सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 707, कुल 837 में से
संदर्भ में पढ़ें६४८ सात्वतसंहिता घटोद्देशात् समारभ्य परमर्चागतं ततः॥ २२८॥ अथ देवतान्यासमाह—विन्यासमिति त्रिभिः। पीठमूले = पीठस्याधः पिण्डिको- परीति यावत्। भवोपहरणीयानां देवतानां कालादिवसुधान्तानां पूर्वोक्तानामित्यर्थः। तद्विना विभवदेवान् न्यसेत्। पातालशयनादिपद्मनाभान्तविभवदेवेषु प्रतिष्ठेयम्। देवं विनाऽन्यान् सर्वान् न्यशेदित्यर्थः। तथा च व्यक्तमुक्तमीश्वरपारमेश्वरयोः— पीठोर्ध्वे तु मुनिश्रेष्ठाः प्रतिष्ठेयं विनैव तु। न्यसेद् विभवदेवांस्तु ह्युपर्युपरि पूर्ववत्॥ इति। —(ई०सं० १८।४१५, पा०सं० १५।८२६) पारमेश्वरव्याख्याने एतदभिप्रायमबुद्ध्वा ''प्रतिष्ठेयं प्रतिष्ठायोग्यं बिम्बं विना मन्त्रे न्यशेदित्यर्थः'' इति लिखितम्। घटोद्देशात् समारभ्य पूर्वं प्रासादमध्ये स्थापित- कुम्भादारभ्य, उपर्युपरि पीठोर्ध्वान्तं पातालशयनादिपद्मनाभान्तक्रमेण न्यास इति ज्ञेयम्॥ २२७-२३०॥ पीठ के नीचे पिण्डिका में कालादि वसुधान्त भवोपहरणीय देवताओं का न्यास करे। पीठ के ऊर्ध्व भाग में भवोपहरणीय देवता के बिना विभव देवताओं का न्यास करे। फिर घटोद्देश से आरम्भ कर, अर्चित पर देवता की, बिना देव के ऊपर-ऊपर ही न्यास करे॥ २२७-२२८॥ एवं हि सर्वदेवानां सन्निवेशवशात् तु वै। चिन्तामणिमयो न्यासः कृतो भवति सिद्धिदः॥ २२९॥ इस प्रकार बिम्ब में सभी देवताओं के सन्निवेश के कारण ऐसा समझना चाहिये कि यह सिद्धिप्रद चिन्तामणि न्यास किया गया है॥ २२९॥ अथ मण्टपमध्ये तु देवदेवस्य सम्मुखम्। स्थितेऽपि तन्मुहूर्तांशे स्थापनीयश्च पक्षिराट् ॥ २३०॥ अथाग्रमण्टपमध्ये विहंगेशप्रतिष्ठाविधानमाह—अथ मण्टपमध्ये त्वित्यारभ्य सुपर्णोऽसीति मन्त्रराडित्यन्तम्। स्नातो यथाविधि सिद्धार्थोदकादिभिर्बृहत्स्नपनेन च स्नापित इत्यर्थः। अनुलिप्तश्चन्दनाद्यलङ्कृत इत्यर्थः। यद्वा स्वेन मन्त्रेणानुलिप्तो मन्त्रन्यासादिभिः परिष्कृत इत्यर्थः। संस्कृतोऽन्यैश्च नयनोन्मीलनशयनाधिवासादि- संस्कारैः संस्कृत इत्यर्थः। बिम्बेन सह प्रधानभगवद्विम्बेन सहेत्यर्थः। ज्ञशक्त्या ज्ञानशक्त्यात्मकत्वेन संस्कृत इत्यत्रैवान्वयः। उक्तं खल्वस्य ज्ञानशक्त्यात्मकत्व- मीश्वरपारमेश्वरयोः— विष्णोः सङ्कर्षणाख्यस्य विज्ञानबलशालिनः॥ मूर्तिर्ज्ञानस्वरूपा या सर्वाधारस्वरूपिणी। महिमेति जगद्धातुर्विज्ञेयो विहगेश्वरः॥ इति। —(ई०सं० ८।३-४, पा०सं० ८।३-४)