शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 71, कुल 188 में से
संदर्भ में पढ़ें५४ शिवदृष्टिः [ आ०-२ आत्मनः सक्रमत्वं स्यादन्यत्रापरसंगमः । किं पूर्वं सक्रमाभूत्सा रूपद्वित्वं प्रसज्यते ॥ ५१ ॥ संहृतः क्रमोऽस्यामिति । एवमितिशब्दो भिन्नक्रमो योज्यः१। एवं यदि सप्तम्यर्थे पश्यन्त्यात्मनि बहुव्रीहिस्तदा संहर्तान्योऽर्थोऽपेक्षणीयोऽत्रेति व्याहतम्२ । अथवा तृतीयार्थे३ यया क्रमः संहृतः पश्यन्त्या सा तथा । एवं चाधिकरणापेक्षायां किमात्मनि संहृतोऽथापरत्रेति विकल्पः । तथा- त्मनि क्रमस्य संहरणे योजने सति तस्य सक्रमत्वं स्यात् । अथान्यत्र, तद्- द्वितीयवस्तुसंबन्धः ततश्च द्वैतापत्तिः । अथात्मन्येव पूर्वं सक्रमया भूतया पश्चात् क्रमः संहृतो निवारितो नत्वन्यत्र द्वैतापत्तेः, तथापि तस्याः सक्रमा- क्रमरूपद्वित्वप्रसङ्गः ॥ ५१ ॥ ‘अविभागा कथं सा स्याद्यतः पश्यन्त्यसौ स्मृता ।’ इत्यत्र पश्यन्तीत्वादेव दर्शनक्रियाकरणापेक्षया निर्विभागत्वं दूषितं समर्थ्यमानं परेणाशङ्कते४— अथात्मना सा स्वात्मानं पश्यन्ती निर्विभागशः । भागे करणरूपत्वात्पारतन्त्र्यं जडात्मता ॥ ५२ ॥ आत्मनेवात्मानमेव च पश्यन्ती सा स्थिता निर्विभागशः विशिष्टा- दत्यन्तपृथग्भूताद्भागान्निष्क्रान्ता कर्मकरणादिशक्तिमात्रेण स्थितेत्यर्थः । तत्रापि भागे द्वितीये कारकवशक्त्यात्मनि करणादिरूपत्वात् तस्या एव पारतन्त्र्यं जडता च प्राप्नोति स्वातन्त्र्यादेव चिद्रूपस्येति । एतदीश्वर- प्रत्यभिज्ञायां परीक्ष्यम् ॥ ५२ ॥ पर आह— आत्मानमात्मना हन्ति देवदत्तो यथा तथा । भविष्यत्यत्र तत्रास्य स्वांगैरेव विभागिता ॥ ५३ ॥ हस्तादेः करणत्वं हि मस्तकादेश्च कर्मता । कर्ता मनःस्वावयवी नामूर्ताया इदं पुनः ॥ ५४ ॥ १ अस्यामित्यनन्तरं योज्यः । २ स्ववचनविरोधो व्याघातः । ३ तृतीयार्थे बहुव्रीह्याश्रयणे । ४ निर्विभागत्वमविभागेत्यादिना दूषितं ‘पश्यन्तीत्वमेव तत् यत्स्वयमेव कर्मकरणादिरूपत्वम्' इति परेण समर्थ्य- मानमाशङ्कते ।