शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 398, कुल 699 में से
संदर्भ में पढ़ें३८० शतपथ ब्राह्मण तया॒ द्वाभ्या॑मे॒तयै॒कये॒तयै॒कये॒तया॒ द्वाभ्या॑मे॒तया तिसृ॑भिरे॒तया॒ चत॑सृभिरे॒तया॒ स- र्वाभिः॒ सम॒स्याञ्जलि॑ना॒धाव॑पति ॥ १३॥ स वाऽउ॒दाचं॒ न्याचं॒ मिमी॑ते । स यदु- दाचं॒ न्याचं॒ मिमी॑ते॒ऽइमा॒ एवै॒तद॒ङ्गुलीर्नाना॑नानाः करोति॒ तस्मा॑दि॒मा नाना॑ ज्ञा- यन्ते॒ऽथ॒ यत्स॒ह सर्वा॑भि॒र्निमी॑ते स॒श्लिष्टा॑-इव॒ ह्येतवे॒मा जा॑येरं॒स्तस्मा॑दा॒ऽउदा॑चं॒ न्या- चं॒ मिमी॑ते ॥ १४॥ यद्वेवो॒दाचं॒ न्याचं॒ मिमी॑ते । इमा॒ एवैतन्ना॑नावी॒र्याः करोति तस्मा॑दि॒मा ना॑नावी॒र्या॒स्तस्मा॑दा॒ऽउदा॑चं॒ न्याचं॒ मिमी॑ते ॥ १५॥ यद्वे॒वोदा॑चं॒ न्याचं॒ मिमी॑ते । वि॒राज॑मे॒वैतद॒र्वाचीं॑ च प॒राचीं॑ च युनक्ति परा॒च्यह दे॒वेभ्यो॑ य॒ज्ञं वह॑- त्य॒र्वाची मनु॒ष्यानव॑ति॒ तस्मा॑दा॒ऽउदा॑चं॒ न्याचं॒ मिमी॑ते ॥ १६॥ अथ॒ दश॑ कृत्वो मिमी॑ते । दशा॑क्षरा॒ वै वि॒राडैरा॑जः॒ सोम॒स्तस्मा॒द्दश॑ कृत्वो मिमी॑ते ॥ १७॥ अथ सोमोपनह॒नस्य॒ समुत्पर्या॑न्तान् । उ॒ष्णीषे॑ण॒ विग्र॑थ्नाति प्र॒जाभ्य॒स्त्वेति॑ प्र॒जाभ्यो॒ ह्ये- नं क्रीणा॑ति स य॑द्देवै॒दं शिर॑श्चा॒ऽसौ चात्तरोपेनितमिव तद्दे॒वास्यै॒तत्करो॑ति ॥ १८॥ अथ॒ मध्ये॒ऽङ्गुल्त्या॑का॒शं करो॑ति । प्र॒जास्त्वानु॑प्राण॒न्त्विति॒ तम॑यतीव वा॒ऽएनमेतत्स॒- मापन्नप्राणमिव करोति॒ तस्यैतदृत एव॒ मध्य॑तः प्रा॒णमु॑त्सृज॑ति॒ तं ततः॑ प्रा॒णन्तं॑ प्र॒जा अनु॑प्राणन्ति॒ तस्मा॑दाह प्र॒जास्त्वानु॑प्राण॒न्त्विति॒ त सोम॑विक्र॒यिणे॒ प्रय॑हृत्य- र्थात्तः प॒णन॑स्यैव ॥ १९॥ ब्राह्मणम् ॥ ५ [३.२.]॥ ॥ स वै राजानं॑ पणते । स यद्राजानं॑ पणते॒ तस्मा॑दि॒दं सकृ॒त्सर्वं॑ प॒ण्यं॒ स आ- ह॒ सोम॑विक्रयिन्क्र॒य्यस्ते॒ सोमो॒ राजा॑३॒इति॒ क्रय्य॒ इत्या॑ह सोम॑विक्रयी॒ तं वै॑ ते क्री॒णानीति॑ क्री॒णीहीत्या॑ह सोम॑विक्रयी क॒लया॑ ते क्रीणानीति॒ भूयो वा॒ऽअतः॑ सोमो॒ राजा॑र्ह॒तीत्या॑ह॒ सोम॑विक्रयी॒ भूय॒ एवातः॒ सोमो॒ राजा॑र्हति म॒हांस्त्वेव गोर्म- हि॒मेत्य॑ध्व॒र्युः ॥ १॥ गोर्वै प्रतिधुक् । तस्यै॑ शृ॒तं तस्यै॑ श॒रस्तस्यै॒ दधि॒ तस्यै॑ म॒स्तु तस्या॑ऽऽतञ्चनं॒ तस्यै॒ नव॑नीतं॒ तस्यै॑ घृ॒तं तस्या॑ऽऽमि॒क्षा तस्यै॑ वा॒जिनं॑ ॥ २॥ श॒फेन॑ ते क्रीणानी॑ति । भूयो॒ वा॒ऽअतः॒ सोमो॒ राजा॑र्ह॒तीत्या॑ह सोम॑विक्र॒यी भूय॑