भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 656, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 656

६३८ शतपथ ब्राह्मण या॒त् । आ॒ग्रय॒णं गृ॒हीत्वा॒ स प्रा॒तःस॒वने॒ गृही॒त ऐत॒स्मात्कालादुपशेते॒ तदे॒नाग् सर्वा॑णि सव॒नान्यति॑रिक्थति॑ ॥७॥ माध्य॑न्दिने वैना॑ग् सव॑ने गृह्णीयात् । आग्रयणं गृ॒हीत्वा॒ सोऽए॒षा मीमाग्॒सैव प्रा॒तःस॒वन॒ऽएवैने॑ गृह्णीयादाग्रयणं गृहीत्वा स प्रा- तःस॒वने॒ गृही॒त ऐत॒स्मात्कालादुपशेते॑ ॥८॥ अथातो गृह्णात्येव । आति॑ष्ठ वृत्र- ह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वाची॒नग् सु॑ ते॒ मनो॒ ग्रावा॑ कृणोतु वग्गुना । उ॒प॒या॒मगृ॑हीतोऽसीन्द्राय त्वा षोडशिन॒ऽए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोडशिन॒ऽइति॑ ॥९॥ अनू॑पा वा । यु॒ङ्क्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रामु॑पश्रु॒तिं च॑र । उ॒प॒या॒मगृ॑हीतोऽसीन्द्राय त्वा षोडशिन॒ऽए॒ष ते॒ यो- नि॒रिन्द्रा॑य वा षोडशिन॒ऽइति॑ ॥१०॥ अथैत्य स्तोत्र॒मुपा॑करोति । सोमो॒ऽत्य॑रे- च्युपावर्त॑ध॒मित्यत्ये॒वैन॑मे॒तद्रे॑चयति॒ तं वै पु॒रास्त॑मया॒दुपा॑करोत्य॒स्तमि॑ते॒ऽनुश॑ग्ंसति तदे॑नेनाहोरा॒त्रे संद॑धाति॒ तस्मा॑त्पु॒रास्त॑मया॒दुपा॑करोत्य॒स्तमि॑ते॒ऽनुश॑ग्ंसति ॥११॥ ब्राह्मणम् ॥४ [५. ३.] ॥ ॥ सर्वे॑ ह॒ वै देवाः॑ । अग्रे॑ सदृशा आसुः सर्वे॑ पुण्या॒स्तेषाग् सर्वे॑षाग् सदृशानाग् सर्वे॑षां पु॒ण्यानां॒ त्रयो॑ऽकामयन्तातिष्ठावानः स्याम॒ित्यग्नि॒रिन्द्रः॒ सूर्यः॑ ॥१॥ ते॒ऽर्चन्तः॑ श्रा॒म्यन्त॑श्चेरुः । त॒ऽएतानतिग्राह्यान्ददृशुस्तानत्यगृह्णत तद्यदेनानत्यगृह्णत तस्मा- द॑तिग्राह्या॒ नाम॒ तेऽति॑ष्ठावानोऽभव॒न्यथैत॒ऽएतदति॑ष्ठेवातिष्ठेव ह॒ वै भ॑वति॒ य- स्यै॒वं वि॒दुष एतान्य॒हान्गृह्णन्ति॑ ॥२॥ नो ह॒ वा॒ऽइदमग्रे॒ऽग्नौ वर्च॑ आस । यदि॒द- म॒स्मिन्वर्चः॒ सो॑ऽकामय॒तेदं मयि॒ वर्चः॑ स्या॒दिति॒ स ए॒तं ग्र॒हम॑पश्य॒त्तम॑गृह्णीत॒ त- तो॒ऽस्मि॑न्ने॒तद्वर्च॑ आस ॥३॥ नो ह॒ वा॒ऽइदमग्रे॒ऽइन्द्र॒ऽओज॑ आस । यदि॒दम॒स्मि- न्नोजः॒ सो॑ऽकामय॒तेदं मय्योजः॑ स्या॒दिति॒ स ए॒तं ग्र॒हम॑पश्य॒त्तम॑गृह्णीत॒ ततो॒ऽस्मि- न्नै॒तदोज॑ आस ॥४॥ नो ह॒ वा॒ऽइदमग्रे॒ सूर्ये॒ भ्राज॑ आस । यदि॒दम॒स्मिन्भ्राजः॒ सो ऽकामय॒तेदं मयि॒ भ्राजः॑ स्या॒दिति॒ स ए॒तं ग्र॒हम॑पश्य॒त्तम॑गृह्णीत॒ ततो॒ऽस्मि॑न्ने॒तद्भ्राज॑