शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 131, कुल 188 में से
संदर्भ में पढ़ें११४ शिवदृष्टिः [ आ०-४ व्यक्तेः, तेन तेन रूपेण शिवस्य प्रसरोऽयं यतः । घटज्ञानरजतज्ञान- योश्च द्वयोरपि सत्यत्वे सम्यग्मिथ्यात्वभेदस्तर्हि कथम् । व्यवहाराय व्यवहारप्रयोजनोऽसौ । न च अप्ररूढत्वात्१ व्यवहारसत्यत्वं वा सत्यत्वं भवति ॥ ६ ॥ तथा२ च देशे क्वचन राजाज्ञा जायते यथा । व्यवहारोऽस्तु दीनारैरेतैरव्यवहारगैः ॥ १० ॥ प्रवर्तते तथाभूतैरन्यत्रापि तथान्यथा । राजाज्ञया कूटदीनारैरपि व्यवहारोऽस्त्येव । तथान्यत्रापि इच्छा- मात्रात् यथासंकेतं वस्तु अनपेक्ष्यैव कालव्यवस्थारम्भादिव्यवहारः ॥ व्यवहारस्य३ सत्यत्वे सर्वत्रासत्यतैव ते ॥ ११ ॥ सत्यत्वे तस्य हानिः स्यात्पक्षेऽभ्युपगते किल । यदि पुनरप्ररूढस्य व्यवहारस्यासत्यस्यापि सत्यतेष्यते, तदेवं- जातीयतया सर्वमिदं जगत्सत्यं स्यात् असत्यतापरमार्थं व्यवहार- वदित्यर्थः । तस्य जगतः परमार्थतः सत्यत्वे सत्ययं दोषो व्यवहारसदृश- सत्यतात्मकः स्यात्तव । एवं च सर्वसत्यतावादपक्षेऽभ्युदिते शास्त्रोदिते हानिः स्यात् ॥ तस्यापि४ किं शिवावाप्तिः कथमुक्ता ह्यसत्यता ॥ १२ ॥ व्यवहारतयैवास्ति सत्यत्वं न निबन्धनात् । तथा मिथ्याज्ञानविकल्पानां सत्तैव चिद्व्यक्ति विना न सिद्धा, चिद्व्यक्तौ च स्फुरत्तारूपायां सत्यां तेषामपि प्रकाशाभेदात्सर्वप्रतिष्ठारूपपरमार्थत्वान्न मिथ्यात्वं नाम किंचन संभवति । १ निश्चयेनादृढत्वात् । २ अत्र दृष्टान्त- माह तथा चेति, यदि च व्यवहारसत्यत्वेन सत्यत्वं तर्हि व्यवहारसत्यत्वे व्यवहारगैरेव दीनारैः सर्वथा व्यवहारः स्यात् अव्यवहारगैस्तु कथं, तेषाम- सत्यत्वात् । तथा च तेषामपि कदाचित्सत्यत्वे कथं व्यवहारगं सत्यत्वम- सत्यत्वं वेति न व्यवहारगेन सत्येनासत्येन वार्थक्रियाकारित्वमित्यर्थः । ३ अत्रातिप्रसङ्गमाह व्यवहारस्येत्यादिना । ४ ननु व्यवहारासत्यत्वं यदि चिद्व्यक्तिं विना सेत्स्यति तदा तदसत्यमेवास्तु यतस्तदपि चिद्व्यक्तिं विना न सिद्ध्यतीति कथमसत्यत्वं तत्र, यदि च चिद्व्यक्तिस्तत्र नास्ति तर्हि कथमसत्यत्वमित्याशङ्क्याह तस्यापीति ।