भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 70, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 70

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५३ देशकालभिन्नार्थग्राहीणि भिन्नान्येव ज्ञानानि सा पश्यन्ती, तेषु¹ साधारणमेकं तादृक्सर्वतज्ज्ञानप्रपञ्चनव्यापारक्षमं किंचनानियतं² परि- दृश्यमाननीलपीतादिनियतज्ञानोत्तरमस्ति, तत्पश्यति सर्वं पश्यन्तीत्यर्थः । तथापि³ असाधारणनीलादिनियतज्ञानानां भेदात् तस्यापि भेदता भिद्यमानता स्यात्, न तु सामान्यता तेभ्यस्तस्याभेदात्⁴ । तथा⁵ च सति न किंचनानागतादि गृहीतं स्यात्, अनागतार्थज्ञानाविभिन्ना पश्यन्ती तदानीमेव तं ग्रहीष्यतीति । अथवा⁶ नीलपीतादिज्ञानवत् भेदता अस्याः पश्यन्त्याः, तस्या अपि नीलादिकभविष्यद्वर्तमानार्थशबलीकृतत्वात् । अथ तस्या न भविष्यदादिशबलता, अपि तु बोधमात्ररूपत्वेनाविभेद एव, ततस्तदभेदतो न किंचन नीलादि तथा गृहीतं, ततः कथं⁷ पश्यन्ती स्यादिति । अथान्या लक्षणान्तरभेदिता तैः⁸ पश्यन्ती संहृतक्रमेति ॥ ४६ ॥ संहृतः क्रम इत्यस्यां संहर्ता¹⁰ जायते परः । यया क्रमः संहृतो वा किमात्मन्यपरत्र¹¹ वा ॥ ५० ॥ १ भिन्नज्ञानेषु । २ विशिष्टत्वाभावाद्यपदेशानर्हम् । ३ तथापीति, भव- त्वेतत्साधारणमेव किंचन सर्वं सहं व्यापकं च अत्र पश्यन्तीस्वरूपनिरूपणमेव सर्वथा संपाद्यं, तच्च कर्मसापेक्षत्वादवश्यं स्वसिद्धये कर्म दृश्यरूपमाक्षिपति, तस्यां हि विशेषरूपत्वेनैव दर्शनसंभवात्तेषामित्यर्थः । ४ तेभ्यो विशेषेभ्यः, तस्य सामान्यस्य । ५ तदभेदत इत्यर्थभागं विवृणोति तथातेति । अयं भावः--विशिष्टज्ञानोदये यदि सा साधारणी तर्हि तदभेदतो विशिष्ट- ज्ञानोदयेऽप्यतीतानागतादिविशेषाभावात्, ततश्च नानागतावेक्षणमिति किमत्र दृश्यं नामेति । ६ 'तथापि तद्भेदेन' इत्यादि 'नकिंचन गृहीतं स्यात्' इत्यन्तं द्वितीयार्थेन संगमयति अथवेत्यादिना । ७ कर्माभावादित्यर्थः । ८ शब्दब्रह्मवादिभिः । ९ ननु च पश्यन्ती संहृतक्रमेति ह्यास्याः क्रमसंहार एव निर्विभागत्वे हेतुः, ततश्च केयं कल्पना नीलादिविशिष्टनियतासाधारणज्ञानानां भेदात् तस्या अपि भेदतेति तन्निर्दलयितुमाह । १० त्रितयाधीनं हि संहरणं कर्तृकरणाधिकरणेष्विति तदेव क्रमेणामाह संहर्तेति । केनेत्यपेक्षयावश्यं परेण भाव्यम् । ११ कस्मिन्नित्यपेक्षायाम् ।