भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 394, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 394

३७६ शतपथ ब्राह्मण ऽअ॒हं त्व॒द्वीरं॑ विदेय॒ तव॑ देवि सं॒दृशी॒त्याशि॑षमे॒वैतदा॒शास्ते॑ पु॒त्रो वै वीरः॑ पु॒त्रं वि॑देय॒ तव॑ सं॒दृशी॒त्ये॒वैतदा॑ह ॥ १२॥ सा या ब॒भ्रुः पि॒ङ्गाक्षी । सा सो॑मक्रय- णी॒ यत्र॒ वाऽइन्द्रावि॒ष्णू त्रे॒धा स॒हस्रं॒ व्यैर॑येतां॒ तदेकात्य॑रिच्यत॒ तां त्रे॒धा प्राऽन- यतां॒ तस्माद्योऽप्ये॒तर्हि॑ त्रे॒धा स॒हस्रं॒ व्याकु॒र्यादेकैवाति॑रिच्येत ॥ १३॥ सा या ब॒भ्रुः पि॒ङ्गाक्षी॑ । सा सो॑मक्रय॒ण्यथ॒ या रोहि॑णी॒ सा वा॑र्त्र॒घ्नी यामि॒द राजा॑ सं॒ग्रामं॑ जि- ग्वी॒षाकु॑रु॒तेऽथ॒ या रोहि॑णी श्वे॒ताक्षी सा पि॒तृदे॑वत्या॒ यामि॒दं पि॒तृभ्यो॑ प्र॒त्ति ॥१४॥ ॥ शतम् १६०० ॥ ॥ सा या ब॒भ्रुः पि॒ङ्गाक्षी॑ । सा सो॑मक्रयणी स्याद्य॒दि ब॒भ्रुं पि॒- ङ्गाक्षीं॒ न वि॒न्देदरु॒णा स्याद्यद्य॑रु॒णां न वि॒न्देद्रोहि॑णी वा॑र्त्र॒घ्नी स्या॒द्रोहि॑ण्यै ह्यु त्वे॑व॒ श्वेता॒क्ष्याऽऽशा॑शां नेया॒त् ॥ १५॥ सा स्यादप्रवीता । वाग्वाऽए॒षा निदा॑नेन यत्सो॑मक्रय॒ण्यया॑तयाम्नी॒ वाऽइ॒यं वाग्या॒तयात॒म्येवाप्र॑वीता॒ तस्मा॒दप्र॑वीता स्यात्सा॒ स्याद॒व्यण्डाऽकूटाऽकाणाऽकर्णाऽश्लि॑षितासप्रशफा सा ह्ये॒कच्छि॒करू॑पा॒ ह्ये॑यं वाक् ॥ १६॥ ब्राह्मणम् ॥ ४ [३. १.] ॥ ॥ प॒द सम्मु॒ष्य पाणी॒ऽअवनि॑नेक्ते । तद्यत्पाणी॒ऽअवनि॑नेक्ते॒ वज्रो॒ वाऽआ॒ज्यं॑ रेतः॒ सोमो॒ नेद॒ग्रेणा॒ज्येन॒ रेतः॒ सोमं॑ हि॒न॒सानी॑ति॒ तस्मा॑त्पाणी॒ऽअवनि॑नेक्ते ॥ १॥ अ॒थास्या॑ऽ हिर॒ण्यं ब॑ध्नीते । द्वयं॒ वाऽइ॒दं न तृतीय॑मस्ति स॒त्यं चै॒वानृ॑तं च स॒त्यमे॒व दे॒वा अ॒नृतं॑ मनु॒ष्या अ॒ग्निरेतसं॒ वै हिर॑ण्य॒ꣳ स॒त्येना॑ऽनू॒नू॒प॑स्पृशानि स॒- त्येन॒ सोमं॑ प॒राह्णा॒नीति॒ तस्मा॒द्वाऽअ॒स्यां हिर॑ण्य ब॒ध्नीते ॥ २॥ अथ॒ सम्प्रेष्य॑- ति । सोमोप॒नहन॒माह॑र॒ सोम॑पर्याणह॒नम॒होष्णी॑षमाहरे॒ति स यदे॒व शोभ॑नꣳ तत्सो॑मोपन॒हनꣳ स्याद्वासो॒ ह्यस्यैतद्भव॑ति॒ शोभ॑नꣳ ह्येतस्य॒ वासः॑ स॒ यो हैन॑ꣳ शोभ॑नेनोपचर॑ति॒ शोभ॑ते हाय य आ॒ह यदे॒व किं चेति॒ यद्देव किं च भव॑ति॒ त- स्मा॒द्यदे॒व शोभ॑नं तत्सो॑मोप॒नहनꣳ स्या॒द्यदे॒व किं च सोम॑पर्याणह॒नम् ॥ ३॥ य॒द्युष्णी॑षं वि॒न्देत् । उ॒ष्णीषः॑ स्या॒द्यद्यु॒ष्णीषं॒ न वि॒न्देत्सो॑मपर्याणह॒नस्यै॒व व्यङ्गुलं॑

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग) · पृष्ठ 394, कुल 699 में से · BharatKosha