भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 670, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 670

६५२ शतपथ ब्राह्मण ब्राह्मणम् ॥१ [५.८.]॥ चतुर्थः प्रपाठकः॥ कण्डिकासंख्या १२५ ॥॥ तद्य॑त्रैतद्द्वादशा॒हेन॒ व्यू॑ढछन्दसा यज॑न्ते । तद्ब्र॒ह्मान्व्यू॑हति॒ व्यू॑हत उद्गा॒ता च॒ होता॑ च॒ छन्दा॒ग्ँसि॒ स ए॒ष प्र॒ज्ञात ए॒व पूर्व॒स्यहो भवति समू॑ढछन्दास्तैन्द्रवा- यवाग्रान्गृह्णाति ॥१॥ अथ चतुर्थे॒ऽह॒न्व्यू॑हति । ग्र॒हान्व्यू॑हति॒ छन्दा॒ग्ँसि॒ तदा॑ग्र- यणाग्रान्गृह्णाति प्राजापत्यं वाऽए॒तच्चतुर्थम॒हर्भवत्यात्मा वाऽआग्रयण आत्मा वै प्र॒जाप॑ति॒स्तस्मा॑दाग्रयणाग्रान्गृह्णाति ॥२॥ तं गृहीत्वा न सादयति । प्राणा वै ग्र- हा नेत्प्राणा॒न्मोह्या॒नीति॒ मो॒हये॒द्ध प्राणा॒न्यत्सा॒दये॒त्तं धा॒रय॑न्त ए॒वोपा॑सते॒ऽथ ग्र॒हान्गृ॑ह्णात्यथ यदा ग्र॒हान्गृ॑ह्णात्यथ यत्रैवैतस्य काल॒स्तदे॒नग्ं हिंकृत्य॑ सादयत्य- थैतत्प्रज्ञातमेव पञ्चममहर्भवति तदैन्द्रवायवाग्रान्गृह्णाति ॥३॥ अथ षष्ठे॒ऽह॒न्व्यू॑- हति । ग्र॒हान्व्यू॑हति॒ छन्दा॒ग्ँसि शु॒क्राग्रान्गृह्णात्यैन्द्रं वाऽए॒तत्ष॒ष्ठम॒हर्भवत्येष वै शुक्रो य एष तप॒त्येष उऽऐन्द्रस्तस्माच्छुक्राग्रान्गृह्णाति ॥४॥ तं गृहीत्वा न सादयति । प्राणा वै ग्रहा नेत्प्राणान्मोह्यानीति मोहयेद्ध प्राणान्यत्साद्येत्तं धा- रयन्त एवोपासतेऽथ ग्रहान्गृह्णात्यथ यदा ग्रहान्गृह्णात्यथ यत्रैवैतस्य कालस्तदे- नग्ं सादयति ॥५॥ अथ सप्तमेऽहन्व्यूहति । ग्रहान्व्यूहति छन्दाग्ँसि शुक्राग्रा- न्गृह्णाति बार्हतं वाऽएतत्सप्तममहर्भवत्येष वै शुक्रो य एष तपत्येष उऽएव बृहंस्तस्माच्छुक्राग्रान्गृह्णाति ॥६॥ तं गृहीत्वा न सादयति । प्राणा वै ग्रहा ने- त्प्राणान्मोह्यानीति मोहयेद्ध प्राणान्यत्साद्येत्तं धारयन्त एवोपासतेऽथ ग्रहान्गृ- ह्णात्यथ यदा ग्रहान्गृह्णात्यथ यत्रैवैतस्य कालस्तदेनग्ं सादयत्यथैतत्प्रज्ञातमेवाष्ट- मम॒हर्भव॑ति॒ तदैन्द्रवायवाग्रान्गृह्णाति ॥७॥ अथ नवमे॒ऽह॒न्व्यू॑हति । ग्र॒हान्व्यू॑- हति॒ छन्दा॒ग्ँसि॒ तदा॑ग्रयणाग्रान्गृह्णाति जागतं वाऽए॒तन्नवमम॒हर्भवत्यात्मा वा ऽआग्रयणः सर्वं वाऽइ॒दमात्मा जग॑त्तस्मादाग्रयणाग्रान्गृह्णाति ॥८॥ तं गृहीत्वा न॒ साद॑यति । प्राणा वै ग्रहा नेत्प्राणान्मोह्यानीति मोहयेद्ध प्राणान्यत्साद्येत्तं