भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 672, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 672

६५४ शतपथ ब्राह्मण

धार॒यन्त॑ ए॒वोपा॑सते॒ऽथ ग्र॒हान्गृ॑ह्णात्यथ॒ यदा॒ ग्र॒हान्गृ॒ह्णात्यथ॒ यत्रै॑वैतस्य कालस्त- देनग्ं हिंकृत्य॑ सादयति ॥ १॥ तदाहुः । न॒ व्यूहे॒दङ्गान्प्रा॒णा वै ग्र॒हा नेत्प्रा॒णा- न्मो॒ह॒यानीति॒ मोह्ये॑ड प्रा॒णान्यद्व्यू॒हेत्तस्मान्न॒ व्यूहे॑त् ॥१०॥ तदु॒ व्यूहे॑दे॒व । अ॒- ङ्गानि॒ वै ग्र॒हाः कामं वा॒ऽङ्गाम॒न्यङ्गानि॒ व्यत्यास॒ग्ं शेते॒ तस्मा॑डु॒ व्यूहे॑दे॒व ॥११॥ तदु॒ नैव॒ व्यूहे॑त् । प्रा॒णा वै ग्र॒हा नेत्प्रा॒णान्मो॒ह॒यानीति॒ मोह्ये॑ड प्रा॒णान्यद्व्यू॒- हे॒त्तस्मान्न॒ व्यूहे॑त् ॥१२॥ किं नु तत्रा॑ध्र्व॒र्योः । यदुद्गाता च॒ होता॑ च॒ छन्दा॑ग्ंसि व्यूह॑त ए॒तद्वा॒ऽअध्व॒र्युर्व्यूह॑ति ग्र॒हान्यदैन्द्रवायवा॒ग्रान्प्रातःसव॒ने गृह्णा॑ति शुक्राग्रा- न्माध्यन्दि॒ने सव॑न॒ऽआग्रयणाग्रांस्तृतीयसवने॑ ॥१३॥ ब्राह्मणम् ॥१ [५. १.] ॥ यदि॒ सोमम॑पह॒रेयुः॑ । वि॒धाव॑ते॒षते॑ति ब्रूयात्स॒ यदि॑ वि॒न्दन्ति॒ किमा॒द्रियेर॒न्यद्यु॑ न वि॒न्दन्ति॒ तत्र प्राय॑श्चित्तिः क्रियते ॥१॥ द्वयानि॒ वै फाल्गु॒नानि॑ । लो॒हितपु- ष्पाणि चारु॑णपुष्पाणि च स॒ यान्यरु॑णपुष्पाणि फाल्गु॒नानि॒ तान्य॑भिषुणुयादे॒ष वै सो॑मस्य॒ न्यङ्गो॒ यदरु॑णपुष्पाणि फाल्गु॒नानि तस्मादरु॑णपुष्पाण्य॒भिषु॑णुयात् ॥२॥ यद्य॑रु॒णपु॑ष्पाणि॒ न वि॒न्देयुः॑ । श्ये॒नहृत॑मभिषुणुयाद्यत्र॒ वै गाय॒त्री सो॑मम॒हापत- त्तस्या॑ऽआच्छु॒रन्त्यै॒ सोम॒स्या॑ऽशुरप॑तत्तच्छ्ये॒नहृ॑तमभवत्तस्माच्छ्ये॒नहृ॑तमभिषुणुयात् ॥३॥ यदि॑ श्ये॒नहृतं॒ न वि॒न्देयुः॑ । आदा॒रान॑भिषुणुयाद्यत्र॒ वै य॒ज्ञस्य॒ शिरो॑ऽछिद्यत॒ तस्य॒ यो र॑सो व्य॒प्रुष्य॒त्तत॑ आदा॒राः सम॑भवंस्तस्मादादा॒रान॑भिषुणुयात् ॥४॥ यद्यादा॒रान्न॒ वि॒न्देयुः॑ । अ॒रुण॑दूर्वा अ॒भिषु॑णुयादे॒ष वै सो॑मस्य॒ न्यङ्गो॒ यदरु॑णदूर्वास्तस्मादरु॑ण- दूर्वा॑ अ॒भिषु॑णुयात् ॥५॥ यद्य॑रु॒णदूर्वा॒ न वि॒न्देयुः॑ । अ॒पि याने॒व कांश्च॒ हरि॑ता- न्कु॒शान॑भिषुणुयात्तत्राप्येकमिव गां दद्यादथावभृथा॒दुदे॑त्य पुनर्दी॒क्षेत पुनर्य॒ज्ञो ह्ये॑व॒ तत्र॒ प्राय॑श्चित्ति॒रिति॒ नु सोमाप॑हृतानाम् ॥६॥ अथ कलशदि॒राम् । यदि॑ क॒लशो॑ दी॒र्येता॑नुलिप्स॒धमि॑ति ब्रूयात्स॒ यद्यनु॑ल॒भेरन्प्रसृ॑तमात्रं वाऽञ्जलिमात्रं वा तद॒न्यैरे॑कध॒नैर॒भ्युन्नीय॑ यथाप्रभा॒वं प्र॑चरेयु॒र्यद्यु॒ नानु॑ल॒भेरन्नाग्रयणा॑त्स्र्ये॒व प्रस्कन्द्या-