सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
६४८ सात्वतसंहिता घटोद्देशात् समारभ्य परमर्चागतं ततः॥ २२८॥ अथ देवतान्यासमाह—विन्यासमिति त्रिभिः। पीठमूले = पीठस्याधः पिण्डिको- परीति यावत्। भवोपहरणीयानां देवतानां कालादिवसुधान्तानां पूर्वोक्तानामित्यर्थः। तद्विना विभवदेवान् न्यसेत्। पातालशयनादिपद्मनाभान्तविभवदेवेषु प्रतिष्ठेयम्। देवं विनाऽन्यान् सर्वान् न्यशेदित्यर्थः। तथा च व्यक्तमुक्तमीश्वरपारमेश्वरयोः— पीठोर्ध्वे तु मुनिश्रेष्ठाः प्रतिष्ठेयं विनैव तु। न्यसेद् विभवदेवांस्तु ह्युपर्युपरि पूर्ववत्॥ इति। —(ई०सं० १८।४१५, पा०सं० १५।८२६) पारमेश्वरव्याख्याने एतदभिप्रायमबुद्ध्वा ''प्रतिष्ठेयं प्रतिष्ठायोग्यं बिम्बं विना मन्त्रे न्यशेदित्यर्थः'' इति लिखितम्। घटोद्देशात् समारभ्य पूर्वं प्रासादमध्ये स्थापित- कुम्भादारभ्य, उपर्युपरि पीठोर्ध्वान्तं पातालशयनादिपद्मनाभान्तक्रमेण न्यास इति ज्ञेयम्॥ २२७-२३०॥ पीठ के नीचे पिण्डिका में कालादि वसुधान्त भवोपहरणीय देवताओं का न्यास करे। पीठ के ऊर्ध्व भाग में भवोपहरणीय देवता के बिना विभव देवताओं का न्यास करे। फिर घटोद्देश से आरम्भ कर, अर्चित पर देवता की, बिना देव के ऊपर-ऊपर ही न्यास करे॥ २२७-२२८॥ एवं हि सर्वदेवानां सन्निवेशवशात् तु वै। चिन्तामणिमयो न्यासः कृतो भवति सिद्धिदः॥ २२९॥ इस प्रकार बिम्ब में सभी देवताओं के सन्निवेश के कारण ऐसा समझना चाहिये कि यह सिद्धिप्रद चिन्तामणि न्यास किया गया है॥ २२९॥ अथ मण्टपमध्ये तु देवदेवस्य सम्मुखम्। स्थितेऽपि तन्मुहूर्तांशे स्थापनीयश्च पक्षिराट् ॥ २३०॥ अथाग्रमण्टपमध्ये विहंगेशप्रतिष्ठाविधानमाह—अथ मण्टपमध्ये त्वित्यारभ्य सुपर्णोऽसीति मन्त्रराडित्यन्तम्। स्नातो यथाविधि सिद्धार्थोदकादिभिर्बृहत्स्नपनेन च स्नापित इत्यर्थः। अनुलिप्तश्चन्दनाद्यलङ्कृत इत्यर्थः। यद्वा स्वेन मन्त्रेणानुलिप्तो मन्त्रन्यासादिभिः परिष्कृत इत्यर्थः। संस्कृतोऽन्यैश्च नयनोन्मीलनशयनाधिवासादि- संस्कारैः संस्कृत इत्यर्थः। बिम्बेन सह प्रधानभगवद्विम्बेन सहेत्यर्थः। ज्ञशक्त्या ज्ञानशक्त्यात्मकत्वेन संस्कृत इत्यत्रैवान्वयः। उक्तं खल्वस्य ज्ञानशक्त्यात्मकत्व- मीश्वरपारमेश्वरयोः— विष्णोः सङ्कर्षणाख्यस्य विज्ञानबलशालिनः॥ मूर्तिर्ज्ञानस्वरूपा या सर्वाधारस्वरूपिणी। महिमेति जगद्धातुर्विज्ञेयो विहगेश्वरः॥ इति। —(ई०सं० ८।३-४, पा०सं० ८।३-४)
पञ्चविंशः परिच्छेदः ६४९ यस्यमादित्यादिना प्रधानबिम्बादिना सहैव गरुडादिसमस्तपरिवाराङ्ग- बिम्बादीनामपि सामान्यतस्तत्तदनुरूपस्नपनार्चनसन्तर्पणादिसंस्काराः कार्या इत्युक्तं भवति । आधारो य उदीरितः ''मण्डपे तु खगेशस्य चक्रस्थापनकर्मणि'' (२५।२१०) इति प्रतिपादितः । भौवनं भुवनाध्वानम् । शेषम् अवशिष्टपदाध्वादि- पञ्चकमित्यर्थः ॥ २३० - २३७ ॥ इसके बाद मण्डप के मध्य में देव, देव के सम्मुख गरुड़ के स्थित रहने पर भी उसी मुहूर्त्त में पक्षिराट् गरुड़ की भी प्रतिष्ठा करे ॥ २३० ॥ स्नातोऽनुलिप्तो मन्त्रेण स्वेन यः संस्कृतः पुरा । ज्ञशक्त्या सह बिम्बेन यस्माद् भिन्नेषु वस्तुषु ॥ २३१ ॥ बिम्बसन्निकटस्थेषु अथवाऽन्यत्र लाङ्गलिन् । तत्कालमङ्गभावत्वं व्रजमानेषु सर्वथा ॥ २३२ ॥ हवनान्तं च निःशेषं ध्यानार्चनपुरस्सरम् । स्वयमेवानुरूपेण कर्मसामान्यतां त्यजेत् ॥ २३३ ॥ उन्हें सिद्धार्थोदकादि से बृहत् स्नान करावे और चन्दनादि से अलङ्कृत करे । उन्हें अपने मन्त्र से न्यास द्वारा सुसंस्कृत करे अथवा नयनोन्मीलन, शयना- धिवासादि संस्कारों से सुसंस्कृत करे । इस प्रकार भिन्न वस्तु होते हुये बिम्ब के सन्निकट स्थित रहते हुये, अथवा अन्यत्र स्थित होने पर, अथवा प्रतिष्ठा काल में बिम्ब के अङ्ग भाव को प्राप्त होने वाले गरुड़ का प्रधान देवता के साथ-साथ संस्कार करे । हवनान्त ध्यानार्चन पुरःसर स्वयं बिम्ब के अनुरूप ही सारा कार्य संपादन करे । कर्म सामान्य का परित्याग करे ॥ २३१-२३३ ॥ तस्मात् तद्यागभवनादुत्थाप्यादाय बिम्बवत् । देवं प्रदक्षिणीकृत्य प्राग्वत् संस्थापनावनौ ॥ २३४ ॥ एकस्मिन् मध्यरन्ध्रे तु वज्राद्यं पञ्चकं न्यसेत् । एक एव तदूर्ध्वेऽथ आधारो य उदीरितः ॥ २३५ ॥ प्राग्वन्निवेशनीयं च तत्पीठोर्ध्वे तु भौवनम् । भावनीयं शरीरे च शेषं विज्ञप्तिलक्षणम् ॥ २३६ ॥ इस कारण उस यागगृह से उन्हें बिम्ब के समान ही उठा कर संस्थापन भूमि में स्थापित कर गरुड़ देव की प्रदक्षिणा करे । किसी एक मध्य में रन्ध्र बनाकर उसमें वज्रादि को स्थापित करे, उस पर अकेले पहिले की तरह सन्निविष्ट करे जो 'आधार' कहे जाते हैं । उस पीठ के ऊपर भुवनाध्वा तथा शेष पदाध्वादि पाँच स्थापित करे ॥ २३४-२३६ ॥ पाठयेद् ब्राह्मणांस्तद्वत् सुपर्णोऽसीति मन्त्रराट् । सा० सं० - 45
६५० सात्वतसंहिता तमेवास्त्रार्चितं कृत्वा यायाद् देवनिकेतनम् ॥ २३७ ॥ कलशैः पृष्ठभागस्थैः स्नापनीयस्ततो विभुः । सह मूर्त्तिधरैः सर्वैर्यथा चानुक्रमेण तु ॥ २३८ ॥ अथैवं प्रतिष्ठितस्य गरुडस्यार्चनं कृत्वा गर्भगृहान्तः प्रविश्य पूर्वं स्नपनमण्टपे पृष्ठभागे स्थापितैश्चत्वारिंशत्कलशैर्देवमभिषेचयेदित्याह—तमिति सार्धेन । तदनन्तर ब्राह्मणों से 'सुपर्णोऽसि' इस मन्त्रराट् का पाठ करावे । फिर उनकी अर्चना कर स्वयं देवगृह में जावे । वहाँ जाकर उन विभु के पृष्ठ भाग में संस्थापित कलशों से सभी मूर्त्तिधरों के साथ अनुक्रम के अनुसार इस प्रकार देवाधिदेव का अभिषेक करे ॥ २३७-२३८ ॥ सहाघमर्षणेनैव गायत्र्यावर्तितेन तु । प्रागङ्गमयस्तु तदनु चतुर्थावर्तितैः स्वयम् ॥ २३९ ॥ हृदाद्यावर्तितैः षड्भिर्यजुर्ज्ञस्तेन सेचयेत् । भूयः स्वयं तथा कुम्भैः सामवित् स्नापयेत् ततः॥२४०॥ षड्भिरन्यैः स्वयं पश्चात् तेनैवाथर्ववित्ततः । पवित्रावर्तितैरेवं कलशैरन्तरान्तरा ॥ २४१ ॥ सह चैकायनीयैस्तु स्नापनीयमनन्तरम् । चतुर्मूर्तिमयैर्मन्त्रैर्बहुशः परिभावितैः ॥ २४२ ॥ स्नापयेत् कलशेनाथ शेषमादाय वै घटम् । तच्छतावर्तितं कृत्वा समूलेनाद्य मूर्त्तिना ॥ २४३ ॥ सार्धं वै देवदेवस्य मूर्ध्नि चोत्कीर्य पाठयेत् । अभिषेकप्रकारमाह—सहाघमर्षणेनेत्यारभ्य जितन्त इति वै सर्वैरित्यन्तम् । यजुर्ज्ञस्तेन सेचयेदित्यत्र तेनाघमर्षणसूक्तगायत्रीभ्यामभिमन्त्रितेनैकेन कलशेनेत्यर्थः । भूयः स्वयं तथा कुम्भैरित्यत्रापि कुम्भैः पूर्ववद् हृदाद्यभिमन्त्रितैः षड्भिः कलशैरित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् । पवित्रावर्तितैः कलशैश्चतुर्भिरित्यर्थः, "ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक् चतुष्टयम्" (२४।२९०) इति पूर्वोक्तत्वात् । अन्तरान्तरा वासुदेवादिमूर्तिमन्त्रकलशाभिषेकस्य मध्ये मध्ये इत्यर्थः । स्नापयेत् कलशेनाथेत्यत्रापि पवित्रमन्त्र एव बोध्यः । समूलेन मूलमन्त्रसहितेन आद्यमूर्त्तिना परमन्त्रेणेत्यर्थः । तस्यादिमूर्त्तिविषयकत्वात् तथैव व्यवहृतः ॥ २३९-२४३ ॥ यजुर्वेदज्ञ अघमर्षण सूक्त तथा गायत्री से अभिमन्त्रित छह कलश से, फिर स्वयं हृदयाभिमन्त्रित छह कलशों से स्नान करावे, फिर सामवेदी छह कलशों से स्नान करावे फिर स्वयं छह कलशों से स्नान करावे फिर अथर्ववेदी पवित्रावर्तित चार, छह कलशों से स्नान करावे । इसी प्रकार मध्य मध्य में वासुदेवादिमूर्त्ति मन्त्र
पञ्चविंशः परिच्छेदः ६५१ से अभिमन्त्रित छह कलशों से स्वयं स्नान करावे । इस प्रकार एक सौ बार आवृत्ति कर मूल मन्त्र सहित परमन्त्र से स्नान करावे ॥ २३९-२४३ ॥ जितन्त इति वै सर्वांस्ततश्चास्त्रोदकेन च ॥ २४४ ॥ तदनन्तर देवाधिदेव का शिर आभरणादि रहित कर 'जितन्ते' इस सभी मन्त्रों से तत्पश्चात् अस्त्रोदक से स्नान करावे ॥ २४४ ॥ प्रासादसंशोधनकथनम् प्रासादं शोधयित्वा च स्नानवर्जं समाचरेत् । पूर्वोक्तमासनाद्यं यद् यागदानावसानिकम् ॥ २४५ ॥ सदक्षिणं विशेषेण गुरौ मूर्तिधरेषु च । देवं प्रणम्य विज्ञाप्य कर्मणा मनसा गिरा ॥ २४६ ॥ त्वमर्चान्तर्गतो देव मया यच्छयनादिषु । नीतोऽसि चाभिमुख्यं तु क्षन्तव्यं तन्ममाच्युत ॥ २४७ ॥ अथ प्रासादसंशोधनम्, स्नपनं विनाऽऽसनादिभिर्हविर्निवेदन्तैर्भोगैर्यथाविध्य- भ्यर्चनम्, कारिप्रदानम्, आचार्यादीनां दक्षिणादानम्, प्रणामम्, विज्ञापनम्, पुनः प्रणामादिकम्, “गुरुदेवाग्निविप्रेषु पृष्ठभागं न दर्शयेत्” इत्युक्तप्रकारेण भगवदभि- मुखमेव बहिर्निष्क्रमणम्, द्वारावरणदेवानां यथाविधि बलिदानम्, आचमनम्, पुन- र्भगवन्मन्दिरप्रवेशनं चाह—ततश्चास्त्रोदकेन चेत्यारभ्य यायाद् देवगृहं तत इत्यन्तम् ॥ २४४-२४८ ॥ अब प्रासाद संशोधन कहते हैं—स्नान के बिना आसनादि से आरम्भ कर भोग, दक्षिणा पर्यन्त वस्तुओं से प्रासाद की अर्चना करे । कार्यकर्त्ताओं को दान दें। आचार्यादि को दक्षिणा देवे, फिर देवाधिदेव को प्रणाम करे । तदनन्तर कर्मणा मनसा एवं गिरा देवाधिदेव से इस प्रकार निवेदन करे—हे भगवन्! मैंने अपने अर्च्यादि कार्यों के लिये शयनादि पर आपको पधरवा कर जो आपने प्रत्यक्ष किया है, हे अच्युत! उसे क्षमा कीजिये ॥ २४५-२४७ ॥ एवं प्रणम्य विज्ञाप्य क्षान्त्वा निष्क्रम्य सम्मुखम् । आचम्य च बलिं दत्त्वा यायाद् देवगृहं ततः ॥ २४८ ॥ इस प्रकार प्रणाम करे, निवेदन करे, अपराध क्षमा करावे, फिर भगवान् की ओर पीठ न दिखा कर उनके सामने बाहर निकले । तदनन्तर द्वार के आवरण करने वाले देवताओं को बलिदान प्रदान करे एवं आचमन करे । फिर भगवान् के मन्दिर में प्रवेश करे ॥ २४८ ॥ तत्रासनादिकैर्यष्ट्वा स्नानान्तैः पूर्ववत् प्रभुम् ।
६५२ सात्वतसंहिता अपनीताम्बरैः कुम्भैर्धान्यपीठोपरि स्थितैः ॥ २४९ ॥ हृन्मन्त्रपूजितैर्भूयः सलिलेन सुपूरितैः । सह मूर्तिधरैः प्राग्वदन्तरान्तरयोगतः ॥ २५० ॥ कार्यं वै स्नानकर्माऽथ विधिदृष्टेन कर्मणा । निरोदकेऽथ प्रासादे पुनराराध्य पूर्ववत् ॥ २५१ ॥ भोगैरासनपूर्वैस्तु सम्प्रदानान्तमच्युतम् । मुद्रां बद्ध्वा जपेन्मन्त्रं स्तुत्वा क्षान्त्वा बहिर्व्रजेत् ॥ २५२ ॥ अथ चतुर्थेऽहनि कर्तव्याराधनस्पनालङ्कारहविर्निवेदनाद्यग्निसन्तर्पणपूर्णाहुति- बलिदानमहाकुम्भादिविसर्जनान्याचार्यादीनां भूषणप्रदानानि चाह—तत्रासनादिकै- र्यष्ट्वेत्यादिभिः । अत्र चतुर्थेऽहनीति कण्ठरवेणानुक्तावप्यर्थपर्यालोचनया तज्ज्ञायते, अन्यथा बल्यन्तमाराधनमुक्त्वा, पुनस्तदानीमेवार्चनस्पनाद्युक्त्यसंभवात् । नन्वत्र— आचम्य च बलिं दत्त्वा यायाद् देवगृहं ततः ॥ तत्रासनादिकैर्यष्ट्वा स्नानान्तः पूर्ववत् प्रभुम् । (२५।२४८-२४९) इत्यव्यवधानेन प्रतिपादितस्य चतुर्थेऽहनि कर्तव्यपरत्वं वक्तुं कथं शक्यते, अतो माध्याह्निकाचार्चनादिपरत्वं वक्तव्यमिति चेत्, किमावयोर्र्विवादेन । तस्य चतुर्थेऽहनि कर्तव्यपरत्वं तदुपबृंहणयोरीश्वरपारमेश्वरयोरेव निर्णीतं पश्यतु भवान् । अपनीताम्बरैः कुम्भैः पूर्वं स्नानमण्डपे दक्षिणभागे स्थापितैश्चत्वारिंशत्कलशैरित्यर्थः । भूयः सलिलेन सुपूरितैः पूर्वं पूरिते जले किञ्चित् शोषिते सति पुनः समग्रं पूरितैरित्यर्थः । प्राग्वत् प्रतिष्ठादिवसकृतस्थूलसूक्ष्माख्यस्नपनवदित्यर्थः । स्वकीयाभिरभिज्ञाभिर्वासुदेवादि- मन्त्रैरित्यर्थः ॥ २४९-२६० ॥ वहाँ आसन से प्रारम्भ कर स्नानान्त प्रभु की पूजा करे । फिर धान्य पीठ पर संस्थापित, आच्छादित वस्त्रों से रहित, नमः मन्त्र से पूजित जल के शोषण हो जाने के कारण पुनः जल से परिपूर्ण कलशों से मूर्तिधरों के साथ बीच-बीच में विधि के अनुसार स्नान कर्म करावे । इस प्रकार जलरहित उस प्रासाद में पुनः आसन से आरम्भ कर भोग पर्यन्त, तदनन्तर दक्षिण पर्यन्त भगवान् की पूजा करे । तत्पश्चात् साधक मुद्रा बाँध कर जप करे, स्तुति करे, क्षमा माँगे, फिर बाहर निकले ॥ २४९-२५२ ॥ शतं सहस्रं साष्टं वा जुहुयान्मन्त्रराट् स्वयम् । साङ्गं सपरिवारं च संहितोच्चारयुक्तितः ॥ २५३ ॥ मूर्तिपैः प्रणवाद्याभिर्गायत्रीभिः शतं शतम् । फिर संहिता (वेद) घोष की तरह उच्चारण करते हुये साङ्ग सपरिवार मूल मन्त्र से एक सौ आठ अथवा एक हजार आठ आहुति देवे । प्रणवादि मूर्तिप मन्त्रों
पञ्चविंशः परिच्छेदः ६५३ से तथा प्रणवादि गायत्री मन्त्रों से सौ-सौ आहुति देवे। इसी प्रकार वासुदेवादि मन्त्रों से भी उतनी ही आहुति प्रदान करे ॥ २५३-२५४ ॥ एकायनैर्भिज्ञाभिः स्वकीयाभिस्तु तत्समम् ॥ २५४ ॥ प्रदापयेत् ततः पूर्णानृग्वेदाद्यांस्तु मूर्त्तिपान् । एकायनांस्तदन्ते तु क्रमात् तान् पाठयेत् ततः ॥ २५५ ॥ पूर्णात्पूर्णेति वै मन्त्रमाद्यात् पूर्णमसीति यत् । सनमस्केन मन्त्रेण स्वयं साङ्गेन निक्षिपेत् ॥ २५६ ॥ बलिभिस्तु ततः सर्वान् भूतपूर्वांस्तु तर्पयेत् । प्रविश्याचम्य तदनु क्षान्त्वा देवं तु कुम्भगम् ॥ २५७ ॥ पूर्ववन्मण्डलस्थं तु कुण्डस्थं तदनन्तरम् । भूषयेद् गुरुपूर्वांस्तु भूषणैः कटकादिकैः ॥ २५८ ॥ गुरोर्वा गुरुपुत्रस्य यागद्रव्यं निवेदयेत् । बिम्बमेकायनान्तं तु सर्वसाधनसंयुतम् ॥ २५९ ॥ दासीकर्मकरोपेतं शुद्धदेवलकान्वितम् । फिर मूर्त्तिप लोगों को सम्पूर्ण ऋग्वेदादि देवे तथा अन्त में एकायनों को देवे। फिर स्वयं 'पूर्णात् पूर्णेति' मन्त्र का पाठ करे और प्रथम 'पूर्णमसीति यत' इत्यादि नमस्कार युक्त साङ्ग मन्त्र का स्वयं पाठ करे। तदनन्तर भूतपूर्व सभी देवताओं को बलि प्रदान कर तृप्त करे। फिर प्रवेश कर आचमन करे। तदनन्तर कुम्भ पर स्थित, तदनन्तर मण्डल पर स्थित, तदनन्तर कुण्ड में स्थित, देवाधिदेव से क्षमा माँगे। तदनन्तर कटकादि भूषणों से पूर्व गुरु को और तदनन्तर अन्यों को भूषित करे। गुरु को अथवा गुरु पुत्र को यज्ञ का सभी द्रव्य प्रदान करे। तदनन्तर सभी साधनों से संयुक्त एकायन पर्यन्त बिम्ब दासी और कार्यकर्ताओं से तथा शुद्ध देवलक से युक्त कलश स्थापन करे ॥ २५४-२५९ ॥ कुम्भस्थापनविधानम् शैलोत्थं पूर्ववत् कुम्भं कृत्वा धातुमयं तु वा ॥ २६० ॥ तद् द्विगोलकमानेन मन्त्रबिम्बेन वै सह । शुभेऽन्यस्मिन् दिने यागमण्टपे ह्युक्तलक्षणे ॥ २६१ ॥ अधिवास्य यथान्यायं सर्वोपकरणान्वितम् । स्नानाद्यमखिलं ताभ्यामापाद्य च यथाविधि ॥ २६२ ॥ तस्मिन् हृदादिसंयुक्ते बिम्बं कुम्भे निवेश्य च । वस्त्रैराभरणैः पुष्पैः स्वच्छं कृत्वार्घ्यपुष्पहुत् ॥ २६३ ॥
शनैः प्रासादपर्यन्तामारोहेद् मूर्तिपैः सह। तत्र प्रागासनादींस्तु कृत्वा संक्षालनान्तिमान्॥ २६४ ॥ आचरेद् बीजविन्यासं सर्वं वाऽऽवाहनोदितम्। निवेश्यानीय तं मध्ये बिम्बं कुम्भसमन्वितम्॥ २६५ ॥ अथ प्रासादोपरि कुम्भस्थापनविधानं प्रासादप्रतिष्ठाविधानं चाह—शैलोत्थं पूर्ववत् कुम्भमित्यारभ्य निवेश्य ध्वजदण्डाग्रे गन्धाद्यैरर्चयेत्तत इत्यन्तम्। तत्राद्यमनुसन्धानमेकं कृत्वा परान्वितम्॥ सामान्यलक्षणं पश्चात् पूर्वोक्तं वै कलात्मकम्। (२५।२६६-२६७) इत्यत्राद्यमनुसन्धानम्, मूलमन्त्रं पुरा ध्यात्वा संशान्तब्रह्मलक्षणम्॥ आधारादिध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत्। (२५।२२४-२२५) इति पूर्वोक्तं बोध्यम् । कलात्मकं ज्ञानेश्वर्यादिषट्कलात्मकमित्यर्थः । इदमपि पूर्वोक्तम्—"स्थूलं षोढा शिलान्तगम्" (२५।२२६) इति । अत्र प्रसङ्गात् "अमलं शान्तसंज्ञं वै" (२५।२७५) इत्यारभ्य "उदिताख्यं हि चक्रराट्" (२५।२८१) इत्यन्तममल-(शान्त)-शान्तोदित-उदितभेदैश्चक्रस्य चातुर्विध्यं तत्तल्लक्षणं च प्रति- पादितम् । अत्रेश्वरपारमेश्वरयोः— चक्रसंस्थापने कश्चिद् विशेषः श्रूयतां द्विजाः ॥ अमूर्तं द्वादशारं तु अष्टारं षडरं तु वा। चक्रं संस्थापयेत् तत्र प्रासादशिखरोपरि ॥ मूर्तमङ्गणदेशे तु षोडशाष्टभुजं तु वा। तस्य स्थापनकाले तु तस्य संज्ञामनुं जपेत् ॥ विद्यां गदामित्याद्यं यत् पाठयेत् तद्विदो जनान् । —(ई०सं० १८।५०३-५०६, पा०सं० १५।१७५-१७९) इत्यादिभिस्तन्मन्त्रपाठनाभिषेकादयः कतिचिद्विशेषाः प्रतिपादिता ग्राह्याः । एवं भगवत्प्रतिष्ठादिष्वपि तत्रैतदानुपूर्व्या एव कथनेऽपि मध्ये मध्ये बहवो विशेषाः प्रति- पादिता द्रष्टव्याः ॥ २६०-२८७ ॥ अब प्रासाद के ऊपर कुम्भ स्थापन का विधान कहते हैं—पूर्व में शिला पर रखा हुआ कलश अथवा धातु निर्मित कुम्भ द्विगोलक मान में, इन सभी वस्तुओं को, मन्त्र बिम्ब के साथ शुभ मुहूर्त युक्त पाँचवे दिन उक्त लक्षण युक्त यागमण्डप में प्रवेश करे । सर्वोपकरणान्वित उक्त सभी वस्तुओं का विधान सहित अधिवासन करे । उन दोनों का कलश और बिम्ब यथाविधि स्नान करावे । उस हृदादि से संयुक्त कुम्भ में बिम्ब को सन्निविष्ट करे । स्वच्छ अर्घ्य पुष्प देकर वस्त्र आभरण एवं पुष्प से विभूषित करे । फिर मूर्तियों के साथ प्रासाद के ऊपरी भाग पर आरोहण करे । वहाँ उनको आसन देवे, प्रक्षालन करे, बीज विन्यास करे
पञ्चविंशः परिच्छेदः ६५५ और आवाहनादि समस्त कार्य करे । फिर प्रासाद मध्य में कुम्भ सहित बिम्ब सन्निविष्ट करे ॥ २५९-२६५ ॥ हृदाद्यन्तनिरुद्धेन मूलमन्त्रेण लाङ्गलिन्। तत्राद्यमनुसन्धानमेकं कृत्वा परान्वितम्॥ २६६ ॥ सामान्यलक्षणं पश्चात् पूर्वोक्तं वै कलात्मकम्। सम्पूज्य वाससाच्छाद्य सुधया व्यक्तां नयेत्॥ २६७ ॥ हे सङ्कर्षण! हृदादि तथा हृदान्त मन्त्र से सम्पुटित मूल मन्त्र से परान्वित अनुसंधान एवं आद्य अनुसन्धान को एक कर पूर्वोक्त ज्ञानादि लक्षण कलात्मक को भी सामान्य लक्षण बनावे । उनकी पूजा करे, वस्त्र से आच्छादित करे और सुधालेप से उसे अभिव्यक्त करे ॥ २६६-२६७ ॥ ततः पिण्डे तदूर्ध्वे तु साङ्गं कुर्याद्यथोदितम्। प्रासादं स्थापयेत् पश्चात् पूर्वोद्दिष्टेन वर्त्मना॥ २६८ ॥ समालभ्यार्चयित्वा च स्त्रगाद्यैर्मण्डयेत् ततः। पूर्ववत् पाठयेद् विप्रान् तत्प्रतिष्ठापने तु वै॥ २६९ ॥ इसके बाद पिण्ड में फिर उस के ऊपर पूर्वोक्त की भाँति साङ्ग पूजा करे, उनका आलम्भन (स्पर्श) करे, अर्चन करे, मालादि से भूषित करे, तदनन्तर उनकी प्रतिष्ठा में ब्राह्मणों से पाठ करावे ॥ २६८-२६९ ॥ संरोध्य वर्ममन्त्रं तु तत्र ध्यानधिया स्वयम्। पूर्णान्तमखिलं कृत्वा विधिनानेन वै पुनः॥ २७० ॥ आरोहेति तु वै साम पाठयेत् सामगांस्तु वै। उसमें ध्यान करते हुये कवच मन्त्र अवरुद्ध करे । फिर पूर्णाहुति करे तथा इसी विधि से सामगों से 'आरोह' इस साम मन्त्र का पाठ करावे ॥ २७०-२७१ ॥ चक्रमामलसारस्य मध्यतः सन्निवेशयेत्॥ २७१ ॥ यथाभिमतरूपं तु दिग्वक्त्रं वाऽम्बराननम्। स्वशक्तिवर्णदण्डस्थं चण्डमार्ताण्डभास्वरम्॥ २७२ ॥ चक्रमन्त्रं न्यसेत् तस्मिन् वर्णाध्वानं पुरोदितम्। गत्यागतिप्रयोगेण प्राक् प्रमेयजलक्षणम्॥ २७३ ॥ अब प्रसङ्गात् अमल शान्त शान्तोदित एवं उदित चार प्रकार के चक्रों का लक्षण विवरण कहते हैं—आराधक इसके बाद अमलसार का चक्र मध्य में सन्नि- विष्ट करे । वह चक्र अपनी इच्छानुसार वस्त्ररहित हो अथवा वस्त्रसहित हो । वह
६५६ सात्वतसंहिता अपनी शक्ति रूप वर्ण दण्ड में स्थित रहने वाला है । अत्यन्त चण्ड भास्कर के समान तेजस्वी है । उस चक्र में 'वर्णाध्वा' युक्त चक्र मन्त्र स्थापित करे । वही वर्णाध्वा गति आगति के प्रयोग से चक्र का प्रमेय जन्य लक्षण है ॥२७१-२७३॥ तान्यथावत् पुरा ज्ञात्वा द्रव्यमूर्तित्वमागतम् । कुर्यात् ततोर्ध्वसन्धानं नान्यथा तु महामते ॥ २७४ ॥ उन मन्त्रों को यथावत् द्रव्यमूर्ति रूप में जब जान लेवे, तभी प्रासाद शिखर के ऊपर चक्र का स्थापन करे, अन्यथा नहीं ॥ २७४ ॥ अमलं शान्तसंज्ञं वै तथा शान्तोदितोदितम् । एकमेव हि तन्मूर्तिं यश्चक्रं वेत्ति तत्त्वतः ॥ २७५ ॥ सोऽस्मिन् संसारचक्रे तु सर्वाश्रमनिवासिनाम् । सर्वधर्मरतानां च चक्रवर्तित्वमाप्नुयात् ॥ २७६ ॥ अमल, शान्त एवं शान्तोदित तथा उदित भेद से चक्र के चार भेद हैं । उन सभी को जो एक मूर्ति स्वरूप में देखता है, वही ठीक प्रकार से चक्र को जानता है । वह इस संसार चक्र में धर्मरत सर्वाश्रम निवासियों के मध्य में चक्रवर्तित्व प्राप्त करता है ॥ २७५-२७६ ॥ यच्छब्दब्रह्ममूर्त्यैव सिद्धमाक्षं निराश्रयम् । अन्तर्बहिस्थं सर्वेषां मोक्षदं चामलं स्मृतम् ॥ २७७ ॥ दोनों प्रकार के अनुसंधानों को एक कर सामान्य लक्षण बनावे—(१) जो शब्द-ब्रह्म मूर्ति होने से सिद्ध है, आक्ष (आश्रययुक्त) है, निराश्रय (आश्रयरहित) है, सबके भीतर और बाहर विद्यमान है, मोक्ष देने वाला है, वह 'अमल चक्र' कहा जाता है ॥ २७७ ॥ क्षीरोदार्णवतुल्यं यत् सहस्रादित्यसन्निभम् । निरङ्गं तीक्ष्णधारं वै तच्छान्ताख्यं हि योगदम् ॥ २७८ ॥ (२) जो क्षीर समुद्र के समान है और सहस्रों आदित्य के समान देदीप्यमान है, अङ्ग रहित तथा तीक्ष्ण धारा वाला है और योग देने वाला है उस चक्र का नाम 'शान्त' है ॥ २७८ ॥ यत्तु नानाङ्गभावेन स्वातन्त्र्यात् स्वयमेव हि । सर्वदिक्प्रसृतां कृत्वा स्वात्मवृत्तिं हि वर्तते ॥ २७९ ॥ ईषद्वलयवन्नाभेरराणामन्तरेखवत् । शान्तोदितं च तद्विद्धि चक्रमिच्छाप्रदं च यत् ॥ २८० ॥
पञ्चविंशः परिच्छेदः ६५७ (३) जो अपनी वृत्तियों को स्वयं अपनी स्वतन्त्रता से अनेक प्रकार के अङ्ग भाव से सारे दिशाओं में फैला कर वर्तमान रहता है । जो ईषद् वलय वाले नाभि के भीतर रेखा के समान अराओं से संयुक्त है उस चक्र को 'शान्तोदित' समझना चाहिये । वह इच्छा (कामना) प्रदान करने वाला है ॥ २७९-२८० ॥ यच्छान्तमूर्त्तौ सम्बुद्धः सर्वं कृत्वाऽवतिष्ठते । प्रवृत्तं नाभिपूर्वं तु उदिताख्यं हि चक्रराट् ॥ २८१ ॥ (४) जो शान्तमूर्त्ति में जागरूक होकर सब कुछ करके स्थित रहता है, नाभि से पूर्व प्रवृत्त रहता है, वह 'उदित' नामक चक्रराट् कहा जाता है ॥ २८१ ॥ तस्मिन्नाराधितो मन्त्रस्तद्वै सम्पूजितं स्मृतम् । जप्तं सन्तर्पितं भक्त्या सर्वेषां सर्वमृच्छति ॥ २८२ ॥ उसी में मन्त्रों की आराधना की जाती है, वही पूजित कहा जाता है और उसी का भक्तिपूर्वक किया गया जप सभी को सब प्रकार की कामना प्रदान करता है ॥ २८२ ॥ एवं चाभिमतं चक्रं सर्वविघ्नक्षयङ्करम् । प्रतिष्ठाप्य समभ्यर्च्य तस्यैव समनन्तरम् ॥ २८३ ॥ त्र्यंशेन शिखरादुच्चं खगराट्परिभूषितम् । संस्कृत्य ध्वजदण्डं च शिखामन्त्रेण विन्यसेत् ॥ २८४ ॥ इस प्रकार का अभिमत चक्र समस्त विघ्नों का क्षय करता है । इस प्रकार के चक्र की प्रतिष्ठापना कर वैष्णव अर्चना करे । पुनः उसी के साथ शिखर के उच्च भाग में तीसरे अंश में खगराट् (गरुड़) को सुशोभित करे । तदनन्तर ध्वजदण्ड का संस्कार करे और शिखा मन्त्र से न्यास करे ॥ २८३-२८४ ॥ ततो विविधवर्णं च किङ्किणीगणभूषितम् । ध्वजाग्राच्छिखरार्धं च यावद् दीर्घमकृत्रिमम् ॥ २८५ ॥ दैर्घ्याद् द्वादशमांशेन द्विनवांशेन वा ततम् । कृत्वाऽस्रसन्निधिं तस्मिन् लाञ्छनाख्ये पुरा पटे ॥ २८६ ॥ निवेश्य ध्वजदण्डाग्रे गन्धाद्यैरर्चयेत् ततः । इसके बाद विविध वर्ण की किंकिणियों से युक्त ध्वजा के अग्रभाग से शिरारार्ध पर्यन्त चौड़ा, अकृत्रिम चौड़ाई का बारह गुना, अथवा अट्ठारह गुना लम्बा, उस लाञ्छन पट को ध्वजदण्ड के अग्रभाग में सन्निविष्ट कर गन्धादि से अर्चित करे ॥ २८५-२८७ ॥
६५८ सात्वतसंहिता स्वयंकृतानां बिम्बानां मयेदं सम्प्रकाशितम् ॥ २८७ ॥ प्रतिष्ठापनमब्जाक्ष स्वतन्त्रेष्वयनेषु च। साङ्कर्येण विना त्वेवं कृतं भवति सिद्धिदम् ॥ २८८ ॥ अन्यथाऽसिद्धिदं विद्धि नृणां व्यामिश्रयाजिनाम्। स्वयं कल्पितबिम्बानामेवं प्रतिष्ठादिकमुक्तम्। स्वयं व्यक्तादिष्वप्येवमेव मन्त्र- तन्त्रबिम्बाद्यसाङ्कर्येणार्चनादिकं सिद्धिदम्, अन्यथा दोषावहमित्याह—स्वयंकृतानामिति द्वाभ्याम् ॥ २८७-२८९ ॥ यह क्रिया अपने द्वारा संस्थापित बिम्ब में प्रकाशित की गई है। स्वयं व्यक्त बिम्ब में इसी प्रकार मन्त्र, तन्त्र एवं बिम्बादि का साङ्कर्य रहित अर्चनादि सिद्धिप्रद होता है अन्यथा साङ्कर्य से किया गया अर्चनादि दोषावह होता है ॥ २८७-२८९॥ एकस्मिन्नासने स्थाने चतुस्त्रिद्व्यादिमूर्तिना ॥ २८९ ॥ व्यक्तीभूतं यथा लोके लोकानुग्रहकाम्यया। स्वयं नानास्वरूपेण स्वर्गादौ स्थापनं तथा ॥ २९० ॥ न कार्यं मनुजैर्वर्णधर्मज्ञैर्नैकभावनैः। तथा वै समबुद्धिस्थैः कृपया सम्प्रवर्तकैः ॥ २९१ ॥ क्रियाभेदरतैः शुद्धैर्नानाविबुधयाजकैः। प्रणवैकप्रलापस्थैः शान्तचित्तैरमत्सरैः ॥ २९२ ॥ मन्त्रमुद्राक्रमध्यानसम्भूतिलयलक्षकैः । तथा तत्संकरोत्पन्नदोषाणां ध्वंसनक्षमैः ॥ २९३ ॥ प्रस्थापितस्तु वै सम्यग् ज्ञानमूर्तिर्जगद्गुरुः। लोके एकस्मिन् स्थाने एकस्मिन्नेवासने चतुस्त्रिद्व्यादिरूपेण यथा भगवान् स्वयं व्यक्तीभूतस्तथा सामान्यैर्मनुजैः स्था(प)नं (न)कार्यम्, अपि तु सम- बुद्धिस्थत्वादिविशिष्टैर्विशेषाधिकारिभिस्तथा स्थापनं कार्यमित्याह—एकस्मिन्निति पञ्चभिः ॥ २८९-२९४ ॥ लोक में जिस प्रकार एक ही आसन पर चार, तीन तथा दो रूपों से भगवान् व्यक्त होते हैं। सामान्य मनुष्य वैसा एक ही आसन पर न करे। अपितु समदर्शी विशिष्ट-विशिष्ट अधिकारी क्रिया-भेदरत, शुद्ध, अनेक देवता का यज्ञ कराने वाले, केवल प्रणव का जप करने वाले, शान्त चित्त, मत्सरता रहित, मन्त्र मुद्रा क्रम स्थान सम्भूति एवं लय के लक्षणों को जानने वाले एवं साङ्कर्य से उत्पन्न दोषों के ध्वसन में सक्षम ऐसे महात्मा ही इस प्रकार के ज्ञानमूर्त्ति जगद्गुरु की स्थापना करे ॥ २९०-२९४ ॥ भिन्नमन्त्रक्रियारूपं न कुर्यात् तदपेक्षया ॥ २९४ ॥
पञ्चविंशः परिच्छेदः ६५९ साधारमालयं पीठं भवाख्यं विभवात्मनाम् । देवानां मर्त्यधर्मस्थैः प्रतिष्ठायज्ञकर्मणि ॥ २९५ ॥ संसारदेवतानां च स्थापितानां तु वै पुरा । कृत्वा तु भगवद्विम्बमालये वा तदासने ॥ २९६ ॥ निवेशयति यो मोहाद् बिम्बेन सह तस्य वै । जायते च भयं घोरमिहामुष्मिकदोषदम् ॥ २९७ ॥ नाप्नोत्याराधकानां तु सकाशादर्चनं परम् । यथा बिम्बं तथा कर्ता नाप्नुयादुत्तमं फलम् ॥ २९८ ॥ विभवादेवानां प्रतिष्ठायज्ञे आधारालयपीठाद्यूक्तक्रमं विना केवलमर्त्यधर्मस्थैः सह स्वेच्छया विभिन्नमन्त्रतन्त्रलक्षणानि न कुर्यादिति, पूर्वं प्रतिष्ठितानां देवानामालये तदासने वा तेन बिम्बेन सह पुनस्तत्समभगवद्विम्बान्तरस्थापनं दोषावहमिति चाह— भिन्नमन्त्रक्रियारूपमित्यारभ्य नाप्नुयादुत्तमं फलमित्यन्तम् ॥ २९४-२९८ ॥ उनकी देखा-देखी अन्य लोग भिन्न मन्त्र एवं क्रिया रूप से प्रतिष्ठापना न करें । विभव देवताओं के प्रतिष्ठा यज्ञ में आधार, आलय एवं पीठ में उक्त क्रम को छोड़कर केवल मनुष्यों के साथ स्वेच्छापूर्वक विभिन्न मन्त्र-तन्त्रों वाला लक्षण न करें । पूर्व प्रतिष्ठित देवताओं के आलय में उनके आसन पर उस बिम्ब के साथ पुनः उनके समान अन्य भगवद्विम्ब का स्थापन दोषावह होता है । जो मोहवश पूर्व में स्थापित देवालय में उनके आसन पर अन्य बिम्बों का मोहवश स्थापन करता है उसे इस लोक में तथा परलोक में दोष उत्पन्न करने वाला महामोह होता है । ऐसा प्रतिष्ठित बिम्ब आराधकों के द्वारा किया गया अर्चन नहीं प्राप्त करता और जिस प्रकार बिम्ब निष्फल होता है उसी प्रकार कर्त्ता को भी कोई फल नहीं होता ॥ २९५-२९८ ॥ अर्चायामधिके पीठे ह्यपेक्षालक्षणोज्झिते । सकृद् विभवदेवानां स्थापनं न विरोधकृत् ॥ २९९ ॥ नान्यकाले न चान्यस्य नान्यमूर्तिनिवेशनम् । विहितं भगवत्पीठे निविष्टव्यत्ययं विना ॥ ३०० ॥ एकस्मिन् पीठे विभवदेवानां सकृत् स्थापनमविरुद्धम्, पुनरन्यकाले स्थापनम् अन्यस्य स्थापनम्, अन्यमूर्तिस्थापनं च न विहितमित्याह—अर्चायामिति द्वाभ्याम् । व्यत्ययं विनेत्यनेन पूर्वं स्थापनकाले स्थानाद्यव्यत्यये पुनर्यथाक्रमस्थापनं विहितमित्युक्तं भवति ॥ २९९-३०० ॥ यदि अर्चा में अपेक्षित लक्षण से पीठ का मान अधिक हो, तो उस एक पीठ पर उसी काल में एक विभव देव के साथ अन्य विभव देव का स्थापन
विरुद्ध नहीं होता । किन्तु स्थापन से अतिरिक्त काल में पूर्व स्थापित देवता से अन्य देवता के स्थापन का विधान विरुद्ध है । अतः भगवत्पीठ पर व्यत्यय के बिना पूर्व स्थापन काल में यथाक्रम स्थापन का ही विधान है ॥ २९९-३०० ॥ यथा भवोपकरणदेवानां मण्डलेऽर्चनम् । विहितं न तथा पीठे ह्येकस्मिन् सन्निवेशनम् ॥ ३०१ ॥ पूर्वोक्तचतुर्विंशतिभवोपकरणदेवतानां तु सर्वासामप्येकस्मिन्नेव मण्डले पूर्वं यथा सन्निवेशनमुक्तम्, तथैवास्मिन्नेव पीठे सन्निवेशनं न विहितमित्याह—यथेति ॥ ३०१ ॥ जिस प्रकार एक मण्डल में अनेक विभव देवों के अर्चन का विधान है उसी प्रकार एक पीठ पर अनेक विभव देवों का सन्निवेश भी विहित नहीं है ॥ ३०१ ॥ भिन्नक्रमोऽपि यः कुर्यात् पृथग् वा पिण्डिकोपरि । वामदक्षिणयोरेवं देवानाम्प्रदक्षिणम् ॥ ३०२ ॥ सदक्षिणस्य वै तेन प्रतिष्ठाख्यमखस्य च । निहिता चोन्नता कीर्तिस्तेनाथ स्वयमेव हि ॥ ३०३ ॥ सर्वप्रकारैरपि बिम्बानां पृथङ् निवेशनमेव कार्यमित्याह— भिन्नेत्यादिभिः ॥ ३०२-३०८ ॥ जो भिन्न क्रम से एक ही पिण्डिका (पीठों) पर (बायें को दाहिने और दायें को बायें) बिम्बों को स्थापित करता है, अथवा अलग-अलग पिण्डिका पर इस प्रकार स्थापित करता है, वह स्वयं ही प्रदक्षिण क्रम से स्थापित प्रतिष्ठामख की उन्नति तथा कीर्ति का विस्तार करता है ॥ ३०२-३०३ ॥ प्राक्स्थितस्याधिकं मानाद्दक्षिणेनोर्जहानिकृत् । जो पहले से प्रतिष्ठित है किन्तु मान से अधिक है उसकी प्रदक्षिणा करने से ऊर्जा की हानि होती है ॥ ३०४ ॥ शस्तमद्यतनस्यैव प्राक्स्थितं यत् ततोऽधिकम् ॥ ३०४ ॥ नेच्छत्यन्योन्यसाम्यं तु स्थानवृत्तिं धनैः सह । उन्नतासनसंस्थोऽपि मानहीनस्तु सर्वदा ॥ ३०५ ॥ उसकी अपेक्षा मान युक्त आज का स्थापित बिम्ब प्रशस्त है, अधिक भी है। जिस प्रकार एक ओर ऊँचे स्थान पर रहने वाला दूसरी ओर सर्वदा से मानहीन धन के कारण एक दूसरे से साम्य तथा स्थान परिवर्तन परस्पर मानहीन हो और ऊँचा हो यह सम्भव नहीं ॥ ३०४-३०५ ॥ मानहीनस्तु कर्तॄणां कुर्यात् सुतसुखक्षयम् ।
पञ्चविंशः परिच्छेदः ६६१ बिम्बस्य बिम्बकर्तुर्वै देहिनां स्थापकस्य च ॥ ३०६ ॥ वामकृत्स्थापनं वामे सममूनं तु वाधिकम् । एवं ज्ञात्वा यथाशक्ति पृथक् कुर्यान्निवेशनम् ॥ ३०७ ॥ सिद्धये चापवर्गार्थमर्चना देवालये । मानहीन बिम्ब के स्थापित करने से बिम्ब कर्त्ता देही साधक तथा संस्थापक के सुत और सुख का क्षय होता है, इसी प्रकार बाईं ओर स्थापित की जाने वाली मूर्त्ति बाईं ओर स्थापित करने पर भी यदि मान में कम, अथवा अधिक हो, तो वह भी बिम्ब कर्त्ता स्थापक एवं देही साधक के सुत का एवं सुख का क्षय करती है । अतः बिम्ब को पृथक्-पृथक् सन्निवेश करे ॥ ३०६-३०७ ॥ प्रतोली साङ्गना चैव जगती देवमन्दिरम् ॥ ३०८ ॥ सपीठं भगवद्विम्बं भक्तानां यत्र युज्यते । सम्यक् प्रदक्षिणीकर्तुं बलिधूपपुरःसरम् ॥ ३०९ ॥ श्वेतद्वीपसमं विद्धि देवतायतनं तु तत् । सन्निवेशस्त्वयं मुख्यस्त्वमुख्यस्त्वपरो हि यः ॥ ३१० ॥ मुख्यात् पूर्णफलप्राप्तिर्मुख्याभासात् तथाविधा । प्रतोत्यादिभिः सहितं भगवन्मन्दिरं सपीठं भगवद्विम्बं च यत्र प्रदक्षिणीकर्तुं योग्यं भवति, तत्स्थानस्य श्वेतद्वीपसदृशमुख्यत्वम्, तत्प्रदक्षिणानवकाशस्थानस्या- मुख्यत्वं चाह—प्रतोलीति त्रिभिः ॥ ३०८-३११ ॥ जहाँ भक्तों की सिद्धि के लिये और उनकी मोक्ष प्राप्ति के लिये देवालय में अर्चना, प्रतोली, आँगन, जगती तथा देवमन्दिर है, पीठ सहित भगवद् बिम्ब है, बलिदान, धूपदानादि, पुरःसर प्रदक्षिणा के लिये सम्यक् स्थान है, वह देवतायतन श्वेतद्वीप के समान है । इस प्रकार सन्निवेश (प्रतिष्ठा स्थान) मुख्य है । इसके अतिरिक्त जहाँ प्रदक्षिणा के लिये अनवकाश हो वह स्थान अमुख्य (गौण) है । मुख्य से फल प्राप्ति होती है और मुख्याभास फलाभास होता है ॥ ३०८-३११ ॥ सम्यक्स्थास्त्वादिदेवीया मूर्तयो याः पुरोदिताः ॥ ३११ ॥ स्थूलं विना न चैवार्च्या नित्यं विप्रैस्तु बिम्बगाः । गृहे पीठगता बिम्बे पुनस्ताः पत्रगा बहिः ॥ ३१२ ॥ सदैव तैः समाराध्या भूतयेऽपि हि मुक्तये । ब्राह्मणैः पूर्वोक्तपरवासुदेवीयमूर्तीनां स्वगृहे मण्डलं विना बिम्बेष्वर्चनं कार्य- मिति, मण्डले तदर्चनस्थानविभागादिकं चाह—सम्यक्स्था इति द्वाभ्याम् । एवं च ब्राह्मणैरालये तद्बिम्बार्चनं कार्यमित्युक्तं भवति ॥ ३११-३१३ ॥
६६२ सात्वतसंहिता सवाहनाऽवाहना वा बहिर्वा स्वगृहान्तरे ॥ ३१३ ॥ नार्चनीया नृपाद्यैस्ता बिम्बे वे मण्डलादृते । क्षत्रियाद्यैस्तूभयत्रापि मण्डल एवार्चनं कार्यम्, न बिम्ब इत्याह— सवाहनेति ॥ ३११-३१४ ॥ सुपर्णसंस्थिताः सर्वे बिम्बा वै ब्राह्मणैर्नृपैः ॥ ३१४ ॥ स्वगृहादौ च सर्वत्र पूजनीयाः सदैव हि । ब्राह्मणैः क्षत्रियैश्च सुपर्णारूढा मूर्तयः स्वगृहेऽन्यत्र वा बिम्बेष्वेवार्चनीया इत्याह—सुपर्णेति ॥ ३१४-३१५ ॥ पूर्व में आदिदेव सम्बन्धिनी पर-वासुदेवादि की मूर्त्तियाँ यदि स्थूल न हों, तब वे अर्चन के योग्य नहीं होती । किन्तु ब्राह्मण पूर्वोक्त वासुदेवादि मूर्त्तियों की पूजा अपने घर पर मण्डल के बिना बिम्ब पर भी नित्य कर सकते हैं । घर के बाहर पत्र (वाहन) पर स्थित का भी कर सकते है । इस प्रकार उन्हें भूति के लिये अथवा मुक्ति के लिये सवाहना एवं अवाहना मूर्त्ति की बाहर और घर पर सर्वत्र पूजा करनी चाहिये । क्षत्रियादि को बाहर या घर पर उभयत्र मण्डल में ही अर्चना करनी चाहिये, बिम्ब पर नहीं । सुपर्ण पर स्थित बिम्बों की ब्राह्मण एवं क्षत्रियों दोनों को अपने घर पर अथवा सर्वत्र पूजा करनी चाहिये । इसी प्रकार वैश्यान्त सभी को सर्वत्र सभी की पूजा करनी चाहिये ॥ ३११-३१५ ॥ एवमन्यास्तु वैश्यान्तैः सत्तमैरखिलास्तु याः ॥ ३१५ ॥ सह शक्तीशभेदैस्तु न शक्तीशस्त्ववाहनः । बिम्बगो ब्राह्मणाद्यैश्च नित्यमर्च्यः पृथग्विना ॥ ३१६ ॥ एवं गरुडताक्ष्या॑रिरूढमूर्तयो विभवमूर्तिभेदैः सह ब्रह्मक्षत्रियवैश्यैर्बिम्बेष्वेव सर्व- त्रार्चनीयाः । किन्तु वाहनारूढं विना केवलशक्तीशबिम्बं गृहे ब्राह्मणादिभिर्नार्च्यमिति चाह—एवमिति सार्धेन ॥ ३१५-३१६ ॥ गरुड़ ताक्ष्यादि पर अधिरूढ़ मूर्त्तियाँ विभवादि मूर्त्ति भेद से बिम्ब में ही ब्राह्मण, क्षत्रिय, वैश्यों को अर्चना करनी चाहिये । किन्तु वाहन पर आरूढ़ के बिना केवल शक्तीश बिम्ब की गृह पर ब्राह्मणादि अर्चन न करे ॥ ३१६ ॥ स्वाश्रमे बन्धुवर्गस्य मध्यस्थो ह्यनिशं तु वै । अविनासौम्यरूपेण अव्युत्पन्नजनस्य च ॥ ३१७ ॥ दृग्गते भगवद्वक्त्रे कार्ये त्रैलोक्यभीतिदे । यच्छन्ति शुभमात्रार्थाश्चित्रस्थाश्चाशुभं गृहे ॥ ३१८ ॥ बहिष्कृता विशेषेण हर्म्यप्रासादभूमिषु ।
पञ्चविंशः परिच्छेदः ६६३ आढ्यैर्भोगपदस्थैस्तु साम्प्रतं सिद्धिलालसैः॥ ३१९ ॥ निष्प्रभत्वान्न मृच्छैली कार्या दारुमयी गृहे । ऋते सांन्यासिकैः शान्तैः शश्वन्मोक्षपरायणैः ॥ ३२० ॥ तदुत्थाश्च बहिः सर्वैः कार्यास्तासु सदैव हि । जनयन्ति महादीप्तिं चन्द्रसूर्यादयोऽनिशम् ॥ ३२१ ॥ गृहे सौम्यरूपं विनोग्ररूपबिम्बस्यानर्च्यत्वम्, तथैव चित्रलोहमयबिम्बं विना शैलमृद्दारुममयबिम्बस्यापि गृहस्थैरनर्च्यत्वम्, तस्य हेतुं चाह—स्वाश्रम इत्यारभ्य चन्द्र- सूर्यादयोऽनिशमित्यन्तम् ॥ ३१७-३२१ ॥ सौम्य रूप से बिना उग्र रूप वाला बिम्ब अर्चा के योग्य नहीं होता । इसी प्रकार चित्रमय एवं लौहमय बिम्ब के बिना शैल, मिट्टी और दारु का बनाया हुआ बिम्ब गृहस्थों द्वारा अर्चा के योग्य नहीं होता । समृद्धि एवं भोगपद पर स्थित सिद्धि की लालसा करने वालों गृहस्थों को सुवर्णमय प्रासाद भूमि में तथा गृह में निष्प्रभ होने के कारण शान्त प्रकृति वाले और निरन्तर मोक्ष की इच्छा रखने वाले सन्यासियों के अतिरिक्त मिट्टी की या शिला की तथा दारु की मूर्त्ति का निर्माण नहीं करना चाहिये । इसके अतिरिक्त अन्य पदार्थों द्वारा निर्मित मूर्त्ति चन्द्र, सूर्य के समान निरन्तर महादीप्ति प्रदान करती है ॥ ३१८-३२१ ॥ आ चैकमूर्तेः सर्वासां मूर्तीनां तु महामते । तथा मूर्त्यन्तराणां च प्रादुर्भावगणस्य च ॥ ३२२ ॥ प्रादुर्भावान्तराणां तु स्थितानां यत्र कुत्रचित् । सर्वेषां सर्वदा तेषां हित आराधनाय च ॥ ३२३ ॥ प्रणवः पीठपूजार्थं नमस्कारपदान्वितः । प्रसिद्धं चातुरात्मीयसंज्ञामन्त्रचतुष्टयम् ॥ ३२४ ॥ अर्चने सजितन्तं तु विना मन्त्रेण योऽन्यथा । करोति पूजनं मूढश्चलबिम्बगणस्य च ॥ ३२५ ॥ गृहे वाऽज्ञातमन्त्रस्य दोषस्तस्य प्रजायते । अथ यत्र कुत्र वा पुण्यक्षेत्रादिषु स्वयंव्यक्तादिरूपेण स्थितानां परव्यूहविभव- बिम्बानां सामान्यतः प्रणवेन वासुदेवादिमन्त्रचतुष्टयेन वा जितन्ताख्यमन्त्रेण वाऽ - र्च्यत्वं मन्त्रं विनाऽर्चने प्रत्यवायं चाह—आ चेति सार्द्धैश्चतुर्भिः । एकमूर्तेः परवासु- देवस्य, सर्वासां मूर्तीनां व्यूहवासुदेवादिमूर्तीनाम्, मूर्त्यन्तराणां केशवादीनाम्, प्रादुर्भावगणस्य पद्मनाभादिविभवावतारगणस्य, प्रादुर्भावान्तराणां विभवान्तराणा- मित्यर्थः । तद्विवरणं तु नवमपरिच्छेदे विचारितं द्रष्टव्यम् ॥ ३२२-३२६ ॥ एक मूर्त्ति (पर वासुदेव), सभी मूर्त्ति (व्यूह वासुदेवादि मूर्त्ति), मूर्त्यन्तर
६६४ | सात्वतसंहिता (केशवादि मूर्त्ति), प्रादुर्भावगण (पद्मनाभादि मूर्त्ति, प्रादुर्भावान्तर विभवान्तर मूर्त्ति) अथवा जहाँ कहीं स्वयं व्यक्त मूर्त्तियों की पूजा, हित के लिये तथा आराधना के लिये, सामान्यतः प्रणव से युक्त वासुदेवादि संज्ञा मन्त्र चतुष्टय से अथवा जितन्ताख्य मन्त्र से ही करनी चाहिये ॥ ३२२-३२६ ॥ विना सामान्यमन्त्रैर्यश्चलबिम्बगतस्य च॥ ३२६ ॥ कुर्याद् विशेषमन्त्रेण विशेषाख्यस्य चार्चनम्। तदुत्थमचिरेणैव शबलं तस्य दोषकृत्॥ ३२७ ॥ ज्ञातैवं सावधानेन क्रियासक्तेन सर्वदा। भवितव्यं विशेषाद् वै गृहाश्रमपरेण तु॥ ३२८ ॥ गृहे चलबिम्बानां प्रणवाष्टाक्षरादिम(न्त्रा:?न्त्रैः) नानातत्तन्मूर्त्तिविशेषमन्त्रै- रर्चननिषेधमाह—विनेति सार्द्धद्वाभ्याम् । सामान्यमन्त्रैर्व्यापकमन्त्रैरित्यर्थः प्रणवाष्टाक्षर-द्वादशाक्षर-षडक्षर-जितन्ताख्यमन्त्रैरिति यावत्, एषां सर्वमूर्त्ति- साधारण्यात् ॥ ३२६-३२८ ॥ चल बिम्ब की प्रणव से और अष्टाक्षर से एवं नाना तत्तन्मूर्त्ति मन्त्र विशेष से अर्चना न करे, सामान्य मन्त्र से ही इनकी पूजा करे । विशेष मूर्त्तियों की विशेष मन्त्र से पूजा करे । जो इसके विपरीत पूजन करता है उसे प्रत्यवाय (हानि) होता है । ऐसा समझ कर क्रियासक्त गृहस्थाश्रमी को विशेष रूप से पूजा में सावधानी करनी चाहिये ॥ ३२६-३२८ ॥ जीर्णोद्धारविधानम् क्ष्माभङ्गाद्येषु दोषेषु ध्वजान्तेष्वेवमेव हि। उपोद्धारे प्रयोक्तव्यं प्रणवाद्यं च पञ्चकम्॥ ३२९ ॥ होमार्चनविधानेषु सृष्टिसंहारकर्मणि। ध्वजाद्यमुद्धरेत् सर्वमवनीचलने सति ॥ ३३० ॥ आधारोपलपर्यन्तं सन्निवेश्य तथा पुनः। अथ क्ष्माभङ्गादिदोषसंभवे प्रासादपीठबिम्बादीनां जीर्णोद्धारविधानमाह—क्ष्मा- भङ्गाद्येषु दोषेष्वित्यारभ्य देवस्य चतुरात्मन इत्यन्तम् । प्रणवाद्यं पञ्चकं प्रणवाष्टा- क्षरादिव्यापकमन्त्रपञ्चकमित्यर्थः । अथवा पूर्वोक्तं वासुदेवादिंसंज्ञामन्त्रजितन्ताख्य- पञ्चकमित्यर्थः । अत्र जालवदित्यनेन यथा वनमध्ये मृगग्रहणार्थं जालप्रसारेण कृते सर्वे मृगास्तत्र प्रविशन्ति, तद्वत् स्वहृदयाद् बिम्बादिषु मन्त्रप्रसारणे कृते तत्रत्या मन्त्राः सर्वेऽपि तत्र प्रविशन्तीति भावो बोद्ध्यते । अगाधेऽम्भसि निक्षिपेदिति मानुष- बिम्बविषयम्, स्वयंव्यक्तादिबिम्बानां सर्वथा संधेयत्वोक्त्या ह्यपरित्याज्यत्वात् । अत्र बहवो विचारा ईश्वरपारमेश्वरादिषूपबृंहिता द्रष्टव्याः ॥ ३२९-३४६ ॥
पञ्चविंशः परिच्छेदः ६६५ अब भूचलादि के कारण प्रासाद पीठ और बिम्ब का जीर्णोद्धार कहते हैं— क्षमाभङ्ग (भूदोल) आदि दोष में तथा ध्वजादि के फटने पर उसके उद्धार में प्रणवादि पञ्चक मन्त्र का प्रयोग करे। भूचाल आने पर होमार्चन विधान से सृष्टि के संहार कर्म में ध्वजादि का उद्धार करे ॥ ३२९-३३१ ॥ चक्रप्रासादभङ्गेषु सोर्ध्वं बिम्बं महामते ॥ ३३१ ॥ पीठभङ्गे तु वै बिम्बं बिम्बभङ्गे तदैव हि। यद्यदिच्छति चोद्धर्तुं तत्तदादौ तु संयजेत् ॥ ३३२ ॥ हे महामते! चक्र प्रासाद के भङ्ग हो जाने पर आधार से लेकर उपल पर्यन्त पुनः बिम्ब का सन्निवेश करे। पीठ भङ्ग में और बिम्ब तथा बिम्बभङ्ग में भी वही कार्य करे। जिसका-जिसका उद्धार करना चाहता हो, आदि में उसी-उसी का संयजन करे ॥ ३३१-३३२ ॥ मध्वाज्यगुग्गुलुक्षीरदधिलाजादिभिः क्रमात् । सन्तर्प्य तिलहोमैस्तु सहस्रशतसंख्यया ॥ ३३३ ॥ मधु, आज्य, गुग्गुलु, क्षीर, दधि, लावा तथा तिल आदि का ग्यारह सौ की संख्या में हवन कर सन्तर्पण करे ॥ ३३३ ॥ मन्त्रौघं हृदयात् तस्मिन् समुच्चार्य विनिक्षिपेत् । जालवद् भासुराकारं तत्र चिच्छक्तयोऽखिलाः ॥ ३३४ ॥ विशन्ति पूर्वसंरुद्धा मन्त्रौघं पुनराहरेत्। पाठयेदृङ्मयान् सर्वानुत्तिष्ठेत्यथ तद्विदः ॥ ३३५ ॥ जिस प्रकार वन के मध्य में मृग-ग्रहण के लिये जाल फैला देने पर सभी मृग उसमें प्रविष्ट हो जाते हैं, उसी प्रकार अपने हृदय से बिम्बादि पर्यन्त मन्त्र फैला देने पर वहाँ रहने वाले सभी मन्त्र उसमें आकर प्रवेश कर जाते हैं। इसके बाद साधक को ऋग्वेदियों से 'उत्तिष्ठ' इत्यादि सभी ऋग्वेद की ऋचाओं का पाठ कराना चाहिए ॥ ३३४-३३५ ॥ कर्म्मारम्भे तदन्ते वै परमां प्रकृतिं त्विति । चतुर्भिरनिरुद्धाद्यैः संज्ञामन्त्रैः पृथक् पृथक् ॥ ३३६ ॥ कृत्वा होमं च तदनु तत्संज्ञार्णैर्विलोमतः । प्रणवाद्यन्तगैः सर्वैः प्राग्वदष्टासु दिक्षु च ॥ ३३७ ॥ कर्म के आरम्भ में अथवा उसके अन्त में 'परमां प्रकृतिं' आदि का पाठ करावे। फिर अनिरुद्धादि चार संज्ञा मन्त्रों से पृथक्-पृथक् होम कराकर पुनः उन संज्ञा मन्त्रों का विलोम कर उससे पाठ करावे। फिर पूर्व की भाँति प्रासाद के सा० सं० - 46
६६६ सात्वतसंहिता आठों दिशाओं में प्रणवादि एवं प्रणवान्त सभी मन्त्रों से होम करे। उसी प्रकार गायत्री मन्त्र से होम करे ॥ ३३६-३३७ ॥ प्रासादस्य तु होतव्यं गायत्रीभिस्तथैव च। वासुदेवाद्यभिज्ञाभिर्होमान्ते त्वथ तैः सह ॥ ३३८ ॥ न्यासं वाहनमन्त्रेण साङ्गं कृत्वात्मना पुरा। वाहनानां तथा चैव ब्रह्मैव संस्पृशेदथ ॥ ३३९ ॥ सञ्चाल्य हृदयेनैवं जपन्नस्त्रमथोद्धरेत्। विमाने वा रथे कृत्वा ह्यगाधेऽम्भसि निक्षिपेत् ॥ ३४० ॥ फिर होम के अन्त में वासुदेवादि मन्त्रों के साथ वाहन मन्त्र से साङ्गन्यास करे। फिर 'वाहनानां तथा चैव' इस मन्त्र से ब्रह्म का संस्पर्श करे। फिर हृदय (नमः) मन्त्र से बिम्ब संचालन करे और अस्त्र मन्त्र पढ़ते हुये उसे उठाकर विमान अथवा रथ पर स्थापित कर अगाध जल में उसे छोड़ देवे। विमर्श—यह प्रक्षेप मानुष बिम्ब विषयक है, स्वयं व्यक्तादि बिम्ब का सर्वथा संधान ही उचित है। उसका परित्याग उचित नहीं है ॥ ३३८-३३९ ॥ जपेत् संज्ञामनुं पश्चात् प्रायश्चित्तार्थमेव हि। सहस्त्रमेकमर्धं तद्धोतव्यं सर्वशान्तये ॥ ३४१ ॥ पूर्ववत् तोषयेत् सर्वान् काञ्चनाद्यैः स्वशक्तितः। तर्पयेदन्नपानाद्यैः सर्वानार्चायपूर्वकन् ॥ ३४२ ॥ फिर प्रक्षेप के पश्चात् संज्ञा मन्त्र का जप करे। तदनन्तर सर्वशान्ति के लिये एक सहस्र पाँच सौ (१५००) मन्त्रों से होम करे। अपनी शक्ति के अनुसार काञ्चनादि तथा अन्नपानादि से सभी आचार्यादि को सन्तुष्ट करे ॥ ३४१-३४२ ॥ वाच्यं तैर्द्वादशार्णेन ह्यच्छिद्रं हृष्टमानसैः। भूयः संस्थापनं कुर्याद्विहृतस्य कृतस्य च ॥ ३४३ ॥ फिर वे लोग प्रसन्न होकर द्वादशाक्षर मन्त्र पढ़ते हुये 'अच्छिद्रमस्तु' ऐसा कहें। फिर नवीन निर्मित बिम्ब का, उस स्थान पर सामान्य लक्षण मन्त्रों से अथवा चतुर्मूर्ति मन्त्रों से पुनः संस्थापन करे ॥ ३४३ ॥ सामान्यलक्षणैर्मन्त्रैश्चतुर्मूर्तिमयैः सदा। गुरुः सप्रणवेनैव यः सम्यग् भगवन्मयः ॥ ३४४ ॥ यतः सप्रणवादन्यश्चतुरात्म्यं च विद्यते। मन्त्रो वा देवतारूपस्तत्त्वतो ब्रह्मवेदिनाम् ॥ ३४५ ॥ प्रपञ्चः प्रणवो मन्त्रो देवस्य चतुरात्मनः।
यतः गुरु प्रणव के साथ सम्यग् भगवन्मय है । इतना ही नहीं सप्रणव भगवन्मय के अतिरिक्त कोई चातुरात्म्य नहीं है और ब्रह्मवेत्ताओं के लिये मन्त्र ही तत्त्वतः देवता का स्वरूप है और यह प्रणव मन्त्र ही चतुरात्मा देवता का प्रपञ्च है ॥ ३४४-३४६ ॥ एवं ज्ञात्वा पुरा कर्म स्थापनोत्थापनान्तिकम् ॥ ३४६ ॥ विधिवद् यागपूर्वं तु बिम्बसञ्चालनं विना । यो दिव्यायतनादीनां भक्त्या भूयः करोति च ॥ ३४७ ॥ ध्वजं वा मन्दिरं शुभ्रं पीठं भासं च पिण्डिकाम् । सलोहशैलकाष्ठोत्थैः पद्माद्यैरूर्ध्वतोऽङ्किताम् ॥ ३४८ ॥ एकानेकद लैश्चैव बद्धैरायसपूर्वकैः । सुबद्धां सूर्यसोमाग्निप्रभाढ्यां सुमनोरमाम् ॥ ३४९ ॥ स लोके शाश्वतीं कीर्तिं स्थापयित्वा कुलैः सह । स्थानं सायुज्यतापूर्वमन्ते नूनमवाप्नुयात् ॥ ३५० ॥ एवं शास्त्रज्ञानपूर्वकं प्रतिष्ठाजीर्णोद्धारादिकर्तुः फलमाह—एवमिति सार्धै- श्र्चतुर्भिः ॥ ३४६-३५० ॥ ऐसा समझ कर जो जीर्णोद्धारकर्त्ता भक्तिपूर्वक, शास्त्रज्ञानपूर्वक, यागपूर्वक, दिव्यायतनादि का स्थापन से लेकर उत्थापनान्त कर्म बिम्ब संचालन के बिना पुनः संपन्न करता है वह दिव्यायतन का उद्धार करता है । ध्वज, मन्दिर, शुभ पीठ, भास तथा पिण्डिका को सल्लोह से, शिला से या काष्ठ से और कमलादि का चिह्न बनाता है उस पीठिका को लौहादि द्वारा सुबद्ध करता है । सूर्य, सोम और अग्नि की तरह उसे प्रदीप्त कर मनोरम बनाता है । ऐसा जीर्णोद्धारकर्त्ता आराधक इस लोक में शाश्वती कीर्ति स्थापित कर अपने कुल के साथ निश्चय ही अन्त में सायुज्यता का स्थान प्राप्त करता है ॥ ३४४-३५० ॥ नानारत्नप्रभाढ्यानि लाञ्छनान्यङ्गदानि च । निर्मितानि सुवर्णाद्यैर्विभोः संयोजयन्ति ये ॥ ३५१ ॥ ते धौतकल्मषाः सर्वे देहमासाद्य पावनम् । सम्यग् ज्ञानेन युज्यन्ते भवं नायान्ति येन च ॥ ३५२ ॥ भगवते नानामणिभयभूषणरत्नकवचादिसमर्पणकर्तुः फलमाह— नानेत्यादिभिः ॥ ३५१-३५५ ॥ जो आराधक विभु विष्णु को सुवर्णादि निर्मित नाना रत्नजड़ित देदीप्यमान आभूषणों से सुसज्जित करते हैं, उनके समस्त कालुष्य धुल जाते हैं । तदनन्तर वे पवित्र देह प्राप्त कर सम्यग् ज्ञान प्राप्त कर लेते हैं । उनका इस संसार में पुनः आना सम्भव नहीं होता ॥ ३५१-३५२ ॥