शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 74, कुल 699 में से
संदर्भ में पढ़ेंमूलान्यु॒पोन॑त्ति॒ ता इ॒मा आर्द्रमूला ओषधयस्त॒स्माद्य॒द्यपि शुष्काण्यग्राणि॒ भवन्त्या- र्द्राण्येव मूलानि भवन्ति ॥ ४ ॥ अथ विस्रंस्य ग्रन्थिम् । पुरस्तात्प्रस्तरं गृह्णाति विष्णो॒ स्तूपो॑ऽसीति य॒ज्ञो वै विष्णु॒स्तस्येयमेव शिखा स्तूप ए॒तमेवास्मिन्नेतद्दधाति पुरस्ताद्गृह्णाति पुरस्ताद्ध्ययं स्तूपस्तस्मात्पुरस्ताद्गृह्णाति ॥ ५॥ अथ संनहनं विस्रं- सयति । प्र॒क्लृप्तं ह॒वास्य स्त्री वि॒जायत॒ऽइति तस्मात्संनहनं विस्रंसयति तद्दि- क्षिणायाᳪ श्रोणौ निदधाति नीविर्ह्यवास्यैषा दक्षिणत-इव हीयं नीविस्तस्माद्दि- क्षिणायाᳪ श्रोणौ निदधाति तत्पुनरभ्छादयत्यभ्छन्नेव हीयं नीविस्तस्मात्पुनर- भ्छादयति ॥ ६॥ अथ बर्हि स्तृणाति । अयं वै स्तूपः प्रस्तरोऽथ यान्यवाञ्चि लो॒मानि तान्ये॒वास्य॒ यदि॒दन्तरं॑ बर्हि॒स्तान्ये॒वास्मि॒न्नेत॒द्दधा॑ति॒ तस्मा॒द्बर्हि॒ स्तृणा॑ति ॥७॥ योषा वै वे॑दिः । तमि॑तदे॒वाश्च॒ पर्या॑सते॒ ये चेमे॒ ब्राह्म॑णाः शुश्रुवाᳪसो॒ऽनू- चाना॒स्तैश्चै॒वैना॑मे॒तत्प॒र्यासी॑ने॒घ्नन्नां॑ क॒रोत्यन॑म्रतायाऽए॒व तस्मा॒द्बर्हि॒ स्तृणा॑ति ॥८॥ यावती वै वे॑दिः । तावती पृथिव्यो॒षध॑यो बर्हि॒स्तद॒स्यामे॒वैतत्पृ॑थि॒व्यामो॑ष- धीर्द॑धाति॒ ता इ॒मा अस्यां॑ पृथिव्या॒मोष॑धयः प्रति॑ष्ठिता॒स्तस्मा॒द्बर्हि॒ स्तृणा॑ति ॥९॥ तद्वै॑ बहुलᳪ स्तृणीयादित्याहुः॑ । यत्र॒ वाऽअ॒स्यै बहु॑लतमा॒ ओष॑धय॒स्तद॒स्या उप॑- जीवनि॑यतमं॒ तस्मा॒द्बहुलᳪ॑ स्तृणीया॒दिति॒ तद्वै॒ तदा॑ह्वर्तयै॒वाधि॑ त्रिवृ॒त्स्तृणा॑ति त्रि- वृद्धि य॒ज्ञोऽथो॒ऽअपि॑ प्रवर्हᳪ॑ स्तृणीयात्स्तृ॒णन्ति॑ ब॒र्हिरानु॑ष॒गिति॑ वृ॒षणा॒मभ्य॑नूक्त- म॒धरमू॑लᳪ स्तृणात्यधरमूला-इव॒ हीमा अस्यां॑ पृथिव्या॒मोष॑धयः प्रति॑ष्ठिता॒स्तस्मा॑- द॒धरमू॑लᳪ स्तृणाति ॥ १०॥ स॒ स्तृणा॑ति । ऊर्ण॑म्रदसं त्वा स्तृणामि स्वास॒त्स्थां दे॒- वेभ्य॒ऽइति॑ साध्वीं दे॒वेभ्य॑ इत्ये॒वैतदा॑ह॒ यदा॒होर्ण॑म्रदसं॒ त्वेति॑ स्वास॒त्स्थां दे॒वेभ्य॒ इति॑ स्वास॒दां दे॒वेभ्य॑ इत्ये॒वैतदा॑ह॒ ॥ ११॥ अ॒था॒ग्निं क॑ल्पयति । शिरो॒ वै य॒ज्ञस्या॑हव- नीयः॑ पूर्वां॒र्द्धो वै शिरः॑ पूर्वा॒र्धमे॒वैतद्य॒ज्ञस्य॑ कल्पयत्यु॒पर्यु॒परि॒ प्रस्तरं॑ धार॒यन्कल्प॑- यत्य॒यं वै स्तूपः॒ प्रस्त॑र ए॒तमे॒वास्मि॑न्ने॒तत्प्रति॑दधाति॒ तस्मा॑दु॒पर्यु॒परि॒ प्रस्तरं॑ धार॒य-