भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 402, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 402

३८४ शतपथ ब्राह्मण नस्य दक्षिण॒ ऊरौ॑ प्रत्यु॑च्य॒ वामो॑ निद॒धानीन्द्र॑स्योरुमा॒विश॒ दक्षि॑णमित्येष वा ऽअत्रेन्द्रो॒ भव॑ति॒ यद्यज॑मानस्तस्मादाहेन्द्र॑स्योरुमा॒विश॒ दक्षि॑णमित्युशुश॒तमिति॑ प्रियः प्र॒ियमित्ये॒वैतदाह स्यो॒नः स्यो॒नमिति॑ शि॒वः शि॒वमित्ये॒वैतदाह ॥१०॥ अथ सोम॑क्रय॒णाननु॒दिश॑ति । स्वान भ्राजा॑ङ्घ्रे॒ बम्भा॑रे॒ हस्त॒ सु॒हस्त॒ कृशा॑नवे॒ते वः॑ सोम॑क्रय॒णास्तान्त्सर्वान् रक्ष॒ मा वो॑ दभन्निति धिष्याणां वाऽए॒ते भाङ्गिनैतानि वै धि- ष्याणां॒ नामा॑नि तान्ये॒वैभ्य ए॒तदन्व॑दिशन ॥११॥ अथात्रापोर्णुते । गर्भो वाऽए॒- ष भ॑वति यो दीक्षते प्रावृता वै गर्भा उल्वेनेव जरायुणेव तमत्राजीजनत् तस्मा- द्वयोर्णुतः स्य वाऽअत्र॒ गर्भो भ॑वति॒ तस्मात्परिवेष्टितो भव॑ति॒ परिवृता-इव हि ग- र्भा उल्बेनेव जरायुणेव ॥१२॥ अथ वाचयति । परि॒ माग्ने॑ दु॒श्च॒रिता॑द्बाधस्वा॒ मा सु॒चरि॑ते भजेत्यासीनं वाऽएनमेष आगच्छति स आगतोऽउत्तिष्ठति तन्मिथ्याकरोति व्रतं प्रमीणाति तस्यो हेषा प्रायश्चित्तिस्तथो हास्यैतन्न मिथ्याकृतं भवति न व्रतं प्रमीणाति तस्मादाह परि माग्ने दुश्चरिताद्बाधस्वा मा सुचरिते भजेति ॥१३॥ अथ राजानमादायापोत्तिष्ठति । उदायुषा स्वायुषोदस्थाममृताँ२ऽअन्वित्यमृ॒तं वाऽए॒षो ऽनुत्तिष्ठात यः सोमं क्रीतं तस्मादाहोदायुषा स्वायुषोदस्थाममृताँ२ऽअन्विति ॥१४॥ अथ राजानमादायारोहणमभिप्रैति । प्रति पन्थामपद्महि स्वस्ति गामने- हसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति ॥१५॥ देवा ह वै य- ज्ञं तन्वानाः । तेऽसुररक्षसेभ्य आसङ्गाद्विभयां चक्रुस्तऽएतद्यजुः स्वस्त्ययनं ददृ- शुस्तदेतेन यजुषा नाष्ट्रा रक्षांस्यपकृत्यैतस्य यजुषोऽभयेऽनाष्ट्रे निवाते स्वस्ति समाश्नुवत तथोऽएवैष एतेन यजुषा नाष्ट्रा रक्षांस्यपकृत्यैतस्य यजुषोऽभयेऽनाष्ट्रे निवाते स्वस्ति समश्नुते तस्मादाह प्रति पन्थामपद्महि स्वस्ति गामनेहसम् । ये- न विश्वाः परि द्विषो वृणक्ति विन्दते वस्विति ॥१६॥ तं वाऽइति हरति । अनसा परिवहन्ति मध्यन्त्येनमेतत्त्माक्षीला वीतं हरन्त्यनसोदावरुति ॥१७॥

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग) · पृष्ठ 402, कुल 699 में से · BharatKosha