सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 723, कुल 837 में से
संदर्भ में पढ़ें६६४ | सात्वतसंहिता (केशवादि मूर्त्ति), प्रादुर्भावगण (पद्मनाभादि मूर्त्ति, प्रादुर्भावान्तर विभवान्तर मूर्त्ति) अथवा जहाँ कहीं स्वयं व्यक्त मूर्त्तियों की पूजा, हित के लिये तथा आराधना के लिये, सामान्यतः प्रणव से युक्त वासुदेवादि संज्ञा मन्त्र चतुष्टय से अथवा जितन्ताख्य मन्त्र से ही करनी चाहिये ॥ ३२२-३२६ ॥ विना सामान्यमन्त्रैर्यश्चलबिम्बगतस्य च॥ ३२६ ॥ कुर्याद् विशेषमन्त्रेण विशेषाख्यस्य चार्चनम्। तदुत्थमचिरेणैव शबलं तस्य दोषकृत्॥ ३२७ ॥ ज्ञातैवं सावधानेन क्रियासक्तेन सर्वदा। भवितव्यं विशेषाद् वै गृहाश्रमपरेण तु॥ ३२८ ॥ गृहे चलबिम्बानां प्रणवाष्टाक्षरादिम(न्त्रा:?न्त्रैः) नानातत्तन्मूर्त्तिविशेषमन्त्रै- रर्चननिषेधमाह—विनेति सार्द्धद्वाभ्याम् । सामान्यमन्त्रैर्व्यापकमन्त्रैरित्यर्थः प्रणवाष्टाक्षर-द्वादशाक्षर-षडक्षर-जितन्ताख्यमन्त्रैरिति यावत्, एषां सर्वमूर्त्ति- साधारण्यात् ॥ ३२६-३२८ ॥ चल बिम्ब की प्रणव से और अष्टाक्षर से एवं नाना तत्तन्मूर्त्ति मन्त्र विशेष से अर्चना न करे, सामान्य मन्त्र से ही इनकी पूजा करे । विशेष मूर्त्तियों की विशेष मन्त्र से पूजा करे । जो इसके विपरीत पूजन करता है उसे प्रत्यवाय (हानि) होता है । ऐसा समझ कर क्रियासक्त गृहस्थाश्रमी को विशेष रूप से पूजा में सावधानी करनी चाहिये ॥ ३२६-३२८ ॥ जीर्णोद्धारविधानम् क्ष्माभङ्गाद्येषु दोषेषु ध्वजान्तेष्वेवमेव हि। उपोद्धारे प्रयोक्तव्यं प्रणवाद्यं च पञ्चकम्॥ ३२९ ॥ होमार्चनविधानेषु सृष्टिसंहारकर्मणि। ध्वजाद्यमुद्धरेत् सर्वमवनीचलने सति ॥ ३३० ॥ आधारोपलपर्यन्तं सन्निवेश्य तथा पुनः। अथ क्ष्माभङ्गादिदोषसंभवे प्रासादपीठबिम्बादीनां जीर्णोद्धारविधानमाह—क्ष्मा- भङ्गाद्येषु दोषेष्वित्यारभ्य देवस्य चतुरात्मन इत्यन्तम् । प्रणवाद्यं पञ्चकं प्रणवाष्टा- क्षरादिव्यापकमन्त्रपञ्चकमित्यर्थः । अथवा पूर्वोक्तं वासुदेवादिंसंज्ञामन्त्रजितन्ताख्य- पञ्चकमित्यर्थः । अत्र जालवदित्यनेन यथा वनमध्ये मृगग्रहणार्थं जालप्रसारेण कृते सर्वे मृगास्तत्र प्रविशन्ति, तद्वत् स्वहृदयाद् बिम्बादिषु मन्त्रप्रसारणे कृते तत्रत्या मन्त्राः सर्वेऽपि तत्र प्रविशन्तीति भावो बोद्ध्यते । अगाधेऽम्भसि निक्षिपेदिति मानुष- बिम्बविषयम्, स्वयंव्यक्तादिबिम्बानां सर्वथा संधेयत्वोक्त्या ह्यपरित्याज्यत्वात् । अत्र बहवो विचारा ईश्वरपारमेश्वरादिषूपबृंहिता द्रष्टव्याः ॥ ३२९-३४६ ॥