द्रव्यभागं समाश्रयेत् ॥ —(१५।७९९) इति । अत्र पारमेश्वरव्याख्याने—‘‘शान्तं ब्रह्ममयं रूपमित्यनेन आवाहयामीत्युक्तार्थः स्मारितः, पाठक्रमादर्थक्रमस्य बलीयस्त्वात्, ‘‘अग्निहोत्रं जुहोति’’ (तै०सं० १।५।९।१), ‘‘यवागूं पचति’’ इतिवत्, सन्ध्यास्नानमितिवच्च’’ इति लिखितम् । अत्रावाहयामीत्यर्थस्मरणस्य न किञ्चिदपि प्रकृतत्वं दृश्यते । किञ्च, पूर्वं तदर्थविरोधे पाठक्रमादर्थक्रमोऽनुसरणीयः । विरोध एव न दृश्यते । ननु तदा बिम्बस्थापनात् पूर्वमेव स्नपनकाले आवाहनं विरुद्धमिति चेन्न, तदानीं भगवदावाहनं विना केवलबिम्बेऽभ्यर्चनोत्सवशयनाधिवासमन्त्रन्यासपरमान्निवेदना- दिकस्यात्यन्तविरुद्धत्वात् । किञ्च, बिम्बस्थापनात् पूर्वमावाहनं विरुद्धं मन्वानेन भवता कथमष्टबन्धनात् पूर्वमावाहनविरुद्धं गृह्यते? अपि च, शान्तं ब्रह्ममयं रूपमित्यत्र शान्तं शान्तोदितावस्थापन्नं ब्रह्ममयं स्वकं रूपमवलम्ब्य आश्रित्य सर्वेषां हितार्थं षड्गुणात्मना यतो भगवान् निर्गतः, ततो ब्रह्मस्थानादीषद् देवं बहिर्निर्गमयेदित्यर्थोपदेशप्रकरणे आवाहनस्मरणं कर्तुं कथं शक्यते किं बहुना ॥ २२०-२२२ ॥ यतः भगवान् अपने शान्त ब्रह्ममय स्वरूप का अवलम्बन कर सभी हित के लिये षड्गुण स्वरूप से उत्पन्न होते हैं इसलिये उस ब्रह्म स्थान से किञ्चिन्मात्र दिव्य भाग को निकाल कर देव भाग में मोक्षादि फल प्राप्ति के लिये बिना विचारे स्थापित करे ॥ २२०-२२२ ॥ करस्थमथ मोक्तव्यं कौतुकं हृदयेन तु॥ २२२ ॥ सर्वाङ्गमर्घ्यमन्त्रेण दत्वा मूलमनुस्मरेत् । हृदास्त्रपरिजप्तेन वज्रलेपेन वै ततः॥ २२३ ॥ बिम्बपीठशिलानां तु एकत्वेनाचरेत् स्थितिम् । अथ रक्षासूत्रविसर्जनकार्यसमर्पणपूर्वकमष्टबन्धनलेपनमाह—करस्थमिति द्वाभ्याम् । अत्र पारमेश्वरव्याख्याने—अत्र पाद्यादिष्विव प्रतिकर्म कौतुकबन्धनप्रसङ्गा- भावात् कथं मोक्तव्यमित्युक्तमिति चेत्, प्रतिकर्म तदभावे जलाधिवाससमये पूर्ववत् कौतुकं बद्ध्वेति प्रसङ्गोत्सवेति शङ्का परिहृता । एवं शङ्का पारमेश्वरव्यख्यातुरेव जाता, न ह्यान्यस्य जायते, तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान् करे । सिद्धार्थकान् दक्षिणे तु बद्ध्वाग्रे पाठयेदृचम् ॥ रक्षोहणं तथा सर्वान् नयेत् प्रतिसरे मणीन् । (२५।४९-५०)