सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 99, कुल 837 में से
संदर्भ में पढ़ें४० सात्वतसंहिता ततस्तु नवमं नेमेः केवलं विद्धि पञ्चमम् । अष्टमादपरं वर्णं द्वितीयस्वरसंयुतम् ॥ २० ॥ षष्ठमेतद्विजानीयात् सप्तमं दशमात् परम् । अथ द्वितीयदशमादादायोर्ध्वे तु विन्यसेत् ॥ २१ ॥ अष्टमात्तु द्वितीयस्य मन्त्राणामिदमष्टकम् । द्वितीयात् प्रथमं वर्णमष्टमादपरं ततः ॥ २२ ॥ नाभ्येकादशमोपेतं द्वितीयं नेमिमण्डलात् । पूर्वमेकादशाच्छुद्धं तादृङ्नेमेस्तृतीयकम् ॥ २३ ॥ नेमिपूर्वं च तदनु नाभेरैकादशाङ्कितम् । नेमेः षष्ठमथादाय स्थितं तत्पञ्चमोपरि ॥ २४ ॥ ततो नाभिद्वितीयेन युक्तं नेमेस्तृतीयकम् । द्वितीयं केवलं नेमेरादाय च महामते ॥ २५ ॥ कर्त्रे नमः पदं पश्चाद् योजयेच्चतुरक्षरम् । एकविंशतिभिर्वर्णैरयं मन्त्र उदाहृतः ॥ २६ ॥ अब साधकों के ऊपर अनुग्रह करने के लिए मन्त्र चतुष्टय का उद्धार कहते हैं । 'आदायाक्षगतम्' (३.१८) से लेकर 'अयं मन्त्रः उदाहृतः' (३.२६) पर्यन्त २१ वर्णों का मन्त्र है; जिसका स्वरूप इस प्रकार है—'ॐ अप्रतिहतानन्तगतये परमेश्वराय कर्त्रे नमः' ॥ १८-२६ ॥ अभिन्नः पदभेदेन भवेदेकाधिकस्तु वै । प्राग्वर्णेन पदं पूर्वं पञ्चार्णं द्वितीयं भवेत् ॥ २७ ॥ षडक्षरं तृतीयं तु चतुर्थं तद्वदेव हि । द्व्यक्षरं पञ्चमं विद्धि तद्वत् षष्ठं महामते ॥ २८ ॥ इस मन्त्र में एक अक्षर प्रथम पद (ॐ), पाँच अक्षर का द्वितीय पद (अप्रतिहता), छः अक्षर का तृतीय पद (अनन्तगतये), फिर छः अक्षर का चतुर्थ पद (परमेश्वराय), दो अक्षर का पञ्चम पद (कर्त्रे) तथा उतने ही अक्षर का छठवाँ पद (नमः) कहा गया है ॥ २७-२८ ॥ अथापरं महामन्त्रं द्वितीयमवधारय । यज्ज्ञात्वा न पुनर्जन्म भवत्याराधकस्य च ॥ २९ ॥ आदायाक्षरमध्यस्थं नाभिपूर्वमतः परम् । पूर्वं नेमेस्तु तस्यैव योज्यं नाभित्रयोदशम् ॥ ३० ॥ द्वितीयादपरं वर्णं सर्वशक्त्यात्मने पदम् ।