भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 72, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 72

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता। ५५ देवदत्तात्मनि यथा कर्मादिभेदस्तथात्र स्यात्, —इत्येतन्न, देवदत्तस्य मूर्तत्वेन वितताकारस्य स्वाङ्गैरैव बहुभिरुपगृहीतात्मशब्दाभिधायकै- विभागः। तथाहि हस्तस्यान्यस्य वावयवस्य शस्त्रादियुजः करणता, मस्त- कस्य हृदयादेर्वा हन्यमानस्य कर्मता, कर्ता मनोयुक्तः स्व आत्मा स एव हस्तादिसंबद्धोऽवयवीत्युक्तो यत एव तावत्यात्मभावः। पश्यन्त्याः पुन- श्चिन्मात्ररूपत्वेनामूर्तया वैतत्याभावात्रावयवापेक्षोऽयं व्यवहारः, ततस्तस्या एव भागे करणादित्वेन जडतापत्तिरेव ॥ ५४ ॥ पश्यन्त्यदृष्टमात्मानं१ दृष्टं वा दृष्टता२ कथम् । पश्यन्त्या दर्शनं दृष्टे३ न च वा ह्युपपद्यते ॥ ५५ ॥ आत्मानं च पश्यन्ती किमदृष्टपूर्वं पश्यति अथ दृष्टम् ? तद्द्वयमपि न युक्तं यतः पश्यन्त्याः प्रकाशरूपाया अदृष्टत्वमप्रकाशता४ नैव, दृष्टे५ चात्मनि न पुनः दर्शनक्रियाप्रवृत्तिर्युक्ता६। न७ च पश्यन्त्या आत्मा प्रति- क्षणमन्यो येन प्रतिक्षणमेव दर्शनक्रियाया उपयोगेन वर्तमानता स्यात्, नापि८ तस्या आत्मनो दिक्कालावच्छेदः ॥ ५५ ॥ पश्यन्तं९ सा किमात्मानं पश्यन्ती जडमेव वा । जडे जडत्वमेवास्याः पश्यतो ह्यनवस्थता ॥ ५६ ॥ १ तदेवं ‘अथात्मना सा स्वात्मानम्’ इत्यत्रात्मनेति भागे पारतन्त्र्या- ज्जडतामुपपाद्य आत्मानमिति कर्मभागं विकल्पति। आत्मानमिति निजमेव स्वरूपं कर्मरूपशक्तिमात्रेण स्थितं पश्यन्ती कर्तृरूपशक्तिस्थिता पश्यति येन दर्शनक्रियार्थोऽस्याः घटते। अत्र पश्यन्त्या इति देहलीदीपन्यायेनोभयत्रापि योज्यम्। तत्र पश्यन्त्या दर्शनं दृष्टता तत्कर्मिकेत्यर्थः, द्वितीये पुनः पश्यन्त्या दर्शनं पश्यन्तीकर्तृकमित्यर्थः। २ निजरूपस्यैव कर्मशक्तिरूपत्वाद्दृष्टता दर्शन- क्रियाराहित्यमप्रकाशत्वं कथमित्यर्थः। ३ प्रकाशिते। ‘च वा’ शब्दावत्रानुक्त- समुच्चयार्थौ। ४ अदृष्ट एव हि दर्शनं युक्तं, अदृष्टत्वं च पश्यन्त्या अयुक्तं पश्यन्तीत्वात्। ५ अथ दृष्टतैव पश्यन्त्युपरोधादित्याशङ्क्याह दृष्ट इति। ६ अनवस्था हि तथा स्यात्। ७ च शब्दसूचितमनुक्तसमुच्चयार्थत्वं चाह तच्च यदुक्तं ‘वर्तमानसमारूढा’ इति तं वर्तमानभागमपि विकल्पयति न चेति। ८ वाशब्दसमुच्चितमाह—नापीति। ९ पूर्वश्लोके दृष्टता दर्शन- क्रियायोग्यता, सा च स्वयमचैतन्येऽपि संभवति, इह पुनश्चैतन्यमेवोपौद्-

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक) · पृष्ठ 72, कुल 188 में से · BharatKosha