शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 268, कुल 699 में से
संदर्भ में पढ़ेंरोचथाः । तं जानन्नग्न॒ऽआरोहाथा नो वर्धया रयिमिति पुष्टं वै रयिर्भूयो-भूय ए- व न इदं पुष्टं कुर्वित्येवैतदाह ॥ १३ ॥ अयमि॒ह प्रथ॒मः । धायि धातृभिर्होता य- जिष्ठोऽअध्वरेष्वीड्यः । यमप्रवानो भृगवो विरुरुचुर्वनेषु चित्रं विभुं विशे-विश॒ऽइ- त्यन्वेव धावति तद्यथा याञ्चन्कल्याणं वदेदानुष्यायणो वै त्वमस्यलं वै त्वमेतस्मा ऽअसीत्येवमेषा यथोऽएवैष तयोऽह्वैनमेतदाह यदाह विभुं विशे-विश॒ऽइति वि- भूर्ह्येष विशे-विशे ॥ १४ अस्य प्रत्नाम् । अनु द्युत॒ग्ं शुक्रं दुदुह्रेऽअ॒स्रयः । पयः सहस्रसामृषिमिति परमा वाऽएषा सनीनां यत्सहस्रसनिस्तदेतस्यैवावरुद्धै तस्मा- दाह पयः सहस्रसामृषिमिति ॥ १५ ॥ तदेतत्समाहार्यं षडृचं । तस्योपवती प्रथ- मा प्रत्नवत्युत्तमाऽथोचाम तद्यस्मादुपवत्याह ह्व प्रत्नं यावन्तो ह्येव सनाये दे- वास्तावन्त एव देवास्तस्माददः प्रत्नं तदिमेऽएवांतरेण सर्वे कामास्तेऽअस्माऽइमे संतानाने सर्वान्कामान्त्संनमतः ॥ १६ ॥ स वै त्रिः प्रथमां जप॑ति । त्रिरुत्तमां त्रि- ष्कृत्यायणा हि देवास्त्रिवृद्धयनास्तस्मात्त्रिः प्रथमां जप॑ति त्रिरुत्तमाम् ॥ १७ ॥ यद्ध वाऽअ॒त्राग्निहो॒त्रं जुह्वत् । वाचेन वा कर्मणा वा मिथ्या करोत्यात्मनस्तदवद्य- त्यायुषो वा वर्चसो वा प्रजा॑यै वा ॥ १८ ॥ तडु खलु तनूपा अग्नेऽसि । तन्वं मे पाह्यायुर्दा अग्नेऽस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चो मे देहि । अग्ने यन्मे तन्वा ऊनं तन्मऽआपृणेति ॥ १९ ॥ यद्ध वाऽअ॒त्राग्निहो॒त्रं जुह्वत् । वाचेन वा कर्मणा वा मिथ्या करोत्यात्मनस्तदवद्यत्यायुषो वा वर्चसो वा प्रजा॑यै वा तन्मे पुनरा- प्यायेत्येवैतदाह भूयो हास्यैतत्पुनराप्यायते ॥ २० ॥ इन्धानास्त्वा । शत॒ग्ं हिमा द्युमन्त॑ समिधीमहीति शतं वर्षाणि जीवास्मेत्येवैतदाह तावन्ता महाग्ं स- मिधीमहीति यदाह द्युमन्त॒ समिधीमहीति वयस्वन्तो वयस्कृत॒ग्ं सहस्वन्तः स- हस्कृतमिति वयस्वन्तो वयं भूयास्म वयस्कृतं भूया इत्येवैतदाह सहस्वन्तो वयं भूयास्म सहस्कृतं भूया इत्येवैतदाहाग्ने सपत्नदम्भनमदब्धासोऽअदाभ्यमिति त्वया