भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 380, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 380

र्त्ये॑धा॒ । त्वं य॒ज्ञष्वीड्य॒ इति॑ ॥ २४ ॥ अथ॒ यद्द्दी॑क्षिताया॒भिजु॒होति॑ । त॒स्मिन्वाच॒पति॒ रास्वे॒यत्सो॒मा भूयो॑ भरे॒ति सोमो॑ ह॒ वाऽअ॒स्माऽए॒तद्यु॑ते॒ यद्द्दी॑क्षिताया॒भिजु॒होति॒ स यदा॑ह॒ रास्वे॒यत्सोमेति॑ रा॒स्व न इ॒यत्सो॒मित्ये॒वैतदा॑हा॒ भूयो॑ भरे॒त्या नो॒ भूयो॑ ह॒- रे॒त्ये॒वैतदा॑ह देवो॒ नः॑ सविता वसोर्दा॒ता वस्व॑दा॒दिति॑ तथो हास्माऽए॒तत्स॑वि॒- तृप्र॑सूतमेव दा॒नाय॑ भवति ॥ २५ ॥ पु॒रास्त॒मया॒दाह॑ । दी॒क्षित॒ वाचं॒ यच्छेति॒ ताम॒- स्तमि॑ते॒ वाचं॒ विसृ॑जते पुरो॑दया॒दाह॑ दी॒क्षित॒ वाचं॒ यच्छेति॒ तामुदि॑ते॒ वाचं॒ विसृ॑- जते संतत्याऽए॒वाह॒रेवैतद्रात्र्या॒ संतनोध्या॒ रात्री॑म् ॥ २६ ॥ नैन॑मन्य॒त्र च॑र॒न्तम॒- भ्यस्त॑मियात् । न स्व॒पन्तम॒भ्युदिया॒त्स यदेन॑मन्य॒त्र चर॑न्तम॒भ्यस्त॑मियाद्रात्रे॒रनं तद॒- न्तरिया॒द्यत्स्व॒पन्तम॒भ्युदिया॒दह्न एनं॒ तद॒न्तरियान्नात्र प्रायश्चित्तिरस्ति प्रतिगुप्य॑मे॒वै- तस्मान् न पु॒रावभृथा॒दपोऽभ्य॑वेया॒न्नैनम॒भिव॑र्षेदनवकॢप्तं॑ ह तद्यत्पु॒रावभृथा॒दपो ऽभ्य॑वेया॒द्यदेनम॒भिव॑र्षेद्य॒त् परिह्वा॒लं वाचं॒ वद॑ति॒ न मानु॑षीं प्रसृ॒तां तद्यत्परि॑- ह्वा॒लं वाचं॒ वद॑ति॒ न मानु॑षीं प्रसृ॒ताम् ॥ २७॥ य॒ज्ञेन॒ वै दे॒वाः । इ॒मां जि॑तिं जि- ग्यु॒र्यैषामि॒यं जि॑ति॒स्ते होचुः कथं न इ॒दं मनु॑ष्यैरन॒न्वारो॒ह्यᳵ स्या॒दिति॑ ते य॒ज्ञस्य रसं धी॒त्वा यथा॒ मधु॑ मधु॒कृतो॑ निर्धयेयु॒र्विदुह्य॑ य॒ज्ञं यूपेन॒ योपयित्वा॒ तिरो॑ऽभव॒- न्नथ॒ यदेने॑ना॒योप॑यं॒स्तस्मा॒द्यूपो॒ नाम॑ ॥ २८ ॥ तद्धा॒ऽऋषी॑णामनु॒श्रुतमा॑स । ते य॒ज्ञꣳ सम॑भर॒न्यथायं य॒ज्ञः सम्भृ॑त ए॒वं वाऽए॒ष य॒ज्ञꣳ सम्भ॑रति॒ यो दी॑क्षते॒ वाग्वै य॒ज्ञ- स्तद्य॒देवात्र॑ य॒ज्ञस्य॒ निर्धी॑तं॒ यद्विदु॑ग्धं॒ तदे॒वैतत्पुन॑रा॒प्याय॑यति॒ यत्परि॑ह्वा॒लं वाचं॑ वद॑ति॒ न मानु॑षीं प्रसृ॒तां न ह्याप्याययेद्यत्प्रसृ॒तां मानु॑षीं वाचं॒ वदे॒त्तस्मात्परि॑ह्वा- लं वाचं॑ वद॑ति॒ न मानु॑षीं प्रसृ॒ताम् ॥ २९॥ स वै दी॑क्षते । वाचे हि दी॑क्षते य- ज्ञाय॒ हि दी॑क्षते य॒ज्ञो हि वाग्दी॑क्षितो ह॒ वै नामैतद्यद्दी॑क्षित॒ इति॑ ॥ ३० ॥ ब्रा- ह्मणम् ॥ १ [२.२] ॥ ॥ आ॒दि॒त्यं च॒रुं प्रायणी॑यं॒ निर्व॑पति । दे॒वा ह॒ वाऽअ॒स्यां य॒ज्ञं तन्वा॒ना इ॒मां य॒-

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग) · पृष्ठ 380, कुल 699 में से · BharatKosha