भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 382, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 382

ज्ञाद॑न्त॒रयुः॒ सा हे॑षा॒मियं॑ य॒ज्ञं मो॒रूं॑ चकार क॒थं नु मयि॑ य॒ज्ञं त॑न्वा॒ना मां य- ज्ञाद॑न्त॒रयु॒रिति॒ तं च॒ य॒ज्ञं न प्र॑ज॒ज्ञुः ॥१॥ ते हो॑चुः । यन्न्व॑स्या॒मेव॑ य॒ज्ञमत॑न्म॒- न्हि क॒थं नु नो॒ऽमुहू॒त्कथं॑ न प्र॒जानी॒म इति॑ ॥२॥ ते हो॑चुः । अ॒स्यामे॒व य॒ज्ञं त- न्वा॒ना इ॒मां य॒ज्ञाद॑न्त॒रगा॑म॒ सा न इ॒यमे॒व य॒ज्ञम॑मूमूहदि॒मामे॒वोप॑धावा॒मेति॑ ॥३॥ ते हो॑चुः । यन्नु॒ वय्ये॒व य॒ज्ञमत॑न्मन्हि क॒थं नु नो॒ऽमुहू॒त्कथं॑ न प्र॒जानी॒म इति॑ ॥४॥ सा हो॑वाच । मय्ये॒व य॒ज्ञं त॑न्वा॒ना मां य॒ज्ञाद॑न्त॒रगा॑त॒ सा वो॒ऽहमे॒व य॒ज्ञ- म॒मूमू॒हं भा॒गं नु मे॑ कल्पयताथ य॒ज्ञं द्र॑क्ष्यथाथ प्र॒ज्ञास्य॒थेति॑ ॥५॥ तथेति॑ दे॒वा अब्रुवन् । तवै॒व प्रा॑यणी॒यस्त्वो॑दय॒नीय॒ इति॒ तस्मा॑दे॒ष आ॑दि॒त्य ए॒व प्रा॑यणी॒यो भव॑त्यादि॒त्य उ॑दय॒नीय॒ इयꣳ॑ ह्ये॒वादि॑ति॒स्ततो॑ य॒ज्ञमप॑श्यं॒स्तमत॑न्वत ॥६॥ स य- दादि॒त्यं च॒रुं प्रा॑यणी॒यं नि॒र्व॑पति । य॒ज्ञस्यै॒व दृष्ट्यै॑ य॒ज्ञं दृष्ट्वा॑ क्रीणा॑नि॒ तं त॑नवा॒- ऽइति॒ तस्मा॑दादि॒त्यं च॒रुं प्रा॑यणी॒यं नि॒र्व॑पति॒ तद्वै निरु॑क्तꣳ ह॒विरा॑सीदनि॑रुक्ता दे॒व- ता ॥७॥ अथै॑भ्यः प॒थ्या स्व॒स्तिः प्रारो॑चत । ताम॑यज॒न्वाग्वै प॒थ्या स्व॒स्तिर्वाग्य॒ज्ञ- स्तद्य॒ज्ञमप॑श्यं॒स्तमत॑न्वत ॥८॥ अथै॑भ्यो॒ऽग्निः प्रारो॑चत । तम॑यजं॒स्तद्य॒दाग्ने॒यं य॒ज्ञ- स्यासी॒त्तद॑पश्य॒न्यद्धि शुष्कं॑ य॒ज्ञस्य॒ तदा॑ग्ने॒यं तद॑पश्यं॒स्तदत॑न्वत ॥९॥ अथै॑भ्यः॒ सोमः॑ प्रारो॑चत । तम॑यजं॒स्त यत्सौ॒म्यं य॒ज्ञस्यासी॒त्तद॑पश्य॒न्यद्वाऽआ॒र्द्रं य॒ज्ञस्य॒ तत्सौ॒म्यं तद॑पश्यं॒स्तदत॑न्वत ॥१०॥ अथै॑भ्यः सवि॒ता प्रारो॑चत । तम॑यज॒न्पश॑वो॒ वै स॑वि॒ता पश॑वो य॒ज्ञस्तद्य॒ज्ञमप॑श्यं॒स्तमत॑न्व॒ताथ॒ यस्यै॑ दे॒वता॑यै ह॒विर्नि॑रु॒प्तमासी॒त्ताम॑यजन् ॥११॥ ता वा॒ऽए॒ताः । पञ्च॑ दे॒वता॑ यजति॒ यो वै स य॒ज्ञो मु॒ग्ध आसी॑त्पा॒ङ्को वै स आसी॒त्तमे॒ताभिः॑ प॒ञ्चभि॑र्देव॒ताभिः॑ प्राजा॑नन् ॥१२॥ ऋ॒तवो॑ मु॒ग्धा आ॑संस्तूंश्च॑ । ताने॒ताभि॑रेव॒ पञ्च॑भिर्देव॒ताभिः॑ प्राजा॑नन् ॥१३॥ दिशो॑ मु॒ग्धा आ॑संस्तूंश्च॑ । ता ए॒- ताभि॑रेव॒ पञ्च॑भिर्देव॒ताभिः॑ प्राजा॑नन् ॥१४॥ उदी॑चीमेव दिशम् । प॒थ्या स्व॒स्त्या प्राजा॑नं॒स्तस्मा॑दुत्त॒राद्धि वाग्व॑दति कुरुपञ्चा॒लत्रा वाग्व्ये॒षा निदा॑नेनोदीचीꣳ॒ ह्ये-