शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 378, कुल 699 में से
संदर्भ में पढ़ें३६० शतपथ ब्राह्मण इत्याप॑श्च॒ रेत॑श्च॒ स ए॒तद॒प ए॒व मुञ्च॑ति॒ न प्र॒जाम॑ꣲहोमुचः स्वाहाकृता इत्यु॑ल्बस- इव॒ ह्ये॑ता मुञ्च॑ति यद्दु॒द्रे गुष्टिं॒ भव॑ति॒ तस्मा॑दाहाꣲहोमुच॒ इति॒ स्वाहा॑कृताः पृथि॒वीमावि॑श॒तेत्याहु॑तयो भूत्वा शा॒न्ताः पृ॑थि॒वीमावि॑श॒तित्ये॒वैतदा॑ह ॥२०॥ अथ॑ पुन॒र्लोष्टं॒ न्यस्य॑ति । पृथि॒व्या सम्भ॑वेती॒यं वै पृ॑थि॒वी दे॒वी दे॑वयज॒नी सा दी॒क्षिते॑न॒ नाभि॑मृश्या त॒स्या ए॒तद॒ङ्क्त्यैव य॒ज्ञियां॑ तनूम॒थाय॒ज्ञियं॒ शरीर॑मुभय॒मिव॒न्तामे॑वा- स्याम॑तत्पुनर्य॒ज्ञियां॑ त॒नूं द॑धाति॒ तस्मा॑दाह पृथि॒व्या सम्भ॑वेति ॥२१॥ अथा॒ग्नये॑ प- रि॒दाय॑ स्वपिति । दे॒वान्वाऽए॒ष उ॒पाव॑र्तते॒ यो दी॒क्षते॒ स दे॒वताना॒मेको॑ भवति न वै दे॒वाः स्वप॑न्त्यनव॒रुद्धो वाऽए॒तस्या॑स्व॒प्नो भव॑त्य॒ग्निर्वै दे॒वानां॑ व्रत॒पति॒स्त- स्मा॑ऽए॒वैतत्प॑रि॒दाय॑ स्वपि॒त्यग्ने॒ त्वꣳ सु जा॑गृ॒हि व॒यꣳ सु म॑न्दिषीमहीत्यग्ने॒ त्वं जा॑- गृ॒हि व॒यꣳ स्वप्स्याम इत्ये॑वै॒तदा॑ह॒ रक्षा॒ णोऽप्र॑युच्छ॒न्निति॑ गोपाय नोऽप्रमत्त इ- त्ये॒वैतदा॑ह प्रबु॒धे नः॒ पुन॑स्कृधी॒ति यथे॒तः सु॒प्त्वा स्व॒स्ति प्रबु॑ध्यामहाऽए॒वं नः॒ कु- र्वित्ये॒वैतदा॑ह ॥२२॥ अथ॒ यत्र॑ऽसु॒प्त्वा पुन॒र्नाव॑दा॒स्यन्भव॑ति । तदा॒ह्वय॑ति पुन॒र्मनः॒ पुन॒रायु॑र्मऽआगन्पुनः॑ प्रा॒णः पुन॑रा॒त्मा मऽआग॑न्पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ मऽआगन्नि- ति॒ सर्वे॑ ह॒ वाऽए॒ते स्वप॑तोऽप॒क्राम॑न्ति प्रा॒ण ए॒व न तैरे॒वैतत्सु॒प्त्वा पुन॑ः संगृह्ते तस्मा॑दाह॒ पुन॒र्मनः॒ पुन॒रायु॑र्मऽआगन्पुनः॑ प्रा॒णः पुन॑रा॒त्मा मऽआग॑न्पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ मऽआगन् । वैश्वान॒रोऽअद॑ब्धस्तनू॒पा अ॒ग्निर्नः॑ पातु दुरि॒तादव॑द्या॒दिति॑ त- द्य॑दे॒वात्र॑ स्वप्ने॒न वा॒ येन॑ वा मिथ्याक॑र्म॒ तस्मान्नः॒ सर्व॑स्माद॒ग्निर्गोपायत्वित्ये॒वैतदा॑ह तस्मा॑दाह वैश्वान॒रो अद॑ब्धस्तनू॒पा अ॒ग्निर्नः॑ पातु दुरि॒तादव॑द्या॒दिति॑ ॥ २३॥ अथ॒ यद्दी॒क्षितः॑ । अ॒व्रत्यं॒ वा व्याह॒रति॒ क्रुध्य॑ति वा॒ तन्मिथ्या॑करोति व्र॒तं प्रमी॑णात्य- क्रोधो॒ ह्ये॑व दी॒क्षितस्या॒ग्निर्वै दे॒वानां॑ व्रत॒पति॒स्तमे॒वैतदुप॑धावति त्वम॑ग्ने व्रतपा अ- सि दे॒वऽआ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीद्य॒ऽइति॒ तस्यो॑ है॒षा प्राय॑श्चित्तिस्तथो॒ हास्यैतन्न॑ मि॒थ्याकृ॑तं भव॑ति॒ न व्र॒तं प्रमी॑णाति॒ तस्मा॑दाह॒ त्वम॑ग्ने व्रतपा॒ असि दे॒वऽआ म॒-