शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 180, कुल 699 में से
संदर्भ में पढ़ें१६२ शतपथ ब्राह्मण र्हि॒ तर्हि॑ भृत्यै॒यात्र॑ सम्वा॒ᳪस॒मिति॑ सम्भू॒तेव॒ ह्यत्र॑ भवति॒ तस्मा॑दाह सम्वा॒ᳪस- मिति॑ ॥ ६॥ अथानुया॒जान्य॑जति । या वाऽए॒तेन॑ य॒ज्ञेन॑ दे॒वता॑ ह्व॒यति॒ याभ्य॑ ए॒ष य॒ज्ञस्ताय॑ते॒ सर्वा॑ वै तत्ता॒ इष्टा॑ भवन्ति॒ तद्यत्तासु॒ सर्वा॑स्वि॒ष्टास्वथै॑तत्प॒श्वेवानु॒यज॑- ति॒ तस्मा॑दनुया॒जा नाम॑ ॥७॥ अथ॒ यद॑नुया॒जान्यज॑ति । छन्दा॒ᳪसि॒ वाऽअनुया॒जाः पश॒वो वै दे॒वानां॒ छन्दा॒ᳪसि॒ तद्यथे॒दं पश॑वो यु॒क्ता म॑नु॒ष्ये॑भ्यो वह॑न्त्ये॒वं छन्दा॒ᳪसि यु॒क्तानि॑ दे॒वेभ्यो॑ य॒ज्ञं वह॑न्ति॒ तद्यत्र॒ छन्दा॒ᳪसि दे॒वाᳪस॑मतर्पयन्नथ॒ छन्दा॒ᳪसि दे॒वाः सम॑तर्पयंस्तदतस्तन्नागभूद्यच्छन्दा॒ᳪसि यु॒क्तानि॑ दे॒वेभ्यो॑ य॒ज्ञम॒वानुर्य॒देनाᳪस॑मती- तृपन् ॥ ८॥ अथ॒ यद॑नुया॒जान्यज॑ति । छन्दा॒ᳪसि॒ वाऽअनुया॒जाश्छन्दो॑भ्यै॒वैतत्संत॑र्प- यति॒ तस्मा॑दनुया॒जान्यज॑ति॒ तस्मा॒द्येन॒ वाह॑नेन धावेयु॒स्तद्विमुच्य॑ ब्रूया॒त्पाय॑यतेन॒- त्सुहितं॑ कुरु॒तेत्ये॒ष उ वाहनस्याप्या॒यः ॥ ९॥ स वै खलु ब॒र्हिः प्र॑थमं॒ यज॑ति । तद्वै॒ कनि॑ष्ठं॒ छन्दः॑ स॒द्गाय॑त्री प्रथमा॒ छन्द॑सां यु॒ज्यते॒ तद्यत्तद्वी॒र्येणे॑व य॒ज्ञेनो॒ भूत्वा॒ दि॒वः सोम॒माह॑रत्तद्यथाय॒थं म॑न्यन्ते॒ यत्कनि॑ष्ठं॒ छन्दः॑ स॒द्गाय॑त्री प्रथमा॒ छन्द॑सां यु॒- ज्यते॒ऽथात्र॑ यथाय॒थं दे॒वाश्छन्दा॒ᳪस्यकल्प॑यन्ननुया॒जेषु॒ नेत्पापवस्यसमसदिति॑ ॥ १०॥ स वै खलु ब॒र्हिः प्र॑थमं॒ यज॑ति । अ॒यं वै लो॒को ब॒र्हिरोष॑धयो ब॒र्हिर॒स्मिन्ने॒वैत- ल्लोक॒ऽओष॑धीर्दधाति॒ ता इ॒मा अ॒स्मिंल्लोक॒ऽओष॑धयः प्रति॑ष्ठिता॒स्तदि॒दᳪ सर्वं॑ ज॒- गद॒स्यां तेने॒यं जग॑ती॒ तज्जग॑तीं प्रथ॒मामक॑ुर्वन् ॥ ११॥ अथ॒ नरा॒शᳪसं॑ द्वि॒तीयं॑ य- ज॑ति । अ॒न्तरि॑क्षं॒ वै न॑रा॒शᳪसः॑ प्र॒जा वै न॑र॒स्ता इ॒मा अ॒न्तरि॑क्षम॒नु वावद्य॑मानाः प्र॒जाश्चर॑न्ति॒ यदि॒ वद॑ति॒ शᳪसती॑ति वै तदा॒हुस्तस्मा॑द॒न्तरि॑क्षं नरा॒शᳪसो॒ऽन्तरि॑क्षमु वै त्रि॒ष्टुप्त॑न्त्रि॒ष्टुभं॑ द्वि॒तीयामक॑ुर्वन् ॥ १२॥ अथा॒ग्निरु॑त्तमः । गाय॒त्री वा॒ऽअग्निस्तद्गा- य॒त्रीमु॑त्त॒मामक॑ुर्वन्ने॒वं य॑थाय॒थेन॑ कॢ॒प्तेन॒ छन्दा॒ᳪसि॒ प्रत्य॑तिष्ठ॒ᳪस्तस्मा॑दि॒दम॑पापवस्य॒सम् ॥ १३॥ दे॒वान्य॑जे॒त्येवाध्व॑र्यु॒राह॑ । दे॒वं-॑दे॒वमिति॒ सर्वे॑षु होता दे॒वानां॒ वै दे॒वाः सन्ति॒ छन्दा॒ᳪस्येव प॒शवो॒ ह्ये॑षां गृ॒हा हि प॒शवः प्रति॑ष्ठो हि गृ॒हाश्छन्दा॒ᳪसि वा॒ऽअनु-