भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 44, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 44

वि॒ता हिर॑ण्यपाणिः प्रति॑गृह्णात्व॒च्छिद्रेण पा॒णिना॑ सु॒प्रति॑गृहीतान्यस॒न्निति॒ चक्षु॑षे त्वेति॒ तच्चक्षु॑र्दधात्येता॒नि वै जी॑वतो भवन्त्ये॒वम् हैतज्जीव॑मेव दे॒वानाꣳ॑ ह॒विर्भा॑- वत्य॒मृतम॒मृता॑नां॒ तस्मा॑देवं॒ पिन॑ष्टि॒ विष्व॑क्ति॒ पिष्टा॒न्यभी॑न्धते क॒पाला॑नि ॥ २१ ॥ अथैक॒ आज्यं॒ निर्व॑पति । यद्वाऽ॒आदि॑ष्टं दे॒वता॑यै ह॒विर्गृह्य॑ते॒ याव॑द्दे॒वत्यं॒ तद्भव॑ति तदित॑रेण॒ यजु॑षा गृह्णाति॒ न वाऽ॒एतत्कस्यै॑ चन दे॒वता॑यै ह॒विर्गृह्ण॒न्नादि॑शति॒ य- दाज्यं॒ तस्मा॑द॒निरु॑क्तेन॒ यजु॑षा गृह्णाति म॒हीनां॒ पयो॑ऽसीति॒ मध्व॒ इति॑ ह॒ वाऽए॒- तासा॒मेकै॒ नाम॒ यद्गवां॒ तासां॒ वाऽए॒तत्पयो॑ भवति॒ तस्मा॑दाह म॒हीनां॒ पयो॑ऽसी- त्ये॒वमु॒ हास्यै॒तत्खलु॒ यजु॑षैव॒ गृही॑तं भवति॒ तस्मा॑द्वेवाह म॒हीनां॒ पयो॑ऽसी॑ति ॥ २२॥ ब्रा॒ह्म॒णम् ॥ ५ [२. १.] ॥ प॒वित्र॑वति॒ संव॑पति । पा॒त्र्यां प॒वित्रे॒ऽअव॑धाय दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्वि॑- नोर्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याꣳ संवपामीति सोऽसा॑वे॒वैतस्य॒ यजु॑षो बन्धु॑: ॥ १ ॥ अथान्त॑र्वे॒द्युप॑विशति । अथैक उपसर्जनी॒भिरि॑ति ता आ॒नय॑ति ताः प॒वित्रा॑भ्यां प्र- तिगृह्णा॑ति समाप॒ ओष॑धीभिरिति॒ सꣳ ह्ये॑तदाप॒ ओष॑धिभिरि॒ताभि॑: पि॒ष्टाभि॒: संग॑- च्छन्ते॒ समोष॑धयो॒ रसेने॑ति॒ सꣳ ह्ये॑तदोष॑धयो॒ रसेने॑ताः पिष्टा॒ अद्भि॒: संग॑च्छन्त॒ आपो॑ ह्ये॑तासाꣳ॒ रस॒: सꣳ रेवती॒र्जग॑तीभिः पृच्यन्ता॒मिति॑ रे॒वत्य॒ आपो॒ जग॑त्य॒ ओष॑धयस्ता उ॒ ह्ये॑तदु॒भय्य॒: संपृ॑च्यन्ते॒ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ता॒मिति॒ सꣳ र॑सवत्यो॒ रस॑व- तीभि॒: पृच्य॑न्तामि॒त्येवैतदा॑ह ॥ २॥ अथ॒ संयौ॑ति । ज॒नय॑त्ये॒ वा संयौ॑मीति॒ यथा॑ श्रियै॒ऽन्नाद्या॒येमाः प्र॒जा यज॑मानाय॒ यद्ध्ये॑वं॒ वै तत्संयौ॑त्यधि॒वर्द्धय॑न्नु॒ वै संयौ॑ति॒ यथा॑ वाऽ॒धिक्व॑क्तो॒ऽग्रेऽधि॒ जाये॒तैवँ॑ वै तत्संयौ॑ति ॥ ३॥ अथ॒ द्वेधा क॑रोति । यदि॒ द्वे ह॒विषी॒ भवत॑: पौ