सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 87, कुल 837 में से
संदर्भ में पढ़ें२८ सात्वतसंहिता चतुश्चक्रे नवद्वारे देहे देवगृहे पुरा ॥ ५८ ॥ न्यस्यैवमभिमानं तु मन्त्राख्यमवलम्ब्य च । एवमाधारनाभिहृत्कण्ठचतुश्चक्रविशिष्टे नवद्वारान्विते स्वशरीरे भगवन्मन्दिरत्व- बुद्ध्या पूर्वं मन्त्रान् विन्यस्य ‘नादेवो देवमर्चयेत्’ इति न्यायेन स्वस्मिन् देवत्वाभिमाना- वलम्बनं च कुर्यादित्याह—चतुश्चक्र इति । मन्त्राख्यमभिमानं स्वस्मिन् मन्त्रनाथत्वा- हङ्कारमित्यर्थः। वक्ष्यति च—‘देवोऽहमिति भावयेत्’ (१७।३६) इति । जयाख्येऽपि व्यक्तमुक्तम्— अहं स भगवान् विष्णुरहं नारायणोहरिः । वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः ॥ एवंरूपमहङ्कारमासाद्य सुदृढं मुने । (१९।४१-४२) इति ॥ ५९ ॥ इस प्रकार आधार, नाभि, हृदय और कण्ठ रूप चार चक्रों वाले नवद्वारों वाले अपने शरीर को ही मन्दिर समझकर पूर्व मन्त्रों के द्वारा न्यास कर ‘नादेवो देवमर्चयेत्’ इस न्यास से अपने शरीर में देवत्वावलम्बन करे ॥ ५८-५९ ॥ मनस्युपरतं कुर्यादिक्षग्रामं बहिःस्थितम् ॥ ५९ ॥ चित्तं बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे । ज्ञानभावनया कर्म कुर्याद् वै पारमार्थिकम् ॥ ६० ॥ अथ मानसिकयागमुपदिशन् निरन्तरायभगवज्ज्ञानभावनासिद्ध्यर्थं बाह्येन्द्रिया- दीनामन्तर्नियमनमाह—मनसीति सार्धेन । एवं ज्ञानभावनया क्रियमाणस्य कर्मणः शुद्धसत्त्वमयत्वं बाह्यस्य त्रिगुणमयत्वात् शुद्ध्यपेक्षत्वं चोक्तं लक्ष्मीतन्त्रे— मानसीर्निर्वपेत् सर्वाः क्रिया ज्ञानसमाधिना ॥ ज्ञानेन क्रियते यद्यत् कर्म ब्रह्मसमाधिना । शुद्धसत्त्वमयं तत्तदक्षयं भवति ध्रुवम् ॥ बाह्या द्रव्याश्रिता यस्माद् दोषाराजसतामसाः । ततस्तच्छोधनमपि कर्मणा मनसा गिरा ॥ तस्मादेकान्तनिर्दोषं भावनावासितं तथा । तस्माज्ज्ञानं समास्थाय शुद्धं संवित्समुद्भवम् ॥ ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम् । (३४।१३७-१४१) इति ॥ ५९-६० ॥ अब मानसिक याग का उपदेश करते हुये ‘निरन्तराय भगवद् भावना सिद्ध्यर्थं बाह्येन्द्रियादि’ के नियमन का प्रकार कहते हैं—समस्त बाह्येन्द्रियों को मन में उपरत करे और चित्त को बुद्धि में तथा उस बुद्धि को ज्ञान में स्थापित करे । फिर ज्ञान भावना से तथा ब्रह्मसमाधि से भगवान् के मन्त्रमय स्वरूप का स्वशरीर में ध्यान करे ॥ ५९-६० ॥