भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 384, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 384

३६६ शतपथ ब्राह्मण तया॒ दिशं॑ प्राजा॑नन्नुदीची॒ ह्येतस्यै॒ दिक् ॥ १५॥ प्राची॑मेव॒ दिश॑म्। अ॒ग्निना॒ प्रा- जानं॒स्तस्मा॑द॒ग्निं प॒श्चात्प्राञ्च॒मुद्धृत्योपा॑सते प्राची॑ꣳ ह्येतस्य॒ दिशं॑ प्राजा॑नन्प्राची॒ ह्ये- तस्य॒ दिक् ॥ १६॥ दक्षि॑णामेव॒ दिश॑म्। सोमे॑न॒ प्राजा॑नं॒स्तस्मा॒त्सोमं॑ क्री॒तं दक्षि॑णा प॒रिव॑हन्ति तस्मादाहुः पितृदे॒वत्यः॒ सोम॒ इति॒ दक्षि॑णाꣳ ह्येतस्य॒ दिशं॑ प्राजा॑नन्द- क्षिणा॒ ह्येतस्य॒ दिक् ॥ १७॥ प्रतीची॑मेव॒ दिश॑म्। स॒वित्रा॒ प्राजा॑नन्ने॒ष वै स॑वि॒ता य ए॒ष तप॑ति॒ तस्मा॑दे॒ष प्रत्य॒ङ्ङेति॑ प्रतीची॑ꣳ ह्येतस्य॒ दिशं॑ प्राजा॑नन्प्रतीची॒ ह्येतस्य दिक् ॥ १८॥ ऊ॒र्ध्वामेव॒ दिश॑म्। अदि॑त्या प्राजा॑नन्नियं वाऽअदि॑ति॒स्तस्मा॑द॒स्यामूर्ध्वा ओष॑धयो जायन्त॒ऽऊर्ध्वा वन॒स्पत॑य ऊ॒र्ध्वाꣳ ह्येतया॒ दिशं॑ प्राजा॑नन्नू॒र्ध्वा ह्येतस्यै॒ दिक् ॥ १९॥ शिरो॒ वै य॒ज्ञस्या॑ति॒थ्यम्। बा॒हू प्रायणी॑योदयनी॒याव॒भितो॒ वै शिरो॑ बा॒हू भ॑वत॒स्तस्मा॑द॒भित॑ आति॒थ्यमे॒ते ह॒विषी॑ भवतः प्रायणी॒यश्चो॑दयनी॒यश्च॑ ॥ २०॥ त- द्दाहुः। यदे॒व प्रायणी॑ये क्रि॒येत॒ तदु॑दयनी॒ये क्रि॑येत यदे॒व प्रायणी॑यस्य ब॒र्हिर्भव॑- ति॒ तदु॑दयनी॒यस्य ब॒र्हिर्भवतीति॒ तद॒पोद्धृ॑त्य निद॑धाति॒ ताꣳ स्थालीꣳ सन्नामक॑र्षां प्रमृ॑ज्य मे॒क्षणं॒ निद॑धाति॒ यऽए॒व प्रायणी॑यस्य॒ऽर्त्विजो॒ भव॑न्ति तऽउ॑दयनी॒यस्य॒ऽर्त्वि- जो भव॑न्ति॒ तद्यदे॒तत्समा॒नं य॒ज्ञे क्रि॒यते॒ तेन॑ बा॒हू स॒दृशौ॒ तेन॑ स॒रूपौ॑ ॥ २१॥ तदु॑ तथा॒ न कु॒र्यात्। काम॒मेवैतद्ब॒र्हिरनु॑प्रहरेदे॒वं मे॒क्षणं॑ निर्णि॑ज्य॒ स्थालीं॑ निद॒ध्याद्य ऽए॒व प्रायणी॑यस्य॒ऽर्त्विजो॒ भव॑न्ति तऽउ॑दयनी॒यस्य॒ऽर्त्विजो॒ भव॑न्ति य॒द्यु ते वि॑प्रे॒ताः स्यु॒रप्य॒न्यऽए॒व स्युः स यद्वै समा॑नीर्देव॒ता यज॑ति समा॒नानि॑ ह॒वीꣳषि॒ भव॑न्ति ते- नैव बा॒हू स॒दृशौ॒ तेन॑ स॒रूपौ॑ ॥ २२॥ स वै पञ्च प्रायणी॑ये दे॒वता॑ यज॑ति । प- ञ्चोदयनी॒ये तस्मा॒त्पञ्चेत्या॑हु॒रङ्गुल॑यः प॒ञ्चैत्यात्त॒त्कुभ्यू॑तं भवति न पत्नीः संया॑जयति पूर्वा॒र्धं वाऽअ॒न्वात्मनो॒ बाहू पूर्वा॒र्धमे॒वैतद्य॒ज्ञस्या॒भिसंस्क॑रोति॒ तस्मा॒त्कुभ्यू॑तं भव- ति॒ न पत्नीः संया॑जयति ॥ २३॥ ब्रा॒ह्मणम् ॥ २ [२.३.] ॥ ॥ दि॒वि वै सोम॑ आसी॒त् । अथेह॒ देवा॑स्ते देवा॑ अकामयन्ता॒ नः॑ सोमो॑ गच्छेते॒-