सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 91, कुल 837 में से
संदर्भ में पढ़ें३२ सात्वतसंहिता स्वमूर्तिभिरच्युता(द्या)भिरन्वित इत्यत्राच्युताद्या मूर्तयस्तिस्र इति ज्ञेयम् । तदुक्तं पारमेश्वरे प्रतिष्ठाध्याये— तथा च सर्वजगतामेकबीजात्मकस्य च ॥ सदोदितस्वरूपस्य वासुदेवस्य वै विभोः । त्रयाणामच्युतादीनां तद्भेदानां तथैव च ॥ (१५।२२-२३) इति एवं च सङ्कर्षणप्रद्युम्नानिरुद्धानामेवाच्युतसत्यपुरुषापरनामधेयत्वं बोध्यम् । ननु— पुरुषं च ततः सत्यमच्युतं च युधिष्ठिर ॥ अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः । अन्ये त्वेवं विजानन्ति मां राजन् पाञ्चरात्रिकाः । वासुदेवं च राजेन्द्र सङ्कर्षणमथापि च । प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते ॥ —(महाभा० आश्व० ९२ अ० । पृ० ६३४२) इति वासुदेवादीनां पुरुषादिशब्दवाच्यत्वं दृश्यते, भवता व्युत्क्रमेणानिरुद्धादीनां पुरुषादिशब्दवाच्यत्वं कथं व्याख्यातमिति चेत्, सत्यम् । अत्र वैखानसानां तथा व्यवहार इत्युक्त्या नास्मद्व्याख्याविरोधः । अपि त्वनिरुद्धादीनां पुरुषादिशब्दवाच्यत्वमत्रैव वक्ष्यति पञ्चमे परिच्छेदे मन्त्रोद्धारप्रकरणे 'अप्यावावसरे' (५।६८) इत्यादिभिः । एवमत्र परात्परदशायामच्युतादिसमन्वितत्वेऽपि वासुदेवस्यैव प्राधान्यं बोध्यम्, तत्रैकमूर्ति- प्राधान्यात् । ननु तर्हि शान्तोदितापरनामधेयतुर्यव्यूहचतुर्मूर्तिप्राधान्यं किमिति चेन्न, 'अभेदे- नादिमूर्तेर्वै संस्थितं वटबीजवत्' (५।८१) इति वक्ष्यमाणानुसारेण परसंज्ञस्य तद्- व्यूहस्य परात्परवासुदेवाद्यभिन्नत्वात् । अत एव सुषुप्त्यादिव्यूहवत् प्रत्येकं तद्व्यूह- वाचकमन्त्राणामनुक्तत्वात् परात्परमन्त्रेणैव तस्यापि चारितार्थ्याच्च परात्परत्वद- शायामिव परत्वेऽपि वासुदेवस्यैकस्यैव प्राधान्यं ज्ञेयम् । तर्हि एवमभिन्नत्वे पुनः केन तयोर्भेद इति चेत्, नित्योदितत्वेन चेति बोध्यम् । नित्योदितत्वं नाम स्वविभूत्यनुभव- दशाविशिष्टत्वम् । शान्तोदितत्वं नाम स्वात्ममात्रानुभवदशाविशिष्टत्वम् । ननु चैवं शान्तोदितव्यूहेऽप्येकमूर्तिप्राधान्ये व्यूहशब्दस्य स्वारस्यं न संभवतीति चेदुच्यते—किं व्यूहशब्दमात्रेण चतुर्णां प्राधान्यमङ्गीकार्यम्? तथा सति परात्परत्वदशा- यामपि व्यूहशब्दो जागर्त्येव । तथाहि ईश्वरे (८।५२) पारमेश्वरे (८।५१) च गरुडा- र्चनप्रकरणे—'नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च' इति, सिद्धान्तलक्षण- निरूपणप्रकरणेऽपि—'यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम्' (ई० सं० २०।१९८; पार० सं० १९।५३३) इति । पारमेश्वरे प्रतिष्ठाध्याये— परात्परस्वरूपस्य परस्य चतुरात्मनः । शान्तोदितादिव्यूहानां केशवाद्यखिलस्य च ॥ (१५।२१) इति, तथा च सर्वजगतामेकबीजात्मकस्य च ॥