सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 709, कुल 837 में से
संदर्भ में पढ़ें६५० सात्वतसंहिता तमेवास्त्रार्चितं कृत्वा यायाद् देवनिकेतनम् ॥ २३७ ॥ कलशैः पृष्ठभागस्थैः स्नापनीयस्ततो विभुः । सह मूर्त्तिधरैः सर्वैर्यथा चानुक्रमेण तु ॥ २३८ ॥ अथैवं प्रतिष्ठितस्य गरुडस्यार्चनं कृत्वा गर्भगृहान्तः प्रविश्य पूर्वं स्नपनमण्टपे पृष्ठभागे स्थापितैश्चत्वारिंशत्कलशैर्देवमभिषेचयेदित्याह—तमिति सार्धेन । तदनन्तर ब्राह्मणों से 'सुपर्णोऽसि' इस मन्त्रराट् का पाठ करावे । फिर उनकी अर्चना कर स्वयं देवगृह में जावे । वहाँ जाकर उन विभु के पृष्ठ भाग में संस्थापित कलशों से सभी मूर्त्तिधरों के साथ अनुक्रम के अनुसार इस प्रकार देवाधिदेव का अभिषेक करे ॥ २३७-२३८ ॥ सहाघमर्षणेनैव गायत्र्यावर्तितेन तु । प्रागङ्गमयस्तु तदनु चतुर्थावर्तितैः स्वयम् ॥ २३९ ॥ हृदाद्यावर्तितैः षड्भिर्यजुर्ज्ञस्तेन सेचयेत् । भूयः स्वयं तथा कुम्भैः सामवित् स्नापयेत् ततः॥२४०॥ षड्भिरन्यैः स्वयं पश्चात् तेनैवाथर्ववित्ततः । पवित्रावर्तितैरेवं कलशैरन्तरान्तरा ॥ २४१ ॥ सह चैकायनीयैस्तु स्नापनीयमनन्तरम् । चतुर्मूर्तिमयैर्मन्त्रैर्बहुशः परिभावितैः ॥ २४२ ॥ स्नापयेत् कलशेनाथ शेषमादाय वै घटम् । तच्छतावर्तितं कृत्वा समूलेनाद्य मूर्त्तिना ॥ २४३ ॥ सार्धं वै देवदेवस्य मूर्ध्नि चोत्कीर्य पाठयेत् । अभिषेकप्रकारमाह—सहाघमर्षणेनेत्यारभ्य जितन्त इति वै सर्वैरित्यन्तम् । यजुर्ज्ञस्तेन सेचयेदित्यत्र तेनाघमर्षणसूक्तगायत्रीभ्यामभिमन्त्रितेनैकेन कलशेनेत्यर्थः । भूयः स्वयं तथा कुम्भैरित्यत्रापि कुम्भैः पूर्ववद् हृदाद्यभिमन्त्रितैः षड्भिः कलशैरित्यर्थः । एवमुत्तरत्रापि ज्ञेयम् । पवित्रावर्तितैः कलशैश्चतुर्भिरित्यर्थः, "ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक् चतुष्टयम्" (२४।२९०) इति पूर्वोक्तत्वात् । अन्तरान्तरा वासुदेवादिमूर्तिमन्त्रकलशाभिषेकस्य मध्ये मध्ये इत्यर्थः । स्नापयेत् कलशेनाथेत्यत्रापि पवित्रमन्त्र एव बोध्यः । समूलेन मूलमन्त्रसहितेन आद्यमूर्त्तिना परमन्त्रेणेत्यर्थः । तस्यादिमूर्त्तिविषयकत्वात् तथैव व्यवहृतः ॥ २३९-२४३ ॥ यजुर्वेदज्ञ अघमर्षण सूक्त तथा गायत्री से अभिमन्त्रित छह कलश से, फिर स्वयं हृदयाभिमन्त्रित छह कलशों से स्नान करावे, फिर सामवेदी छह कलशों से स्नान करावे फिर स्वयं छह कलशों से स्नान करावे फिर अथर्ववेदी पवित्रावर्तित चार, छह कलशों से स्नान करावे । इसी प्रकार मध्य मध्य में वासुदेवादिमूर्त्ति मन्त्र