भारतकोश
शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)

Shatapatha Brahmana Part 1 - Shukla Yajurveda

महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)

DevanagariSanskritpublished699 पृष्ठ

पृष्ठ 76, कुल 699 में से

संदर्भ में पढ़ें
पृष्ठ 76

५८ शतपथ ब्राह्मण न्क॑ल्पयति ॥१२॥ अथ॑ परि॒धीन्प॑रि॒दधा॑ति । तद्य॒त्परि॒धीन्प॑रि॒दधा॑ति॒ यत्र॒ वै दे॒वा अग्रे॒ऽग्निग्ं॑ होत्रा॑य॒ प्रावृ॑णत॒ तद्धो॑वाच॒ न वा॒ऽअ॒हम॒लमि॒दमु॑त्सहे॒ यद्धो होता॒ स्यां यद्धो ह॒व्यं वहे॑यं॒ त्रीन्पूर्वा॒न्प्रावृ॑ङ्क्त॒ ते प्राध्व॑न्विपु॒स्तान्नु मे॒ऽवक॑ल्पय॒ताथ॑ वा॒ऽअ॒ह- मे॒तदु॑त्साह्ये॒ यद्धो होता॒ स्यां यद्धो ह॒व्यं वहे॑य॒मिति॒ तथेति॒ तान॑स्मा॒ऽए॒तान॑वा- कल्प॒यंस्त॒ऽए॒ते प॑रि॒धयः॑ ॥१३॥ स हो॑वाच । व॒ज्रो वै ता॒न्वष॑ट्कारः॒ प्रावृ॑ण॒ग्व- ज्राद्धि वष॑ट्कारा॒द्बिभे॑मि॒ यन्मा॒ व॒ज्रो वष॑ट्कारो॒ न प्र॒वृञ्ज्या॒त्तैरे॒व मा॒ परि॑धत्त॒ तथा॑ मा॒ व॒ज्रो वष॑ट्कारो॒ न प्र॒वर्क्ष्य॑तीति॒ तथेति॒ तमे॒तैः पर्य॑दधु॒स्तं न व॒ज्रो वष॑ट्कारः॒ प्रा- वृ॑णा॒त्तद्धर्मै॒वैतदग्रे॑ नह्यति॒ यदे॒तैः परि॒दधा॑ति ॥१४॥ तऽउ॒ हैतू॑चुः । इ॒दमु॑ चे- द॒स्मान्य॒ज्ञे यु॒ङ्क्थास्त्वे॒वास्मा॑कमपि य॒ज्ञे भाग॒ऽइति॑ ॥१५॥ तथेति॑ दे॒वा अ॑ब्रुवन् । यद्वहि॑ष्परि॒धि स्कन्त्स्य॑ति॒ तद्यु॒ष्मासु॑ हु॒तमथ॒ यद॑ उप॒र्युप॑रि हो॒ष्यन्ति॑ तद्वो॒ऽविष्य॑- तीति॒ स यद॒ग्नौ जु॒होति॒ तदे॑नानवत्यथ॒ यदे॑नाननुप॒र्युप॑रि जु॒होति॒ तदे॑नानव- त्यथ॒ यद्वहि॑ष्परि॒धि स्कन्द॑ति॒ तदे॑तेषु॑ हु॒तं तस्मा॑दु ह॒ नाग-इ॑व स्क॒न्नग्ं॑ स्यादि॒- मां वै ते प्रावि॑श॒न्यद्वा॒ऽइ॒दं किं॑च॒ स्कन्द॑त्य॒स्यामे॒व तत्सर्वं॒ प्रति॑तिष्ठति ॥१६॥ स स्क॒न्नम॑भि॒मृश॑ति । भुव॑पतये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहेत्ये॒- तानि॒ वै तेषा॑म॒ग्नीनां॒ नामा॑नि॒ यद्भुव॑पति॒र्भुव॑नपतिर्भू॒तानां॒ पति॒स्तद्यथा॑ वषट्कृ॒तग्ं॑ हु॒तमे॒वम॑स्यै॒तेष्व॒ग्निषु॑ भवति ॥१७॥ तद्धैके॑ । इ॒ध्मस्यै॒वैतान्परि॒धीन्प॑रि॒दध॑ति॒ तदु॑ तथा॒ न कु॑र्याद॒नवकॢ॑प्ता ह॒ तस्यै॒ते भ॑वन्ति॒ यानि॑ध्मस्य परि॒दधा॒त्यभ्या॑धानाय॒ ह्ये- वेध्मः॑ क्रि॒यते॒ तस्यो॒ हैवैनैते॒ऽवकॢ॑प्ता भवन्ति॒ यस्यै॒तान॒न्याना॒हर॑ति॒ परि॒धय॒ऽइति॑ तस्मा॑द॒न्यानि॒वाह॑रेयुः ॥१८॥ ते वै पा॑ला॒शाः स्युः॑ । ब्रह्म॒ वै प॒लाशो॒ ब्रह्मा॒ग्नि- र॒ग्नयो॒ हि तस्मा॑त्पाला॒शाः स्युः॑ ॥१९॥ यदि॑ पाला॒शान्न वि॒न्देत् । अथो॒ऽअपि॑ वैक॑ङ्कता स्यु॒र्यदि॑ वैक॑ङ्कता॒न्न वि॒न्देदथो॒ऽअपि॑ कार्ष्मर्यम॒याः स्यु॒र्यदि॑ कार्ष्मर्यम॒यान्न वि॒न्देदथो॒ऽअपि॑ बैल्वाः॑ स्यु॒स्थो खा॑दि॒रा अथो॒ऽऔदु॑म्बरा ए॒ते हि वृ॒क्षा य॒ज्ञिया॑-