सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 706, कुल 837 में से
संदर्भ में पढ़ेंपञ्चविंशः परिच्छेदः ६४७ इति पूर्वमेव कौतुकप्रसङ्गात् । नन्वस्य कौतुकत्वं न संभवति, जलाधिवाससमये "पूर्ववत् कौतुकं बद्ध्वा" (ई०सं० १८।९९, पा०सं० १५।२२५) इत्यत्रोक्तस्यैव कौतुकत्वमिति चेत्, तथा न भ्रमितव्यम् । "करस्थमथ मोक्तव्यं कौतुकं हृदयेन तु" (२५।२२) इति वाक्यं सात्वतोक्तम् । तत्र जलाधिवासस्यैवानुक्तत्वात् "पूर्ववत् कौतुकं बद्ध्वा" इति वाक्यमेव नास्ति । अतः—तमर्घ्येणार्चयित्वा" (२५।४९) इत्यादिप्रतिपादितस्य प्रतिसरबन्धस्यैव विसर्जनं चेति पूर्वपर्यालोचनया स्वस्थो भव ॥ २२२-२२४ ॥ फिर हृदयमन्त्र से भगवान् के दक्षिण हाथ में बाँधे गये सिद्धार्थक को मुक्त करे । फिर अर्घ्यमन्त्र से सर्वाङ्ग में अर्चन कर मूल मन्त्र का स्मरण करे । तदनन्तर हृदस्त्र से जपे गये वज्रलेप से बिम्ब, पीठ और शिला में एकत्व स्थिति की भावना करे ॥ २२२-२२४ ॥ मूलमन्त्रं ततो ध्यात्वा संशान्तब्रह्मलक्षणम् ॥ २२४ ॥ आधारादिध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत् । इति सामान्यसन्धानं प्राक् कृत्वा तद्विशिष्यते ॥ २२५ ॥ स्थूलसूक्ष्मपरत्वेन स्थूलं षोढा शिलान्तगम् । पिण्डिकायां तथा सूक्ष्मं तत्परं बिम्बविग्रहे ॥ २२६ ॥ अथ मूलमन्त्रस्याधारादिप्रासादोर्ध्वस्थितध्वजाग्रान्तं व्यापिस्मरणरूपं सामान्य- सन्धानं पुनस्तस्यैव मन्त्रस्य हृदादिभेदैः षोढा स्थूलरूपेण ब्रह्मशिलायाम्, सूक्ष्मरूपेण पीठे, पररूपेण बिम्बे च विशेषतः सन्धानं चाह—मूलमन्त्रमिति सार्द्धद्वाभ्याम् । प्रासादाग्रे ध्वजसंस्थितिं वक्ष्यति हि— त्रिधांशने शिखाद्युच्चं खगराट्परिभूषितम् । संस्कृत्य ध्वजदण्डं च शिखामन्त्रेण विन्यसेत् ॥ —(२५।२८४) इति । अत एवेश्वरपारमेश्वरयोरप्युत्सवाध्याये—‘प्रासादस्य शिखाग्रे तु स्थापितः खगराड्- ध्वजः' (ई०सं० १०।१९, पा०सं० १६।३७) इति प्रतिपादितम् ॥ २२४-२२६ ॥ फिर संशान्त ब्रह्म लक्षण वाले मूल मन्त्र का ध्यान करे और भावना करे कि यही मन्त्र प्रासाद के आधार से लेकर ध्वजाग्र पर्यन्त सर्वत्र स्थित है । इस सामान्य भावना के अनन्तर यह विशेष भावना करे कि यही मन्त्र हृदयादि भेद से छह स्थूल रूप में ब्रह्मशिला में एवं सूक्ष्म रूप से पीठ में और पररूप से बिम्ब में व्याप्त है ॥ २२४-२२६ ॥ विन्यासं पीठमूलेऽथ देवतानां समाचरेत् । भवोपकरणीयानां पीठोऽर्ध्वे त्वथ तद्दिना ॥ २२७ ॥ न्यसेद् विभवदेवांस्तु उपर्युपरि पूर्ववत् ।