शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 130, कुल 188 में से
संदर्भ में पढ़ेंआ०-४ ] उत्पलदेवकृतवृत्त्योपेता ११३ कथं परमार्थमात्रत्वेन शिवः, जडोऽपि कथं न परमार्थः १ ? तन्न । जडस्य सत्तैव कथं चिद्व्यक्तिं विना सिद्धा । स्फुरद्रूपता हि सत्ता । स्फुरद्रूपता च प्रकाशमानता । ततश्च जडता तावन्नास्ति । प्रकाशमानता हि प्रकाशाभेदः। प्रकाशश्चानपह्नवनीयः सर्वप्रतिष्ठारूपः परमार्थः । सर्वेषां च घटादीनां प्रकाशरूपतया विशेषाभावादेकप्रकाशात्मता, तत एवैकशिवत्वम् । एत- दीश्वरप्रत्यभिज्ञायां २ विस्तारितम् ।। मिथ्याज्ञानविकल्प्यानां सत्त्वं चिद्व्यक्तिशक्तता ॥ ७ ॥ विद्यते तत्तदत्रापि शिवत्वं केन वार्यते । इति चेदेषु सत्यत्वं स्थितमेव चिदुद्गमात् ॥ ८ ॥ तथा शिवोदयादेव भेदो मिथ्यादिकः कथम् । व्यवहाराय ३ सत्यत्वं न च वा व्यवहारगम् ॥ ९ ॥ मिथ्याज्ञानविकल्पनीयानां ४ रजतसर्पादीनां घटादीनामिव चिद्व्यक्तिशक्तिता प्रकाशमानता नाम विद्यते, तदेव सत्त्वं परमार्थत्व- मतोऽपि तच्छिवत्वम् । अनिवार्यं च एतदिष्यत एव एषु सत्यत्वं चिदभि- १ अयं भावः- यदि घटादिर्जडरूपस्तर्हि तस्याप्रकाशनात्कथं परमार्थमात्रत्वमपीति कथं जडरूपत्वेन प्रथनम् । अथ प्रकाशत इति प्रकाशमानतास्य स्फुरद्रूपता ततश्च जडत्वेनास्य केन व्यपदिश्यत इति । २ तत्र तु-- 'घटोऽयमित्यध्यवसा नामरूपातिरेकिणी । परेशशक्त्यात्मैव भासते न त्विदन्तया ।।' ३ ननु किमिदमुच्यते,- तथा यत्र सदित्येवं प्रतीतिस्तत्कथमसत् । यत्सत्तत्परमार्थो हि परमार्थ.........॥ इत्यादि, केवलं सन्मात्रत्वेऽतिप्रसङ्गः । न हि रजतादावर्थक्रिया लेशमात्रेणाप्यस्तीत्यर्थक्रियाकारित्वं सत्त्वमिति तत्र तत्र निर्णीतं, रजतादौ च मिथ्याज्ञाने काचनाप्यर्थक्रिया नास्ति । यदि च चिद्व्यक्तिशक्तताया एव घटादाविव तत्रापि प्रतिश्रूयेत तर्हि कोऽयं सम्यक्त्वमिथ्यात्वनयो लोकप्रसिद्ध इति तदेतत्समर्थयति व्यवहारायेति । ४ यथा जडस्य कथं सत्तैव चिद्- व्यक्तिं विना सिद्धा, चिद्व्यक्तौ च सत्तायां स्फुरद्रूपतायां प्रकाशमानतायां सिद्धायां प्रकाशाभेदात्सर्वप्रतिष्ठारूपपरमार्थत्वान्न जडता नाम काचनास्ति, ८