शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 400, कुल 699 में से
संदर्भ में पढ़ें३८२ शतपथ ब्राह्मण ॒श्वातः॑ सोमो॒ राजा॑र्हति म॒हांस्त्वेव गोर्म॑हि॒मेत्य॑ध्व॒र्यु॒रेता॒न्येव दश॑ वी॒र्या॑ण्युदाच॒क्षा- णा॒ह पदा॒ तेऽर्धेन ते॒ गवा॑ ते क्रीणामीति क्रेतः सोमो राजेत्याह सोमविक्रयी वयांसि प्रब्रूहीति ॥३॥ स॒ आह॑ । च॒न्द्रं ते॒ वस्त्रं॑ ते॒ छागा॑ ते धे॒नुस्ते॑ मिथुनौ ते॒ गावौ॑ ति॒स्रस्ते॒ऽन्या इति॒ स यद॒र्वाक्य॑णान्ते॒ परः॑ सम्पाद॒यन्ति॒ तस्मादि॒दं सकृ॑- त्स॒र्वं पण्यम॒र्वाक्य॑णान्ते परः सम्पादयन्त्यथ यदध्व॒र्युुरेव गोर्वी॒र्या॑ण्युदाच॒ष्टे न सोम॑- स्य सोमविक्रयी महितो वै सोमो देवो हि सोमोऽथैतदध्वर्युंर्ग महयति तस्यै पश्यन्वी॒र्या॑णि क्रीणा॒दिति॒ तस्मादध्व॒र्युुरेव गोर्वी॒र्या॑ण्युदाच॒ष्टे न सोम॑स्य सोम- विक्रयी ॥४॥ अथ यत्पञ्च कृत्वः प॒णते॒ । सं॒वत्स॑रसंमितो वै य॒ज्ञः पञ्च॒ वा ऋ॒त- वः सं॑वत्स॒रस्य॒ तं प॒ञ्चभिराप्नो॑ति॒ तस्मा॑त्पञ्च कृत्वः प॒णते॒ ॥५॥ अथ हिर॑ण्ये वा- चयति । शु॒क्रं त्वा शु॒क्रेण॑ क्रीणामीति शुक्रं॒ ह्येतच्छुक्रेण॑ क्रीणा॒ति यत्सोमं॑ हि॒- रण्येन च॒न्द्रं च॒न्द्रेणेति॑ च॒न्द्रं ह्येतच्चन्द्रेण क्रीणा॒ति यत्सोमं॑ हिर॑ण्येन॒ामृतम॒मृ॑- तेने॒त्यमृ॑तं॒ ह्येतद॒मृते॑न क्रीणा॒ति यत्सोमं॑ हि॒रण्येन ॥६॥ अथ सोमविक्रयि- णम॑भिकम्पयति । स॒ग्मे ते॒ गोरिति॒ यज॑माने ते॒ गौरित्ये॒वैतदा॑ह॒ तद्यद्यज॑मानम- भ्यावृत्य॒ न्यस्ये॑त्स॒मे ते॒ चन्द्राणी॑ति॒ स आत्म॒न्नेव वीर्यं॑ धत्ते॒ शरीर॑मेव॒ सोम॑वि- क्रयी कुरुते तत्ततः सोमविक्रय्यादत्ते ॥७॥ अथैतायां प्रतीचीनमुख्यां वाचयति । तप॑सस्त॒नूर॑सीति तपसो ह॒ वा॒ऽए॒षा प्र॒जाप॑तेः संभूता यदजा तस्मादाह तपस- स्तनूरसीति प्रजापतेर्वर्ण॒ इति सा यन्त्रिः॒ संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः परमेण पशुना क्रीतस्त॒ऽइति॒ सा यन्त्रिः॒ संवत्स॒रस्य॑ वि॒जाय॑ते तेन पर॒मः पशुः॑ स॒- हस्रपोषं पुषेयमित्याशिषमेवैतदाशास्ते भूमा वै सहस्रं भूमानं गछानीत्येवैतदाह ॥८॥ स वा॒ऽअने॑नैवैनां प्र॒युन॑क्ति । अनेन राजानमादत्तऽआज्ञा॒ ह वै नामैषा यदजेतया ह्येनमेतत आप्नोति तमेतत्परोऽक्षमजेत्याचक्षते ॥९॥ अथ राजानमा- दत्ते । मित्रो न एहि सुमित्रध इति शिवो नः शान्त एहीत्येवैतदाह तं यजमा-