भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 392, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 392

३७४ शतपथ ब्राह्मण बृहस्पति॒र्बृह॒स्पति॑ष्ठा साधु॒नाव॑र्तयत्वित्ये॒वैत॒दाह॑ रु॒द्रो व॑सुभि॒राच॑क॒ऽइत्यप्र॑णाशा- यै॒तदा॑ह रु॒द्रो हि ना॑ति प॒शवः॑ ॥ २॥ अथ॑ स॒प्तमं प॒दं पर्यु॑पविशन्ति । स हिर॑ण्यं प॒दे नि॒धाय॑ जुहोति न वाऽअ॒नग्नावहुति॑र्हूयतॆ॒ऽग्निरे॒तसं॒ वै हिर॑ण्यं तथो हा- स्यैषाग्निमत्ये॒वाहुति॒र्हुता भ॑वति वज्रो वाऽआज्यं॒ वज्रे॑णै॒वैतदा॒ज्येन स्पृणुते ताꣳ स्पृ॒त्वा स्वीकुरुते ॥ ३॥ स जु॑होति । अदि॑त्यास्त्वा मूर्धन्नाजि॑घर्मीती॒यं वै पृथि॒व्य- दि॑ति॒रस्यै॒ हि मूर्धन्जुहो॑ति देव॒यज॑ने पृथि॒व्याऽइति॑ देव॒यज॑ने हि पृथि॒व्यै जु॒हो- तीडायास्प॒दम॑सि घृ॒तव॒त्स्वाहेति॒ गौर्वाऽइ॒डा गोर्हि प॒दे जुहो॑ति घृ॒तव॒त्स्वाहेति॑ घृ॒तव॒द्ध्येतद॒भिहु॑तं भ॑वति ॥ ४॥ अथ॑ स्फ्यमा॒दाय॑ प॒रिलि॑खति । वज्रो॒ वै स्फ्यो वज्रे॑णै॒वैतत्प॒रिलि॑खति त्रिष्कृ॒त्वः प॑रिलिखति त्रिवृ॒त्तैवैतद्वज्रे॑ण समन्तं॒ परि॑गृह्णा- त्यन॑तिक्रमाय ॥ ५॥ स प॑रिलि॒खति । अ॒स्मे रम॑स्वेति॒ यज॑माने रम॑स्वेत्ये॒वैत॒दा- हायं समुल्लि॑ख्य प॒दꣳ स्था॒ल्याꣳ संव॑पत्यस्मे ते बन्धुरिति॒ यज॑माने ते बन्धुरित्ये॒- वैत॒दाह॑ ॥ ६॥ अथाप॒ उप॑निनयति । यत्र॒ वाऽअ॒स्यै खन॑न्तः क्रू॒रीकु॒र्वन्त्यप॑प्र॒क्ति र्शान्ति॒राप॒स्तद॒द्भिः शा॒न्त्या श॑मयति॒ तद॒द्भिः संद॑धाति॒ तस्मा॒दप॒ उप॑निनयति ॥ ७॥ अथ॒ यज॑मानाय प॒दं प्रय॑च्छति । मे राय॒ इति॑ प॒शवो॒ वै रा॒यस्त्वयि॑ प॒शव इत्ये॒वै- तदा॑ह॒ तद्यज॑मानः प्रति॒गृह्णा॑ति मे राय॒ इति॑ प॒शवो॒ वै रा॒यो॒ मयि॑ प॒शव॒ इत्ये॒- वैत॒दाह॑ ॥ ८॥ अथाध्व॒र्युरा॒त्मान॒मुप॑स्पृशति । मा वयꣳ रा॒यस्पोषे॑ण॒ वियो॑ष्मेति॒ त- थो हाध्व॒र्युः प॒शुभ्य॑ आ॒त्मानं॒ नान्त॑रेति ॥ ९॥ अथ॒ पत्न्यै प॒दं प्रति॑प्र॒ाहर॑न्ति । गृ॒- हा वै पत्नी॑ प्रति॒ष्ठा तद्गृहेष्वे॒वैन॑मेतत्प्रति॒ष्ठायां प्र॑तिष्ठापयति॒ तस्मा॒त्पत्‍न्यै प॒दं प्र- ति॑प्र॒ाहर॑न्ति ॥ १०॥ तां नेष्टा वा॑चयति । तोतो राय॒ इत्ये॒नैनाꣳ सोमक्रयण्या सं॒ख्याप॑यति वृषा॒ वै सोमो॒ योष॑ पत्नी॒ष वाऽअत्र॒ सोमो॑ भवति॒ यत्सोम॑क्रयणी मिथु॒नमे॒वैतत्प्र॒जन॑नं क्रियते॒ तस्मा॑देनां सोमक्रयण्या सं॒ख्याप॑यति ॥ ११॥ स सं- ख्यापय॑ति । स॒मख्ये दे॒व्या धिया सं दक्षि॑णयोरुचक्ष॑सा । मा म॒ऽआयुः प्रमो॑षी॒र्मी