भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 28, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 28

१० शतपथ ब्राह्मण

य॒ज्ञो वै विष्णुः स॑ दे॒वेभ्य॑ इ॒मां वि॒क्रान्तिं॒ विच॑क्रमे यैषा॒मियं वि॒क्रान्ति॒रिद॒मेव प्रथ॑- मेन प॒देन पर्य्याग्रहीद॒मन्तरि॑क्षं द्वि॒तीये॑न दि॒वमुत्त॑मेनैता॒म्वेवैष ए॒तस्मै॑ वि॒ष्णुर्य॒ज्ञो वि॒क्रान्तिं॒ विक्र॑मते ॥१३॥ अथ प्रेक्ष॑ते । उ॒रु वाता॒येति॑ प्रा॒णो वै वात॒स्तल्ल॑क्ष्णो- वैतत्प्रा॒णाय वाता॒योरुगायं कु॑रुते ॥१४॥ अथा॒पास्य॑ति । अ॒पह॒तं रक्ष॒ इति य- द्यत्र किञ्चिदामेध्रं भव॑ति यद्यु ना॒म्येव मृशेत्तन्ना॒ष्ट्रा ए॒वैतद्र॒क्षांस्यतो॒ऽपह॑न्ति ॥१५॥ अथा॒भिपद्य॑ते । यु॒क्तां पञ्चेति पञ्च वाऽइ॒मा अ॒ङ्गुल॑यः पा॒ङ्क्तो वै य॒ज्ञस्त- द्य॒ज्ञमेवैतदु॑प दधाते ॥१६॥ अथ गृह्णाति । दे॒वस्य॑ त्वा सवि॒तुः प्रस॒वेऽश्विनो॒र्बा- हुभ्यां॑ पू॒ष्णो हस्ताभ्या॒मग्नये॒ जुष्टं॑ गृह्णामी॒ति सवि॒ता वै दे॒वानां॑ प्रसवि॒ता तत्स- वितृप्रसूत ए॒वैतद्गृह्णात्य॒श्विनोर्बा॒हुभ्या॒मित्य॒श्विनाव॑ध्व॒र्यू पू॒ष्णो हस्ताभ्या॒मिति पू॒षा भागदु॒घोऽन्नं॑ पा॒णिभ्या॒मुप॑निधाता स॒त्यं देवा अ॒नृतं॑ मनु॒ष्या॒स्तत्स॒त्येनैवैतद्गृह्णा- ति ॥१७॥ अथ दे॒वताया॒ऽआदि॑शति । सर्वा ह वै दे॒वता॑ अध्व॒र्युं ह॒विर्गृहीष्यन्त- मुप॑तिष्ठन्ते म॒म नाम॑ ग्रहीष्यति म॒म नाम॑ ग्रहीष्यती॒ति ताभ्य ए॒वैतत्सह॑ सती- भ्यो॒ऽसम॑दं करोति ॥१८॥ य॒द्वेव दे॒वताया॒ऽआदि॑शति । यावती॑भ्यो ह॒ वै दे॒व- ताभ्यो ह॒वीꣳषि गृह्णन्त्य॑ऽऋणमु है॑व तास्तेन मन्यन्ते यद॒स्मै तं कामꣳ सम॒र्ध- येयु॒र्यत्काम्या गृह्णाति॒ तस्मा॑द्देवताया॒ऽआदि॑शत्ये॒वमेव यथापूर्वं॑ ह॒वीꣳषि गृ- हीत्वा ॥१९॥ अ॒थाभि॒मृश॑ति । भू॒ताय॑ त्वा॒ नारा॑तय॒ऽइति तद्य॑त ए॒व गृह्णाति तद्वैवैतत्पुन॒राप्या॑ययति ॥२०॥ अथ प्राङ्प्रेक्ष॑ते । स्वर॒भिव्य॑ख्येष॒मिति परि॑वृतमिव वाऽए॒तदनो॒ भव॑ति तद॒स्यैतच्चक्षुः पाप्म॑गृहीतमि॒व भव॑ति य॒ज्ञो वै स्व॒र्हर्देवाः सूर्य्य॒स्तत्स्व॒रेवैतद॒तोऽभिविप॑श्यति ॥२१॥ अथा॒वरो॑हति । दृꣳहन्तां॒ दुर्याः पृथि॒- व्यामिति गृहा वै दुर्यास्तै ह्येत ईश्वरो गृहा यज॑मानस्य यो॒ऽस्यैषोऽध्व॑र्युर्य॒ज्ञेन च॑रति॒ तं प्रय॑न्त॒मनु प्र॒च्योतोस्तस्यैश्व॑रः कुलं वि॒क्षोब्धो॒स्तानिवैतदस्यां॑ पृथि॒व्यां दृꣳ हति तथा नानुप्रच्यव॑न्ते॒ तथा न वि॒क्षोभ॑न्ते तस्मादाह दृꣳहन्तां दुर्याः पृथिव्या-