भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 270, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 270

२५२ शतपथ ब्राह्मण वय॒ꣳ सपत्नान्पापीयसः क्रियास्मेत्ये॒वैतदाह ॥ २१॥ चित्रावसो स्वस्ति ते पार॒म- शीयेति । त्रि॒रेतज्जपति रात्रिर्वै चित्रावसुः सा हीय॒ꣳ संगृह्येव चित्राणि वसति तस्मान्नारकाश्चिन्न॑ ददृशे ॥ २२॥ ए॒तेन ह स्म वाऽऋषयः । रात्रेः स्व॒स्ति पार॒ꣳ स- मश्नुवत॒ऽएतेनो॑ ह स्मैनान्॒रात्रीर्नाष्ट्रा रक्षाꣳसि न विन्दन्त्येतेनोऽए॒वैष एतद्रात्रेः स्व॒स्ति पार॒ꣳ समश्नुत॒ऽएतेनोऽएनꣳ रात्रीर्नाष्ट्रा रक्षाꣳसि न विन्दन्त्येतावन्नु ति- ष्ठञ्जपति ॥ २३॥ अथासीनः । सं त्वमग्ने॒ सूर्य्यस्य॒ वर्च॑सा गथा॒ इति तद्यदस्तं यन्ना- दित्य आहवनीयं प्रविशति तेनैतदाह समृषीणाꣳ स्तुतेनेति तद्यदुपतिष्ठते तेनै- तदाह॒ सं प्रियेण॒ धाम्नेत्याहुतयो वाऽअस्य प्रियं धामाहुतिभिरेव तदाह सम॒ह- मायु॑षा सं वर्च॑सा सं प्र॒जया॒ सꣳ रायस्पोषे॑ण गमिषीयेति यथा त्वमेतैः समगथा ए॒वमहम॒युषा वर्च॑सा प्र॒जया रायस्पोषे॑णेति यद्ब्रूतेति तदे॒वमहमेतैः संगहाऽइत्ये- वैतदाह ॥ २४॥ अथ गामभ्यैति । अन्य॒ स्थान्यो वो भक्षीय मह॒ स्थ महो वो भक्षीयेति यानि वो वीर्य्याणि यानि वो महाꣳसि तानि वो भक्षीयेत्येवैतदा- ह॒ोर्ज॒ स्थोर्जं॑ वो भक्षीयेति रस॒ स्थ रसं वो भक्षीयेत्येवैतदाह रायस्पोष॒ स्थ रा- यस्पोषं वो भक्षीयेति भूमा॒ स्थ भूमानं वो भक्षीयेत्येवैतदाह ॥ २५॥ ॥ शतम् ११०० ॥ ॥ रेवती रमध्वमिति रेवन्तो हि पश॒वस्तस्मादाह रेवती रमध्वमित्य- स्मि॒न्योनाव॒स्मिन्गोष्ठेऽस्मिँल्लोकेऽस्मिन्क्षये । इ॒हैव स्त॒ मापगातेत्यात्मन ए॒वैत- दाह म॑देव मापगातेति ॥ २६॥ अथ गामभिमृशति । सꣳहितासि विश्व॑रू॒पीति विश्व॑रूपा इव हि पश॒वस्तस्मादाह विश्व॑रूपीत्यूर्जा माविश गौपत्येनेत्यूर्जेति य- दाह॒ रसे॒नेति तदाह गौपत्येनेति यदाह भूम्नेति तदाह ॥ २७॥ अथ गार्हपत्यम- भ्यैति । स गार्हपत्यमुपतिष्ठतऽउप॑ त्वाग्ने दि॒वे-दिवे दोषावस्तर्धिया व॒यम् । नमो भर॑न्त एमसीति नम ए॒वास्माऽएतत्करोति यथेनं न हिꣳस्यात् ॥ २८॥ राज॑न्तम- ध्वराणां॑ । गो॒पामृतस्य॒ दीदि॑विम् । वर्ध॑मानꣳ स्वे दम॒ऽइति स्वं वै तद्गृहं यन्मम