भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 26, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 26

८ शतपथ ब्राह्मण

य॒ज्ञं तन्वा॒नाः । ते ऽसु॒ररक्ष॒सेभ्य॒ आसं॑गाद्विभयां॒चक्रुस्तद्य॒ज्ञमुखा॑दे॒वैतन्नाष्ट्रा॒ र॑क्षा॒- स्यपो॑ ऽपह॒न्ति ॥३॥ अथ॒ प्रेति॑ । उ॒र्व॒न्तरि॑क्षम॒न्वेमीत्य॒न्तरि॑क्षं वा॒ऽअनू॒ र॑क्ष॒स्तर॒- त्यमू॑ल॒मुभ॒यतः॒ परि॑च्छिन्नं॒ यथा॒यं पुरु॑षो॒ऽमूल॒ उभ॑यतः॒ परि॑च्छिन्नो॒ऽन्तरि॑क्षम॒नुच॒- रति॒ तल्लक्ष्म॑णै॒वैतद॒न्तरि॑क्षम॒भयमना॒ष्ट्रं कुरुते ॥४॥ स वा॒ऽअन॑स ए॒व गृ॑ह्णीयात् । अनो ह॒ वा॒ऽअ॒ग्रे प॒श्चेव वा॒ऽइदं य॒ज्ञ आस॑ स॒ यदे॒वाग्रे॒ तत्क॑रवा॒णीति॒ तस्मा॑- दन॑स ए॒व गृ॑ह्णीयात् ॥५॥ भूमा वा॒ऽअन॑ः । भूमा॒ हि वा॒ऽअन॒स्तस्मा॒द्यदा बहु॒ भव॒त्यनो॑वा॒क्यमभू॒दित्या॑हुरु॒त्तद्भू॒मान॑मे॒वैतदुपैति॒ तस्मा॑दनस ए॒व गृ॑ह्णीयात् ॥६॥ य॒ज्ञो वा॒ऽअन॑ः । य॒ज्ञो हि वा॒ऽअन॒स्तस्मा॑दनस ए॒व य॒जूंषि॒ सन्ति॒ न कौ॒ष्ठस्य॒ न कु॒म्भ्यै भस्त्रायै ह॒ स्म॒र्षयो गृ॒ह्लन्ति॒ तद्वैषीन्प्रति भस्त्रायै॒ यजूं॑ष्यास॒स्तान्ये॒तर्हि॒ प्रा॒कृता॑नि य॒ज्ञाद्य॒ज्ञं निर्मिमा॒ऽइति॒ तस्मा॑दनस ए॒वगृह्णीयात् ॥७॥ उ॒तो पात्र्यै॒ गृ॒ह्लन्ति॑ । अन॒न्तराय॒मु तर्हि॑ य॒जूंषि॒ जपे॒त्स्तू॒मु त॒र्ह्यव॑स्त॒दुपो॒क्ष्य गृ॑ह्णीयाद्य॒तो यु॒- नक्ता॒म ततो॒ विमु॑ञ्चामिति यतो॒ ह्येव यु॒ञ्जन्ति॒ ततो॒ विमु॑ञ्चन्ति ॥८॥ तस्य॒ वा ऽए॒तस्यान॑सः । अ॒ग्निरिव॒ धूर॒ग्नि॒र्हि वै धूर्य्य ए॒नद्द॒हत्य॒ग्नि॒रिद॒मिवैषां॒ वरूं॑ भ॑व- त्यथ॒ यज्जघ॒नेन कस्तम्भी॑ प्र॒ऽउगं वेदि॑रे॒वास्य॒ सा नीड॑ ए॒व ह॒विर्धानम् ॥९॥ स धुरम॒भिमृ॑शति । धूर॑सि॒ धूर्व॒ धूर्वन्तं॒ धूर्व॒ तं यो॒ऽस्मान्धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वाम॒ इत्य॒ग्निर्वाऽए॒ष धुर्य्य॑स्तमे॒तद॒त्ये॒ष्वन्व॑वति ह॒विर्ग्रही॑ष्यं॒स्तस्मा॒ऽए॒वैतान्नि॒- ह्नुते॒ तथो॒ हैतमेषो॒ऽतियन्नमग्निर्धुर्य्यो न॑ हिनस्ति ॥१०॥ तद्व स्मैतद्दारुणिराह । अर्धमासशो वा॒ऽअरु॒रु॑ सपत्नान्धूर्वामीत्येतद्व स्म स तद॒भ्याह॑ ॥११॥ अथ॒ जघ॒- नेन कस्तम्भीमीषाम॒भिमृश्य॑ जपति । दे॒वाना॒मसि॒ वह्नितम॒ग्ं सस्नितमं॑ प॒प्रितमं॑ जु॒- ष्टतमं॑ दे॒वहू॑तमम् । अह्रुत॒मसि ह॒विर्धानं॒ दृग्ं॒हस्व॒ मा ह्वा॒रित्यन ए॒वैतदुपस्तौ- त्युप॑स्तुतादा॒त्मानम॒तो ह॒विर्गृह्णानीति॒ मा ते य॒ज्ञप॑तिर्ह्वार्षी॒दिति यज॑मानो॒ वै य॒ज्ञ- पति॒स्तद्यज॑मानायै॒वैतद॑कुला॒माशा॑स्ते ॥१२॥ अथा॒क्रम॑ते । वि॒ष्णुस्त्वा क्रम॒तामिति॑