सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 711, कुल 837 में से
संदर्भ में पढ़ें६५२ सात्वतसंहिता अपनीताम्बरैः कुम्भैर्धान्यपीठोपरि स्थितैः ॥ २४९ ॥ हृन्मन्त्रपूजितैर्भूयः सलिलेन सुपूरितैः । सह मूर्तिधरैः प्राग्वदन्तरान्तरयोगतः ॥ २५० ॥ कार्यं वै स्नानकर्माऽथ विधिदृष्टेन कर्मणा । निरोदकेऽथ प्रासादे पुनराराध्य पूर्ववत् ॥ २५१ ॥ भोगैरासनपूर्वैस्तु सम्प्रदानान्तमच्युतम् । मुद्रां बद्ध्वा जपेन्मन्त्रं स्तुत्वा क्षान्त्वा बहिर्व्रजेत् ॥ २५२ ॥ अथ चतुर्थेऽहनि कर्तव्याराधनस्पनालङ्कारहविर्निवेदनाद्यग्निसन्तर्पणपूर्णाहुति- बलिदानमहाकुम्भादिविसर्जनान्याचार्यादीनां भूषणप्रदानानि चाह—तत्रासनादिकै- र्यष्ट्वेत्यादिभिः । अत्र चतुर्थेऽहनीति कण्ठरवेणानुक्तावप्यर्थपर्यालोचनया तज्ज्ञायते, अन्यथा बल्यन्तमाराधनमुक्त्वा, पुनस्तदानीमेवार्चनस्पनाद्युक्त्यसंभवात् । नन्वत्र— आचम्य च बलिं दत्त्वा यायाद् देवगृहं ततः ॥ तत्रासनादिकैर्यष्ट्वा स्नानान्तः पूर्ववत् प्रभुम् । (२५।२४८-२४९) इत्यव्यवधानेन प्रतिपादितस्य चतुर्थेऽहनि कर्तव्यपरत्वं वक्तुं कथं शक्यते, अतो माध्याह्निकाचार्चनादिपरत्वं वक्तव्यमिति चेत्, किमावयोर्र्विवादेन । तस्य चतुर्थेऽहनि कर्तव्यपरत्वं तदुपबृंहणयोरीश्वरपारमेश्वरयोरेव निर्णीतं पश्यतु भवान् । अपनीताम्बरैः कुम्भैः पूर्वं स्नानमण्डपे दक्षिणभागे स्थापितैश्चत्वारिंशत्कलशैरित्यर्थः । भूयः सलिलेन सुपूरितैः पूर्वं पूरिते जले किञ्चित् शोषिते सति पुनः समग्रं पूरितैरित्यर्थः । प्राग्वत् प्रतिष्ठादिवसकृतस्थूलसूक्ष्माख्यस्नपनवदित्यर्थः । स्वकीयाभिरभिज्ञाभिर्वासुदेवादि- मन्त्रैरित्यर्थः ॥ २४९-२६० ॥ वहाँ आसन से प्रारम्भ कर स्नानान्त प्रभु की पूजा करे । फिर धान्य पीठ पर संस्थापित, आच्छादित वस्त्रों से रहित, नमः मन्त्र से पूजित जल के शोषण हो जाने के कारण पुनः जल से परिपूर्ण कलशों से मूर्तिधरों के साथ बीच-बीच में विधि के अनुसार स्नान कर्म करावे । इस प्रकार जलरहित उस प्रासाद में पुनः आसन से आरम्भ कर भोग पर्यन्त, तदनन्तर दक्षिण पर्यन्त भगवान् की पूजा करे । तत्पश्चात् साधक मुद्रा बाँध कर जप करे, स्तुति करे, क्षमा माँगे, फिर बाहर निकले ॥ २४९-२५२ ॥ शतं सहस्रं साष्टं वा जुहुयान्मन्त्रराट् स्वयम् । साङ्गं सपरिवारं च संहितोच्चारयुक्तितः ॥ २५३ ॥ मूर्तिपैः प्रणवाद्याभिर्गायत्रीभिः शतं शतम् । फिर संहिता (वेद) घोष की तरह उच्चारण करते हुये साङ्ग सपरिवार मूल मन्त्र से एक सौ आठ अथवा एक हजार आठ आहुति देवे । प्रणवादि मूर्तिप मन्त्रों