भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 440, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 440

इ॒ध्मम॒भ्याद॑धाति । उप॒यमनी॒रुप॑कल्पयन्त्या॒ज्यम॒धिश्रयति स्रुवं च॒ स्रुचं॑ च संमा॒- र्ष्ट्योत्यू॒र्ध्व्याभ्यं॑ पञ्चगृहीतं गृ॑ह्णीते यदा प्रदी॑प्त इध्मो भव॑ति ॥ १॥ अथो॒द्यच्छ॑ती- ध्मम् । उप॒यम॒न्युप॑यमन॒ीरथाह्वाग्नये॒ प्रह्रिय॑माणाय॒ानुब्रू॒ह्येक॑स्फ्यया॒नूदे॑हीत्यनूदे॑ति प्रतिप्रस्थातैक॑स्फ्ययतस्मान्मध्यमाद्गोर्य एष वेदे॑र॒र्धनार्थे भव॑ति तद्यद्देवा॒त्रातः॑पा- तेन गार्हपत्यस्य॒ वेदेर्व्यव॑च्छिन्नं॒ भव॑ति तद्द्वैवैतद॒नुसंत॑नोति ॥ २॥ तद्वैके॑ । श्रोत्त- रवेदे॒रनूद्याय॑न्ति तदु॒ तथा न कुर्या॒द्धैवैतस्मान्मध्यमाद्गोरनू॑द्याया॒त्प्रायस्या॒गच्छ॑त्यु- त्त॒रवेदिम् ॥ ३॥ ॥ शतम् १८०० ॥ ॥ प्रोक्षणी॑र॒ध्वर्युराद॑त्ते । स पु॒रस्ता॑देवाग्रे प्रो- क्षत्युदङ् तिष्ठ॑न्निन्द्रघोष॒स्त्वा वसु॑भिः पुरस्तात्पात्वितीन्द्रघोष॒स्त्वा वसु॑भिः पुर॒स्ता- द्गोपायत्वित्ये॒वैतदाह ॥ ४॥ अथ पश्चात्प्रोक्ष॑ति । प्रचेतास्त्वा रु॒द्रैः प॒श्चात्पात्विति प्रचेतास्त्वा रु॒द्रैः पश्चा॑द्गोपायत्वित्ये॒वैतदाह ॥ ५॥ अथ दक्षिण॒तः प्रोक्ष॑ति । मनो॑- जवास्त्वा पितृभि॑र्दक्षिण॒तः पात्विति मनोजवास्त्वा पितृभि॑र्दक्षिण॒तो गोपायत्वित्ये- वैतदाह ॥ ६॥ अथोत्तर॒तः प्रोक्ष॑ति । विश्व॑कर्मा त्वादि॒त्यैरुत्तर॒तः पात्विति विश्व॑- कर्मा त्वादि॒त्यैरुत्तर॒तो गोपायत्वित्ये॒वैतदाह ॥ ७॥ अथ याः प्रोक्षण्यः परिशिष्य॑- न्ते । तद्येऽएते पूर्व्वे सक्ती तयो॑र्या द॑क्षिणा ता मन्तेन बहिर्वेदि निनयतीदम॒हं ततं॒ वार्बल्बि॑थीं य॒ज्ञात्रिःसृ॑जामीति सा यद्वैवाहुः सिञ्ची भूवाशान्तेवा॒चरत्ता॒मेवा- स्या एतच्छं॑ ब॒हिर्धा य॒ज्ञात्रिःसृ॑जति य॒द्वि नाभिचरे॒द्यद्यु॑ऽअभिचरे॒दादिशे॑दिदम॒हं ततं॒ वारमुम॑भि निःसृ॑जामीति तमेतया॑ शु॒चा विध्यति स शौचंन्नेवामं लोकमेति ॥ ८॥ स य॒द्धार्य॑माणेऽग्नौ । उत्तरवेदिं॒ व्याघा॑रयति य॒द्वैवैनामदो देवा अब्रुवन्पूर्वा त्वयि॒राहु॑तिः प्राप्स्यतीति तद्द्वैवैनामितत्पूर्वाम॒ग्नेराहु॑तिः प्राप्नोति यद्देषा देवा॒नब्र- वोद्यां मया कां चाशिषमाशासिष्यध्वे सा वः सर्वा सम॑र्धिष्यत॒ऽइति तस्मि॒न्यत्रा ऽर्त्विजो यज॑मानायाशिष॒माशा॑सते सास्मै सर्वा समृ॑ध्यते ॥ ९॥ तद्द्वाऽए॒तदेकं कुर्व- न्द्वयं॑ करोति । यदु॑त्तरवेदिं व्याघा॒रयत्यथ यैषां म॒ध्ये नाभि॑केव भव॑ति तस्यै ये