भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 182, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 182

पा॒प्तास्त॒स्मा॒द्वान्य॒ञ्चेत्ये॒वाध्व॒र्युराह॒ देवं॒ देव॒मिति॒ सर्वे॑षु॒ होता॑ ॥ १४ ॥ वसु॒वने॑ व- सु॒धेय॒स्येति॑ । दे॒वता॑याऽए॒व वषट्क्रियते दे॒वता॑यै हूयते न वाऽअ॒त्र दे॒वता॒स्त्य- नूया॒जेषु॑ दे॒वं बर्हिरिति॒ तन्न ना॒ग्निर्नेन्द्रो॑ न सोमो॑ दे॒वो नरा॒शꣳस॒ इति॒ न्नत ऽएकं॑ चन यो वाऽअ॒त्राग्नि॒र्गाय॒त्री स नि॒दाने॑न ॥ १५ ॥ अथ॒ यद्वसु॒वनि॑ वसु॒धेय॒स्येति॑ यज॑ति । अ॒ग्निर्वे॑ वसु॒वनि॒रिन्द्रो॑ वसु॒धेयो॒ऽस्ति वै छन्द॑सां दे॒वतेन्द्राग्नी॒ऽए॒वैवमु चैतद्दे॒वता॑याऽए॒व वषट्क्रियते दे॒वता॑यै हूयते ॥ १६ ॥ अथोत्तममनूयाजमिष्ट्वा स- मानी॑य॒ जुहो॑ति । प्र॒या॒जानुया॒जा वाऽए॒ते तद्य॑थैवा॒दः प्र॒या॒जेषु॑ यज॑मानाय द्विष॒न्तं भ्रातृ॑व्यं बलिं॒ हार॑यत्यन्व॒ञ्चाग्यं बलिं॒ हार॑यत्येव॒मेवैतद॑नुया॒जेषु बलिं॒ हार- यति ॥ १७ ॥ ब्राह्मणम् ॥ ४ [८. २.] ॥ षष्ठः प्रपाठकः ॥ कण्डिकासंख्या १११ ॥ ॥ स वै स्रुचौ॒ व्यू॑हति । अ॒ग्नीषो॑मयो॒रुज्जि॑तिमनू॒ज्जेषं॒ वाज॑स्य मा प्रस॒वेन॒ प्रो- क्षामीति जुहू॑ प्राचीं॒ दक्षि॑णेन पा॒णिना॒ग्नीषोमौ॒ तम॑पनुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्येनं प्रस॒वेनापो॑हामीत्युप॒भृतं॑ प्रतीचीꣳ सव्येन पाणिना यदि स्व॒यं यज॑मानः ॥ १ ॥ यद्यु॒ऽअध्व॒र्युः । अ॒ग्नीषोमयो॒रुज्जि॑तिमनू॒ज्जय॑त्व॒यं यज॑मानो वा- ज॑स्यैनं प्रस॒वेन॒ प्रोक्षा॒म्यग्नीषोमौ॒ तम॑पनुदतां॒ यम॒यं यज॑मानो द्वेष्टि॒ यश्चैनं॑ द्वेष्टि॒ वाज॑स्येनं प्रस॒वेनापो॑हामीति पौर्णमास्यामग्नीषोमीयꣳ हि पौर्णमा॒स्याꣳ ह॒विर्भव॑ति ॥ २ ॥ अथामावास्यायाम् । इन्द्राग्न्यो॒रुज्जि॑तिमनू॒ज्जेषं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोक्षा- मीन्द्रा॒ग्नी तम॑पनुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्येनं प्रस॒वेनापोहा- मीति॒ यदि॑ स्व॒यं यज॑मानः ॥ ३ ॥ यद्यु॒ऽअध्व॒र्युः । इन्द्राग्न्यो॒रुज्जि॑तिमनू॒ज्जय॑त्व॒यं य- ज॑मानो॒ वाज॑स्येनं प्रस॒वेन॒ प्रोक्षा॒मीन्द्रा॒ग्नी तम॑पनुदतां॒ यम॒यं यज॑मानो द्वेष्टि॒ यश्चैनं॑ द्वेष्टि॒ वाज॑स्येनं प्रस॒वेनापो॑हामीत्यमावास्यायामिन्द्रा॒ग्नꣳ ह्या॑मावास्यꣳ ह॒विर्भव॑त्ये- वं यथदैवतं॒ व्यू॑हति॒ तद्य॑दै॒वं व्यू॑हति ॥ ४॥ यज॑मान ए॒व जु॒हूमन्वा॒ योऽस्मा ऽअरा॑ती॒यति॒ स उप॒भृत॑मन्व॒ प्राञ्च॑मे॒वैतद्यज॑मानमुद्गृह्णात्य॒पाञ्चं॒ तमपो॑हति॒ योऽस्मा