षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 12, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णः। प्रास्ताविकम् । श्रीमद्गोस्वामिकुलकौस्तुभविद्वद्रत्नश्रीव्रजरत्नलालजीमहाराजचरणसंस्थापितायाः श्रीबाल- कृष्णशुद्धाद्वैतमहासदसो मुद्रणकार्ये प्रचलति, यस्मिन् षोडशग्रन्थानां मध्येऽस्माभिर्विवेकधैर्याश्र- यान्तःकरणप्रबोधबालबोधान्तास्त्रयो ग्रन्थाः प्रकाशिताश्चतुर्थं चरममिदमिदानीं श्रीयमुनाष्टकं सटीकं प्रदाय षोडशग्रन्थान् सम्पूर्णीकुर्वतां प्रमोन्दन्ते नश्चेतांसि । सुविदितमेतद्यत् षोडशग्रन्थानां यावल्लभ्यटीकासमेतं मुद्रणकार्यमन्तिमग्रन्थसेवाफलत एवारब्धं सम्प्रदायविद्भिरिस्तेलीवालामहा- शयैः, तदिदं प्रथमे श्रीयमुनाष्टके एव विश्रान्तिमर्हति । भगवदिच्छापि तथैवासीत् । येन सर्वेभ्यः प्रागेवास्य मुद्रणे समारब्धेपि गो. श्रीद्वारकेशचरणटीकाया अनुपलब्धिवशात् महान् विलम्बो- भूत् । तां टीकामन्वेष्टुमस्माभिर्बहुयतितम् । सर्वसाहाय्यवितरणपरायणैः श्रीव्रजरत्नलालचरणैरपि कोटा-काशी-नाथद्वारा-मोहमयीस्थानि पुस्तकालयानि गवेषितानि, तदानीं काशीसङ्ग्रहात् पत्रद्व- यमेवासादितमस्याः । तदपि पुष्टिकल्पतरुत्रैमासिके प्रकाशितम् । अहं तु भगवदिच्छायाः प्राब- ल्यमवधार्य तत्परायणः सन् चातकव्रतमवलम्ब्य उपाविशम् । अन्तरा षोडशग्रन्थानां साररूपः सङ्गत्यात्मकश्चैको विस्तीर्णलेखो यमुनाष्टकारम्भे देय इति आवरणभङ्गषोडशग्रन्थटीकादेर्मया उद्धृत्य सज्जीकृतः । परं यमुनाष्टकस्य महर्घं स्यादिति भयेन तदभिनिवेशं परित्यज्य तं स्वतन्त्रतयान्यत्र दास्याम इत्येवावधारितम् । एकदाकेन विदुषा श्रीयमुनाष्टकस्य प्राकट्ये को विलम्ब ? इति पृष्टोऽहं टीकानुपलब्धेरेव कारणत्वेनावोचम् । 'स्वपार्श्वे विराजते टीकेयम्'इत्य- भिधाय स श्रीद्वारकेशचरणप्रणीतां स्वहस्ताक्षरैर्लिखितां शुद्धां टीकामंददाद् इति, मया तु बहुधन्यवादाः प्रदत्ताः । श्रीयमुनाष्टकस्य मूलव्याख्यानं षष्ठश्लोकपर्यन्तं श्रीप्रभुचरणानामग्रे तदाज्ञाप्तश्रीगोकुलनाथचरणैर्विलिख्य श्रीपितृचरणेभ्यो निवेदितमिति प्राचीना आहुः । तस्य त्रीणि विवरणानि, श्रीहरिरायचरणानां श्रीपुरुषोत्तमचरणानां श्रीद्वारकेशचरणानां विवृतिटि- प्पणं विवृतिविवरणं टीकाटिप्पणमिति क्रमशोत्र प्रकाशितानि । टीकाकृतां मध्ये श्रीहरिराय- श्रीपुरुषोत्तमचरणानां चरितं बहुधा गीतं सम्प्रदायज्ञैरिति नात्र तत्पुनरुक्तिं समीहे । परं क एते श्रीद्वारकेशचरणाः प्राचीना वार्वाचीना इति शङ्कते लोकः, गो० श्रीमधुरानाथानां सूनवः श्रीद्वार- केशचरणाः सं० १८४३तमेऽब्दे प्रादुर्भूताः । स्वीयां गङ्गामातरपि ग्रन्थारम्भे प्रणमन्ति, एवं “द्वारकेशं गिरिवरं मथुरानाथसञ्ज्ञकम्” इति स्वपितृचरणान् स्मरन्ति च । तत्र श्रीद्वारकेश- चरणाः १७७४तमेऽब्दे श्रीगिरिधरचरणाः १८०३तमेऽब्दे श्रीमथुरानाथाः सं० १८२९- तमेऽब्दे प्रादुर्भूताः । तैश्चतुःश्लोकीसिद्धान्तमुक्तावलीग्रन्थानां विहिता विवृतयः । श्रीयमुना- ष्टकारम्भे षोडशग्रन्थानां सङ्गतिं कुर्वद्भिस्तैः सर्वेषामेव विवरणं कर्तुं प्रतिज्ञातम् । अत एवान्यपि विवरणानि स्युरपि, परं न प्रसिद्धानि । बालबोधविवरणस्य प्रणेतारो गो० श्रीद्वारकेशचरणास्तु प्राचीनाः सुप्रसिद्धा एव । अस्य श्रीयमुनाष्टकस्य गुर्जरानुवादः 'सूरत सीटी' मुद्रणालये सम्मुद्रितः । तस्य पुष्टिक- ल्पतरुवाचकेभ्यो वितरणं कृतम्। पुनः प्रतापमुद्रणालये सम्मुद्रितोनुवादः, पृथग् ग्रन्थरूपो यः शु० महासदसः कार्यालयेतो मूल्येनोपलभ्यते । एवं ग्रन्थान्वेषणादिविहायाससाध्यं कार्यं श्रीमदाचार्य- चरणकृपयैव सुनिष्पन्नमिति एतेषां चरणकमलेषु विनिवेद्यते । अस्य मुद्रणव्ययस्तु अधिकः सञ्जातः, परं सार्धशतमेव नगरठट्ठावासिना श्रेष्ठिना प्रदत्तम् इति मुखपृष्ठोपरि अभिधानं निवेशितं तस्य । श्रावणशुक्लैकादशी सं० १९८५ } भवदीयः चीमनशास्त्री.