भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 668, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 668

धारा॒ पय॑स्वती॒ पुन॒र्मावि॑शताद्र॒यिरिति॑ । तद्दे॒व रि॑रिचा॒नं पुन॒राप्या॑ययति॒ यदा॑ह॒ पुन॒र्मावि॑शताद्र॒यिरिति॑ ॥ ९॥ अथ द॒क्षिणे कर्णेऽआ॒जप॑ति । इडे॒ रन्ते॒ रव्ये॒ काम्ये॒ च॒न्द्रे ज्योति॑ऽअदिते॒ सर॑स्वति॒ महि॑ वि॒श्रुति॑ । ए॒ता ते॑ऽअघ्न्ये॒ नामा॑नि दे॒वेभ्यो॑ मा सु॒कृतं॑ ब्रूता॒दिति॒ वोचे॒रिति॒ वैतानि॒ ह वा॒ऽअघ्न्यै॑ देव॒त्रा नामा॑नि॒ ता यानि॒ तै देव॒त्रा नामा॑नि॒ तैरै॑नां दे॒वेभ्यः॑ सु॒कृतं॑ ब्रूता॒दित्ये॒वैतदा॑ह ॥ १०॥ तामन्वार॑भते । सा यद्यु॑पुरु॒षाभि॑वीता प्राची॑या॒त्तन्न वि॑द्याद॒रात्सीद॒यं यज॑मानः कल्या॒णं लो॒कम॑जेषी- दिति॒ यद्युदी॑चीया॒च्छ्रेया॒नस्मिँल्लो॒के यज॑मानो भवि॒ष्यती॑ति वि॑द्या॒द्यदि॑ प्र॒तीची॑या- द्द्विष्य॑तिल्ब्वल-इव धा॒न्य॑तिल्ब्वलो भवि॒ष्यती॑ति वि॑द्या॒द्यदि॑ द॒क्षिणे॑यात्क्षि॒प्रे ऽस्मा॒ल्लोका॒द्यज॑मानः प्रे॒ष्यती॑ति वि॑द्यादे॒तानि विज्ञाना॑नि ॥ ११॥ तस्या एतास्ति॒- स्रस्तिस्रस्त्रि॒ंशत्य॑धि भवन्ति । तास्वे॒तामुप॑समाकुर्व्वन्ति॒ वि वा॒ऽए॒तां वि॒राजं॑ वृश्च- न्ति यां व्याकुर्व्वन्ति॒ विच्छि॑न्नो॒ऽए॒षा वि॒राज्ञा विवृ॑क्ता दशाक्षरा॒ वै वि॒राट्त्कृ॒त्स्नां॑ वि॒राजं॒ संद॑धाति॒ ताꣳ होत्रे॑ दद्याद्धोता॒ हि सार्द्धम॒स्तस्मा॒त्ताꣳ होत्रे॑ दद्यात् ॥ १२॥ द्वौ वोन्नेता॒रौ कुर्वीत॑ । तयो॒र्यत॑रो ना॒न्नाव॑ये॒त्तस्मा॑ऽए॒नां दद्या॑द्वृ॒द्धो वा ऽए॒ष उन्ने॒ता य ऽऋक्सन्नान्नाव॑यति॒ वृद्धो॒ऽए॒षा वि॒राज्ञा विवृ॑क्ता तद्वृ॒द्धऽए॒वै- तद्वृ॒द्धं द॑धाति ॥ १३॥ तदा॑हुः । न स॒हस्रे॒ऽधि किं चन दद्यात्सङ्कलेण ह्येव स॒- र्व्वान्कामाना॒प्नोती॑ति॒ तदु॒ होवा॑चासुरिः काम॒मेव॑ दद्यात्सङ्कलेनाह॒ सर्व्वान्कामा- ना॒प्नोति का॒मिनो॒ऽअस्येतर॒द्दत्तं॑ भवती॑ति ॥ १४॥ अथ॒ यदि॒ रथं॑ वा यु॒क्तं दास्य- न्त्स्यात् । यद्वा॑ वशा॒यै वा वपा॒याꣳ हुतायां॑ दद्याद॒दव॑सानीयायां वेष्टौ ॥ १५॥ स वै द॑क्षिणा नयन् । अन्यूना दशतो नयेद्यस्माऽएकां दास्यन्त्स्याद्दशभ्यस्तेभ्यो दश- तमुपावर्तयेद्यस्मै द्वे दास्यन्त्स्यात्पञ्चभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै तिस्रो दास्य- न्त्स्यात्त्रिभ्यस्तेभ्यो दशतमुपावर्तयेद्यस्मै पञ्च दास्यन्त्स्याद्द्वाभ्यां ताभ्यां दशतमुपा- वर्त्तयेदेवम् शतात्तथो हास्यैषान्यूना विराडुमुष्मिंल्लोके कामदुघा भवति ॥ १६॥