शतपथ ब्राह्मण (शुक्ल यजुर्वेद - प्रथम भाग)
Shatapatha Brahmana Part 1 - Shukla Yajurveda
महर्षि याज्ञवल्क्य / सायणभाष्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान · 1950 (उद्गम)
पृष्ठ 82, कुल 699 में से
संदर्भ में पढ़ें६४ शतपथ ब्राह्मण
नुब्रूहीति॒ तद्व तथा॒ न ब्रूयाद॒होता वाऽए॒ष पु॒रा भ॑वति॒ यद्वे॑वं वृणीतेऽथ होता॒ तस्माद् ब्रूयादग्नये॑ समिध्य॒मानायानु॑ब्रूही॒त्येव ॥ ३॥ अग्नि॒मी॒न्वाह॑ । स्व॒यै- नमे॒तद्दे॑वतया समि॒न्धे गाय॒त्रीर॒न्वाह॑ गाय॒त्रं वाऽअ॒ग्नेश्छन्द॑ः स्वेनै॒वैनमेत॒च्छन्द॑सा समि॒न्धे वीर्यं॑ गायत्री॒ ब्रह्म॑ गायत्री॒ वीर्ये॑णै॒वैनमेतत्समि॒न्धे ॥ ४॥ एका॑द॒शान्वा॑ह । एका॑दशाक्षरा॒ वै त्रि॒ष्टुब्ब्रह्म॑ गायत्री क्ष॒त्रं त्रि॒ष्टुब्देताभ्या॑मे॒वैनमेतदुभाभ्यां॑ वी॒र्याभ्याग्ं समि॒न्धे तस्मा॒देका॑द॒शान्वा॑ह ॥ ५॥ स वै त्रिः प्रथ॒मामन्वा॑ह । त्रि॒रुत्त॒मां त्रि॒वृत्प्रा- यणा हि य॒ज्ञास्त्रिवृ॒दुद॑यना॒स्तस्मा॒त्त्रिः प्रथ॒मामन्वा॑ह त्रि॒रुत्त॒माम् ॥ ६॥ ताः पञ्च॑- दश सामिधे॒न्यः संप॑द्यन्ते । पञ्चद॒शो वै व॒ज्रो वीर्यं॒ वज्रो वीर्ये॑णै॒वैतत्सामिधेनी॒र- भिसं॒पादय॑ति तस्मा॑दे॒तास्वनू॒च्यमा॑नासु॒ यं द्वि॒ष्यात्त॑म॒ङ्गुष्ठाभ्यामव॑बाधेतै॒दमह॒ममुमव॑- बबाध॒ऽइति॒ तदे॑नमे॒तेन॒ वज्रे॑णावबाधते ॥ ७॥ पञ्च॑दश वा अ॑र्धमा॒सस्य॒ रात्र॑यः । अर्धमासशो वै सं॑वत्स॒रो भव॑तीति॒ तद्रात्री॒राप्नो॑ति ॥ ८॥ पञ्चदशानामु वै गाय॒त्री- णाम् । त्रीणि॑ च शता॒नि ष॒ष्टिश्चा॒क्षरा॑णि॒ त्रीणि॑ च॒ वै शता॑नि ष॒ष्टिश्च॑ संवत्सर॒- स्याह्ना॑नि॒ तद॒ह्नान्याप्नो॑ति॒ तद्वे॒व सं॑वत्स॒रमाप्नो॑ति ॥ ९॥ स॒प्तद॑श सामिधे॒नीः । इ॒- ष्ट्याऽअनु॑ब्रूयादु॒पांशु तस्यै दे॒वता॑यै॒ यज॑ति॒ यस्या॒ऽइष्टिं॑ निर्व॑प॒ति द्वाद॑श॒ वै मा॒- साः सं॑वत्स॒रस्य॒ पञ्च॑र्तव ए॒ष ह्व प्रजाप॑तिः सप्तद॒शः सर्वं॑ वै प्र॒जाप॑तिस्तत्स॒र्वे- णैव तं काम॒मन॑पराधं॑ राध्नोति॒ यस्मै॑ कामा॒येष्टिं॑ निर्व॑पत्युपां॒शु दे॒वता॑ यज॒त्यनि॑- रुक्तं॒ वाऽउ॑पां॒शु सर्वं॒ वाऽअ॑निरु॒क्तं तत्सर्वै॑णैव॒ तं काम॒मन॑पराधं॒ राध्नो॑ति॒ यस्मै॑ कामा॒येष्टिं॑ निर्व॑पत्येष इष्टेरुपचारः ॥ १०॥ एक॑विग्ंशतिं सामिधे॒नीः । अ॒पि दर्श॑- पूर्णमासयोरनु॑ब्रूयादित्याहुर्द्वाद॑श॒ वै मा॒साः सं॑वत्स॒रस्य॒ पञ्चर्तव॒स्त्रयो॑ लो॒कास्त- द्विग्ंशतिरे॒षऽए॑कविग्ंशो॒ य ए॒ष तप॑ति तेषा गतिरे॒षा प्रति॑ष्ठा तदे॒तां गति॑मे- तां प्रति॑ष्ठां गच्छति॒ तस्मा॒देक॑विग्ंशतिमनुब्रूयात् ॥ ११॥ ता हेता गत॒यश्चैवानु॑ब्रू- यात् । य इ॒हेन्न श्रेयां॑त्स्यां न पापी॑यानिति यादृशाय ह्व सतेऽन्वा॒हुस्तादृशा-