भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

श्रीकृष्णः। प्रास्ताविकम् । श्रीमद्गोस्वामिकुलकौस्तुभविद्वद्रत्नश्रीव्रजरत्नलालजीमहाराजचरणसंस्थापितायाः श्रीबाल- कृष्णशुद्धाद्वैतमहासदसो मुद्रणकार्ये प्रचलति, यस्मिन् षोडशग्रन्थानां मध्येऽस्माभिर्विवेकधैर्याश्र- यान्तःकरणप्रबोधबालबोधान्तास्त्रयो ग्रन्थाः प्रकाशिताश्चतुर्थं चरममिदमिदानीं श्रीयमुनाष्टकं सटीकं प्रदाय षोडशग्रन्थान् सम्पूर्णीकुर्वतां प्रमोन्दन्ते नश्चेतांसि । सुविदितमेतद्यत् षोडशग्रन्थानां यावल्लभ्यटीकासमेतं मुद्रणकार्यमन्तिमग्रन्थसेवाफलत एवारब्धं सम्प्रदायविद्भिरिस्तेलीवालामहा- शयैः, तदिदं प्रथमे श्रीयमुनाष्टके एव विश्रान्तिमर्हति । भगवदिच्छापि तथैवासीत् । येन सर्वेभ्यः प्रागेवास्य मुद्रणे समारब्धेपि गो. श्रीद्वारकेशचरणटीकाया अनुपलब्धिवशात् महान् विलम्बो- भूत् । तां टीकामन्वेष्टुमस्माभिर्बहुयतितम् । सर्वसाहाय्यवितरणपरायणैः श्रीव्रजरत्नलालचरणैरपि कोटा-काशी-नाथद्वारा-मोहमयीस्थानि पुस्तकालयानि गवेषितानि, तदानीं काशीसङ्ग्रहात् पत्रद्व- यमेवासादितमस्याः । तदपि पुष्टिकल्पतरुत्रैमासिके प्रकाशितम् । अहं तु भगवदिच्छायाः प्राब- ल्यमवधार्य तत्परायणः सन् चातकव्रतमवलम्ब्य उपाविशम् । अन्तरा षोडशग्रन्थानां साररूपः सङ्गत्यात्मकश्चैको विस्तीर्णलेखो यमुनाष्टकारम्भे देय इति आवरणभङ्गषोडशग्रन्थटीकादेर्मया उद्धृत्य सज्जीकृतः । परं यमुनाष्टकस्य महर्घं स्यादिति भयेन तदभिनिवेशं परित्यज्य तं स्वतन्त्रतयान्यत्र दास्याम इत्येवावधारितम् । एकदाकेन विदुषा श्रीयमुनाष्टकस्य प्राकट्ये को विलम्ब ? इति पृष्टोऽहं टीकानुपलब्धेरेव कारणत्वेनावोचम् । 'स्वपार्श्वे विराजते टीकेयम्'इत्य- भिधाय स श्रीद्वारकेशचरणप्रणीतां स्वहस्ताक्षरैर्लिखितां शुद्धां टीकामंददाद् इति, मया तु बहुधन्यवादाः प्रदत्ताः । श्रीयमुनाष्टकस्य मूलव्याख्यानं षष्ठश्लोकपर्यन्तं श्रीप्रभुचरणानामग्रे तदाज्ञाप्तश्रीगोकुलनाथचरणैर्विलिख्य श्रीपितृचरणेभ्यो निवेदितमिति प्राचीना आहुः । तस्य त्रीणि विवरणानि, श्रीहरिरायचरणानां श्रीपुरुषोत्तमचरणानां श्रीद्वारकेशचरणानां विवृतिटि- प्पणं विवृतिविवरणं टीकाटिप्पणमिति क्रमशोत्र प्रकाशितानि । टीकाकृतां मध्ये श्रीहरिराय- श्रीपुरुषोत्तमचरणानां चरितं बहुधा गीतं सम्प्रदायज्ञैरिति नात्र तत्पुनरुक्तिं समीहे । परं क एते श्रीद्वारकेशचरणाः प्राचीना वार्वाचीना इति शङ्कते लोकः, गो० श्रीमधुरानाथानां सूनवः श्रीद्वार- केशचरणाः सं० १८४३तमेऽब्दे प्रादुर्भूताः । स्वीयां गङ्गामातरपि ग्रन्थारम्भे प्रणमन्ति, एवं “द्वारकेशं गिरिवरं मथुरानाथसञ्ज्ञकम्” इति स्वपितृचरणान् स्मरन्ति च । तत्र श्रीद्वारकेश- चरणाः १७७४तमेऽब्दे श्रीगिरिधरचरणाः १८०३तमेऽब्दे श्रीमथुरानाथाः सं० १८२९- तमेऽब्दे प्रादुर्भूताः । तैश्चतुःश्लोकीसिद्धान्तमुक्तावलीग्रन्थानां विहिता विवृतयः । श्रीयमुना- ष्टकारम्भे षोडशग्रन्थानां सङ्गतिं कुर्वद्भिस्तैः सर्वेषामेव विवरणं कर्तुं प्रतिज्ञातम् । अत एवान्यपि विवरणानि स्युरपि, परं न प्रसिद्धानि । बालबोधविवरणस्य प्रणेतारो गो० श्रीद्वारकेशचरणास्तु प्राचीनाः सुप्रसिद्धा एव । अस्य श्रीयमुनाष्टकस्य गुर्जरानुवादः 'सूरत सीटी' मुद्रणालये सम्मुद्रितः । तस्य पुष्टिक- ल्पतरुवाचकेभ्यो वितरणं कृतम्। पुनः प्रतापमुद्रणालये सम्मुद्रितोनुवादः, पृथग् ग्रन्थरूपो यः शु० महासदसः कार्यालयेतो मूल्येनोपलभ्यते । एवं ग्रन्थान्वेषणादिविहायाससाध्यं कार्यं श्रीमदाचार्य- चरणकृपयैव सुनिष्पन्नमिति एतेषां चरणकमलेषु विनिवेद्यते । अस्य मुद्रणव्ययस्तु अधिकः सञ्जातः, परं सार्धशतमेव नगरठट्ठावासिना श्रेष्ठिना प्रदत्तम् इति मुखपृष्ठोपरि अभिधानं निवेशितं तस्य । श्रावणशुक्लैकादशी सं० १९८५ } भवदीयः चीमनशास्त्री.

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं श्रीयमुनाष्टकम् । मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् । तटस्थनवकाननप्रकटमोदपुष्पाम्बुना सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता । सघोषगतिदन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्धिनी जयति पद्मबन्धोः सुता ॥ २ ॥ भुवं भुवनपावनीमधिगतामनेकस्वनैः प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरङ्गभुजकङ्कणप्रकटमुक्तिकवालुका- नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥ अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते घनाघननिभे सदा ध्रुवपराशराभीष्टदे । विशुद्धमथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥ यया चरणपद्मजा मुररिपोः प्रियमभावुका समागमनतो भवत्सकलसिद्धिदा सेवताम् ।

तया सदृशतामियात्कमलजा सपत्नीव य- द्धरिप्रियकलिन्दया मनसि मे सदा स्थीयताम् ॥ ५ ॥ नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं न जातु यमयातना भवति ते पयःपानतः । यमोऽपि भगिनीसुतान्कथमु हन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६ ॥ ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमां गतिर्मुररिपौ मुकुन्दप्रिये । अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात् तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितेः ॥७॥ स्तुतिं तव करोति कः कमलजासपत्निप्रिये हरेर्यदनुसेवया भवति सौख्यमामोक्षतः । इयं तव कथाऽधिका सकलगोपिकासङ्गम- स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥ तवाऽष्टकमिदं मुदा पठति सूरसूते सदा- समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥ श्रीमद्वैश्वानरावतारश्रीमद्वल्लभाचार्यचरणविरचितं श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ग...दूनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं श्रीयमुनाष्टकम् । श्रीमत्प्रभुचरणविनिर्मितया विवृत्या, श्रीहरिरायचरणप्रणीतेन टिप्पणेन, श्रीपुरुषोत्तमचरणप्रणीतया श्रीप्रभुचरणविवृतिविवृत्या च समनुगतम् । मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा श्रीमत्प्रभुचरणविनिर्मिता विवृत्तिः । विश्वोद्धारार्थमेवाऽऽविर्भूतवृन्दावनप्रिया । कृपयन्तु सदा तातचरणा मयि विठ्ठले ।॥ श्रीहरिरायप्रणीतं श्रीप्रभुचरणविवृतिटिप्पणम् । श्रीकृष्णाय नमः । अथ श्रीमत्प्रभुचरणाः श्रीयमुनाष्टकविवृतिं विरचयन्तः प्रथमाचार्यवर्यस्वरूपमेतत्सजातीयधर्मवत्त्वेन निरूपयन्तः स्वास्मिंस्तत्कृतिकृतिशक्ति- सिद्धये तत्कृपां प्रार्थयन्ति विश्वोद्धारार्थमिति । प्राक्तव्यप्रयोजनकम् । अत्र विश्वपदं सर्ववाचकम् । तदपि सङ्कुचितवृत्ति । "सर्वे ब्राह्मणा भोजयितव्याः" इतिवत् । श्रीपुरुषोत्तमप्रणीता श्रीप्रभुचरणविवृतिविवृतिः । श्रीमद्वल्लभनन्दन दासेऽस्मिन् कृपय साधनैः शून्ये । श्रीयमुनाष्टकविवृतिं विवरीतुं काङ्क्षते यतः करुणां ॥ १ ॥ अथ श्रीमत्प्रभुचरणाः श्रीमदाचार्याणां स्वस्य चाऽवतारप्रयोजनं तत्र श्रीयमुनाया निर्वाहकत्वादष्टककरणं चाऽनुसन्धाय श्रीयमुनाष्टकविवृतिं विरचयिषव- स्तत्साफल्याय श्रीमदाचार्यान् प्रार्थयन्ति विश्वोद्धारार्थमिति । विश्वोद्धारार्थं

२ श्रीयमुनाष्टकम् । श्रीहरिरायप्रणीतं टिप्पणम् । तथा च, पुष्टिमार्गाङ्गीकृतानामेव जीवानामत्रोद्धार इति ज्ञेयम् । अयं च पुष्टिप्रभोः श्रीयमुनायाः श्रीमदाचार्यचरणानां च समानो धर्मः । भगवता व्रजस्थानां श्रीयमु- नया अपि प्रभुसम्बन्धसम्पादनेन प्रभुप्राकट्यकरणेन च तासामेवाऽस्मत्स्वामिभि- रपि तथाविधानामिदानीन्तनानामुद्धारात् । विशेषस्त्वेतावानेव । भगवता श्रीयमु- नया च लीलास्सृष्टिस्थानामेव तथाकरणम् । इदानीन्तनानां प्रभुपारोक्ष्येऽस्मत्प्रभु- भिरिति । एवं च सति त्रयाणां सजातीयधर्मवत्त्वे च सिद्धम् । भगवान् विरहं दत्वा भाववृद्धिं करोति हि । तथैव यमुना स्वामिस्मरणात्स्वीयदर्शनात् ॥ १ ॥ अस्मदाचार्यवर्यास्तु ब्रह्मसम्बन्धकारणात् । तापक्लेशप्रदानेन निजानां भाववर्द्धकाः ॥ २ ॥ उद्धारोऽत्र भगवदासक्तिसम्पादनेन प्रपञ्चात्पृथक्करणम् । तेन सर्वात्मभावदानमेव स इति बोध्यम् । एवकारोऽत्र प्रयोजनान्तराभावाय । एतेन मायावादखण्डनब्रह्मवा- दस्थापनकर्ममार्गप्रवर्त्तनादिकमानुषङ्गिकमिति सूचितम् । स्वरूपमाहुः—आविर्भू- तेति । आविर्भूतो व्रजजनहृदयेभ्यो लीलाकरणार्थं यो वृन्दावनप्रियः सदानन्दस्त- द्रूपास्त इत्यर्थः । यथा भगवान् लीलाप्राकट्यायैव रसात्माऽऽविर्भूतस्तथैतेऽपि श्रीभाग- वतविवृतिप्रकटीकरणेन तत्प्राकट्यार्थमेवाऽऽविर्भूता इति भावः । अथवा, वृन्दावनमेव प्रियं यासाम्, भगवद्विरहे तदर्थमपि तदपरित्यागात् । ताः स्वामिन्यः । आविर्भूताश्च तास्तथाभूताः, ता एवैत इत्यर्थः । स्वामिनीभावेन प्राकट्यदशायां सेवादिकरणा- श्रीपुरुषोत्तमप्रणीता विवृत्तिः। सदैव, सदैव तदर्थं वा, सदा तदर्थमेव वा, कृपयन्विति सम्बन्धः । एतेन स्वस्य तदुद्योगस्तदावश्यकत्वं कृपालुत्वं च बोधितम् । तथाच कृपयाऽष्टकविवृतिभ्यां तं कुर्वन्तु कारयन्तु चेति भावः । श्रीमदाचार्यावतारप्रयोजनं तु—'अर्थ तस्ये'ति श्लोकेन 'सर्वोद्धारप्रयत्नात्मे'त्यादिसन्दर्भेण च स्वयमेव ज्ञापितम् । तदत्र 'विश्वोद्धारा- र्थमेवाऽऽविर्भूते'ति पदसमभिव्याहारेण बोधितम् । स्वावतारप्रयोजनं तु स्वनाम्ना, विदा ज्ञानेन ठाः शून्यास्तान् लात्यनुगृह्णातीति तदर्थात् । पदनिरुक्तिस्तु—विदा इत्यत्र विभक्तिलोपे चर्त्वे ष्टुत्वे च कृते 'चयो द्वितीयाः शरि पौष्करसादेरि'ति वार्त्ति- कात्ष्टस्य ठत्वम् । 'पौष्करसादेर्मते शर्येव अन्येषां मते त्वन्यत्राऽपी'ति कृष्णपण्डितै- र्विस्तरेण व्याख्यानात् । यदि च नवीनमतमालम्ब्येदं नाऽऽद्रियेत तदा तु— १ भगवदास्यरूपस्य आचार्यरूपेण इति विशेषः । अ.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३ श्रीहरिरायप्रणीतं टिप्पणम् । तद्भावभावनेन च तद्रूपत्वमिति भावः । वस्तुतो भावात्मा भगवान्, 'रसो वै सः' इति श्रुतेः। तदास्रूपत्वादेतेऽपि तथा। तथा श्रीममुनाऽपि द्रवीभूतरसात्मकतत्स्वरूपत्वेन । तत्र यथा भगवतीव श्रीममुनायामपि स्वामिनीभावेन स्त्रीरूपत्वं, तेन च तत्र सर्वाऽपि भगवल्लीला, भगवद्भावेन च भगवत्त्वं, विरहे भगवत्स्वरूपतद्दर्शनेन स्वामिनीसुखाय, तथाऽत्राऽपि प्राकट्यदशायां स्वामिनीभावेन सेवादिकृतौ तद्रूपत्वं, भगवद्भावेन भग- वद्रूपत्वं, विरहे तासामन्तरास्थ्यप्राकट्येन स्वरूपसम्बन्धिसुखदानायेति बोध्यम्। अत एवोक्तं श्रीवल्लभाष्टके—” यत्सादानन्ददं श्रीव्रजजननिचय' इति । यद्वा । आवि- र्भूतं स्वस्वहृदयेभ्यो बहिःप्रकटीभूतं यद्वृन्दावनं तत्प्रियं यासाम् । अन्तःस्थितावपि बहिःप्राकट्यस्यैवाऽभिलषितत्वात् । अत एव 'वृन्दावनं सखि भुवो वितनोति कीर्तिम्' (१०-२१-१०) इति ताभिर्गीतं।तथाच तादृक्तद्रूपत्वादस्मत्प्रभवोऽपि लीलाविष्करणा- भिलाषिण इति ज्ञेयम् । तातचरणा इति सम्बन्धिनिरूपणं तु पुष्टिमार्गीयाचार्य- करुणासिद्धिर्यथाकथञ्चित्सम्बन्धसिद्ध्यैव भवति न त्वन्यसाधनैरिति बोधनाय । देहेन भावतो वाऽपि सम्बन्धः फलसाधकः । पुष्टिमार्गे नाऽतिरिक्तं साधनं साधकं ततः ॥ १ ॥ नायमात्मेत्युपनिषन्निषेधति यतोऽखिलम् । नन्दादयो देहजेन प्रादुर्भावेन गोपिकाः ॥ २ ॥ मयीति तत्कृपायोग्यत्वबोधनाय । सर्वसाधनराहित्येन केवलं तदीयत्वाद् अत एवैकवचनम्, अत एव सप्तश्लोक्यां 'तनोतु निजदासस्य सौभाग्यम्'इति श्रीपुरुषोत्तम प्रणीता विवृतिः। 'पररूपं तकारो लचटवर्गेषु'—तकारः पदान्तो लचटवर्गेषु परे पररूपमापद्यते— इति कौमारसूत्रात् । आवश्यकत्वमपि विवृतेरेतेनैव ध्वनितम् । आविर्भूतवृन्दा- वनप्रिया इति । अत्र वृन्दावनस्य प्रियः, वृन्दावनं प्रियं यस्येति वा वृन्दावनप्रियः, आविर्भूतश्चाऽसौ स च आविर्भूतवृन्दावनप्रिय इति तत्पुरुषबहुव्रीह्यन्यतरगर्भः कर्म- धारयः । तथाच तदभिन्ना इत्यर्थः । अत्र भगवत्पक्षे अभेदो वास्तवः । 'वस्तुतः कृष्ण एवे'त्याद्युक्तेः । व्रजभक्तपक्षे तद्भाववत्त्वकृतसारूप्यनिबन्धनः । 'तत्सार- भूते'ति नामनिर्देशात् । तातचरणा इत्यत्र चरणपदं बहुवचनं च पूजार्थम् । 'जीवत्सु तातपादेषु', 'मुद्रे ब्रूहि सलक्ष्मणाः कुशलिनः श्रीरामपादा' इत्यादि- प्रयोगदर्शनात्, 'एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे' इति वाक्याच्च 'जात्या-


१ तासामन्तरा स्वप्राकट्येनेति ग. २ तादृग्रूपत्वादिति ग.घ. ३ तन्मयत्वादिति ग-घ.

४ श्रीयमुनाष्टकम्। विविधलीलोपयोगिनीं कालिन्दीं स्तोतुकामाः श्रीगोकुलेशे यथा जीवै- र्नमनातिरिक्तं न कर्तुं शक्यं, तथा कालिन्द्यामपीत्याशयेनाऽऽदौ नमनमे- श्रीहरिरायप्रणीतं टिप्पणम् । प्रार्थना । विट्ठल इति नामग्रहणं नाम्नाऽपि तद्योग्यताद्योतनाय । ज्ञानशून्यानु- ग्राहकत्वं हि नामार्थः । तस्य चाऽऽचार्यकरुणामन्तरेणासिद्धेस्तत्कृपयैव सामर्थ्य- रूपया तादृशजनानुग्राहकत्वसिद्धिः । तदर्थमाचार्यचरणानामेव प्रभुणाऽऽविर्भावित- त्वात् । अस्मिन्मार्गे कृपैव साधनं फलं चेति बोधनाय कृपयन्वित्यभिहितम् । इदं साधनफलरूपत्वञ्च 'कृपयायुक्तस्य तु यथा सिद्धयेदि'ति 'कृपानन्दः सुदुर्लभ' इति निबन्धतिरोधलक्षणग्रन्थीयवाक्याभ्यामवमन्तव्यम् । एवमेकेन पद्येन प्रभुभिः स्वाभीष्टप्रार्थनाप्रसङ्गेन निजाचार्यस्वरूपं निरूपितम् । विविधलीलोपयोगिनीमिति । आचार्यचरणानां हि प्रभुलीलासम्बन्धो- ऽभिलषितः । अत एवाऽग्रे तनुनवत्वप्रार्थनम् । स च तादृक्तत्सम्बन्धिपरितोषणेन भवति । तच्च यथास्थितरूपनिरूपणेन स्तुत्येति श्रीयमुनाया लीलासम्बन्धित्वबोध- नाय विविधलीलोपयोगिनीमित्युक्तम् । विविधाः स्वरूपगुणभेदेन सर्वात्मभाव- कामभावादिभेदेन^१ शास्त्रीयाशास्त्रीयप्रकाराभ्यां नानाप्रकारा या भगवतः स्वामि- नीभिः सह लीलास्तासु अलौकिकशरीरसम्पादकत्वेन प्रभुसम्बन्धसम्पादनेन भा- वजनकत्वादिश्चि^२ तथेत्यर्थः । कालिन्दीमिति । यद्यपि यमुनामिति वाच्यं तद्भिन्नत्वादस्याः, तथापि कालिन्दीमूलरूपत्वं तस्यां बोधयितुं भगवति 'देव- कीजठरभूरि'तिवाक्यात् 'देवकीसुतपदाम्बुजे'तिवाक्याच्च देवकीसुतत्वोक्ति- वदत्राऽपि कालिन्दीत्वोक्तिरितिबोध्यम् । किञ्च । प्रभुसम्बन्धप्रतिबन्धकदोषनि- श्रीपुरुषोत्तमप्रणीता विवृतिः। ख्यायामेकस्मिन्बहुवचनमन्यतरस्यामि'ति सूत्रे 'जात्याख्यायामि'ति योगं विभज्य पूजायामेकत्वे बहुवचनं प्रयुक्तमित्यदोषः । एवं कृपाप्रार्थनयाऽऽर्थिकनमनात्मकं मङ्गलं विधाय विवक्षितोद्धारस्य भजनानन्दावाप्तिरूपत्वात्तत्र च भक्तिमत्कृतस्य दैन्यस्यैव साधनत्वात्तद्धृदि कृत्वा भक्तिस्तत्प्रतिबन्धकनिवृत्तिः तत्तदुपयोगिपरिकर- सम्पत्तिश्चाऽर्थज्ञानपूर्वकाष्टकपाठेन भविष्यतीति ज्ञापनाय स्तोतव्यायाः श्रीकालिन्द्याः स्वरूपमुपकारकत्वं कृपावत्त्वं च बोधयन्त एवाऽऽद्यश्लोकमवतारयन्ति विविधे- त्यादि । अत्र विविधलीलोपयोगिनीमित्यनेन हेतुगर्भेण विशेषणेन स्तुतिप्रयोजकं १ भेदेन चेति ख. २ अश्चामिति ख.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ५ वाऽऽहुर्नमामीति । भगवताऽष्टविधैश्वर्यं कालिन्द्यै दत्तमिति ज्ञाप- श्रीहरिरायप्रणीतं टिप्पणम् । वृत्तये वा तथोक्तिः । कलिं दोषं द्यति खण्डयतीति कलिन्दस्तस्याऽपत्यमिति तादृग्धर्मवत्त्वेन भक्तप्रतिबन्धनिवर्त्तकत्वात् । अत एवाऽग्रे 'हरिप्रियकलिन्दये'त्यत्र तथैव व्याख्यातं प्रभुभिः । अनेन कालिन्दीपदस्याऽस्यां न धर्मवाचकत्वेन नामत्वं किन्तु धर्मविशिष्टतद्वाचकत्वेन विशेषणत्वमिति सूचितम् । स्तोतुकामा इति काम एव पूर्वं निरूपितः। अग्रे तु स्वरूपमाहात्म्यस्फूर्त्या स्तुतिकरणमशक्यमिति 'स्तुतिं तव करोति कः' इत्यनेन निरूपणीयमिति भावः । श्रीगोकुलेश इति । पुष्टिमा- र्गीयो लोकवेदाप्रसिद्धः पुरुषोत्तम एतत्पदेनोक्तः । तत्र लीलासृष्टिप्रवेशमन्तरा गम- नाभावेन साक्षात्कारासम्भवात्परोक्षास्थितैर्नमनमेव स्वदैन्याविष्कृतये कार्यं यथा, तथा लीलासृष्टिप्रवेशमन्तराऽत्राऽपीति भावः । अत एवाऽऽचार्यवर्यैः-'नमो नमस्ते- ऽस्त्वृषभाय सात्वताम्'ति द्वितीयस्कन्धीयपद्यविवृतौ 'गमनाभावान्नमनाधिकार' इत्यभिहितम् । आदाविति । अग्रे तु 'मम मनः सुखं भावय' 'ममाऽस्तु तव सन्निधौ तनुनवत्वमि'त्यादि प्रार्थनीयमिति भावः। नमनमेवेत्येवकारः पूर्वमग्रिमप्रार्थनीयास्फू- र्त्या तदतिरिक्तव्यवच्छेदार्थः । अष्टविधैश्वर्यमिति । भगवता दत्तमिति । अत्राऽयं भावः। भगवान् हि लोके स्वस्य रसात्मकं रूपं तादृशीं लीलां च प्रकटयितुं प्रादुर्भूय सर्वात्मभाववतीषु तथा लीलां चकार। तत्र तदधीनत्वमङ्गीकृत्य सर्वाऽपि कृतिस्तद- तिरिक्तास्फूर्तिश्च । अन्यथा रसात्मकत्वं न स्यात् । एवं सति सर्वमेतदैश्वर्यविरोधीति लीलासृष्टौ तत्कार्यार्थं लीलोपयोगिन्यां स्वामिनीभगवत्सम्बन्धिन्यां श्रीयमुनायां तत्स्थापितवानिति भगवता दत्तमित्युक्तम् । स्वयं तु रसात्मकत्वेन तदधीनस्तदतिरि- श्रीपुरुषोत्तमप्रणीता विवृतिः । रूपमुक्तम् । अनेन स्तोत्रेण स्तुत्या प्रसन्ना स्तोतॄणां लीलासम्बन्धं कारयिष्यतीति च ध्वनितम् । श्रीगोकुलेशपदेन 'अन्व्हापृतं निशि शयानम्'ति वाक्योक्तं निःसाधनफलात्मकं 'तस्मान्मच्छरणं गोष्ठम्'त्याद्युक्तं दीनबन्धुत्वं च बोधितम् । न कर्तुं शक्यमित्यनेन साधनान्तराणां फलानुपधायकत्वम् । अतिदेशेन तद्धर्मव- त्त्वम् । नमनपदेन कायादित्रयव्यापारात्मकमात्रं नमनं सङ्गृह्यतेऽतो न चोद्यावसरः । आदौ नमनोक्तेरयमेवाऽऽशय इत्यत्र गमकमाहुः-भगवतेत्यादि । अन्यथा श्लोकस- १ धर्मवाचकत्वेनेति ख-ङ. २ पूर्वनिरूपित इति ग-घ. ३ स्तुतिकरणमप्यशक्यमिति क-ख-घ-ङ. ४ परोक्षस्थितैर्जीवैरिति च. ५ भा. स्कं. २-४-१४.

६ श्रीयमुनाष्टकम् । मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् । नायाष्टभिः श्लोकैः स्तुवन्ति । साक्षाद्भगवत्सेवोपयोगिदेहा सितलीला- श्रीहरिरायप्रणीतं टिप्पणम् । क्तस्फूर्तिरहितश्चेति। तच्चैश्वर्यमष्टविधं पुष्टिमार्गीयम् । तथाहि। (१) सकलसिद्धिहेतुत्वं, (२) भगवद्भाववर्द्धकत्वं, (३) भगवत्सम्बन्धप्रतिबन्धनिरारकरणेन तदनुभवयोग्य- ताहेतुशुद्धिसम्पादकत्वरूपं भुवनपावनीत्वं, (४) भगवत्समानधर्मवत्त्वादनायासेन तत्सम्बन्धसम्पादकत्वं, (५) भगवत्प्रियकलिनिवारकत्वं, (६) भगवदीयोत्कर्षाधा- यकत्वं, (७) भगवत्प्रियत्वसम्पादकत्वं (८) तनुमवत्वसाधकत्वं चेति । इदं च लीलासृष्टिस्थेष्वेव ज्ञेयम् । तत्रैव तदधिकारात् । आधुनिकानां तु तदर्थप्रकटिततदा- स्वरूपादेव सर्वमिति विमर्शः २ । सिद्धिरूपं विवृण्वन्तीतरावैलक्षण्याय सिद्धान्तर- भ्रमन्निवारणाय चै—साक्षादित्यादिना । स्वरूपादिषु परम्परासेवने तु नाऽलौ- किकं देहमपेक्ष्यते । किन्तु निवेदनाख्यसंस्कारसंस्कृतं लौकिकमेव । तत्र भगवतो- ऽपि सावरणत्वेन जीवस्य साक्षात्स्पर्शाभावात् । लीलाप्रवेशे तु साक्षात्स्पर्शाय तद- पेक्षेति साक्षात्पदमुक्तम् । लीलावलोकनमाप सिद्धिश्चैव । यथा योगधर्मेण योगि- नामतीन्द्रियपदार्थदर्शनसिद्धिरस्तथा श्रीमयुनासेवनधर्मेणाऽपि गुणातीतप्रमुलीलादर्श- नसिद्धिरिति भावः। तथा तद्रसानुभवश्च लीलोपयोग्यिन्योभयसम्बन्धिन्या मध्यस्थयैव भवतीति तदनुभवरूपा सिद्धिरप्येतत्सेवनेन भवतीत्यर्थः। सर्वात्मभावसिद्धिरपि भगव- त्स्वरूपत्वाद् भगवतेव तद्धृदयग्रहणेन वशीकरणाद्भवतीति तत्सेवनाधीनैवेत्यर्थः । श्रीपुरुषोत्तमप्रणीता विवृतिः । ङ्ख्याऽत्र भगवत्साम्यं न बोधयेयुरतस्तथेत्यर्थः । सङ्ख्यायाः प्रयोजनवत्त्वं जातेष्ट्य- धिकरणे सिद्धम् । ऐश्वर्यदाने गमकमाद्यविशेषणमेवेत्याशयेनाऽऽध्यात्मिकाधिभौतिक- व्यवच्छेदाय च तदैश्वर्यदेयं विवृण्वन्ति साक्षादित्यादि । अत्र च यदीश्वरा न स्यादुक्तसिद्धिर्निमित्तभूता न स्यादिति कार्यलिङ्गकानुमानगर्भेण तर्केण तत्सत्ता साधिता । सिद्धिविवरणेन चैश्वर्यमत्र नैकादशस्कन्धोक्ताणिमादिरूपं विवक्षितम् , किन्त्वेतत्स्तोत्रोक्तं भक्तिमार्गीयसामर्थ्यविशेषरूपम् । अणिमादिमतामपि सनका- दीनामुक्तसिद्धिदानादर्शनेन तत्र तदभावनिश्चयात् । तदप्यैश्वर्यं विवृतं श्रीहरि- रायैः । तथाहि उक्तसकलसिद्धिहेतुत्वमेकम् । भगवद्रतिवर्द्धकत्वं द्वितीयम् । १ सर्वत्र मूर्धन्यान्त एव पाठ उपलब्धः ष श्ति स एव पूर्वं स्वीकृतः अस्माभिस्तु श इति लभ्यते । भ. २ सिद्धान्तन्तरेति ग-घ. ३ निराकरणाद्येति ङ. ४ चेति नास्ति. ङ.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ७ तटस्थनवकाननप्रकटमोदपुष्पाम्बुना सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ वलोकनतद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः। अत एव नमनं मुदेपि। जलदोषात्मकसुरस्याऽरेः पदपङ्कजयोः स्फुरन्तः सेवोपयोगि- देहादिसम्पादनेनोन्मुखा ये रेणवोऽमन्दा व्रजसुन्दरीवृन्दचरणरेणुसाहि- त्येनाऽनलपास्त उत्कटा जलापेक्षयाऽधिका यत्र। एतेन दोषभयं भगव- श्रीहरिरायप्रणीतं टिप्पणम्। अत एवोक्तं प्रभुभिरेतदष्टपद्याम्-‘धारितश्रीकृष्णयुतभक्तहृदय’ इति। आदिपदाद्वि- योगेऽप्यन्तःप्राकट्यात्क्रोशप्रतिमान्यायेन भगवदाविष्टदेहसिद्धिः, परावृत्तचक्षुषाऽन्त- राविर्भूतप्रभुलीलावलोकनसिद्धिः, भावात्मकस्वस्वरूपेण तदात्मकतद्रसानुभवसिद्धिः, विरहसामयिकसर्वात्मभावसिद्धिः। स च बहिर्भगवत्प्राकट्यापेक्षाराहित्येनाऽन्तरत- द्भावानारूपो वेद्यः। एवमष्टसिद्धयो ज्ञेयाः। अत एवेति। यत एतादृशोत्कर्षवत्त्वमस्याम- स्तीति स्फूत्तिरत एव स्वनमनसेवम्भूतश्रीमद्युनाप्राकट्येनाऽलभ्यलाभान्नमने हेतुर्मुदेवेति मुदपीत्युक्तमित्यर्थः। जलदोषात्मकेति। भक्तानां भगवत्सम्बन्धे भगवतश्च भक्त- सम्बन्धे जलं प्रतिबन्धकं, पारस्थिततद्ग्रांसः। तस्य च न श्रीमद्युनावन्मार्गदातृत्वम्। तथा सति प्रतिबन्धकं न स्यात्। अतो दैत्यसम्बन्धादेवेदं जलं प्रतिबन्धकम्। अतो न जलस्य दोषः। तस्य तूपायेनाऽपि प्रापकत्वात्। तस्माज्जले यो दोषो भगवत्प्रा- प्तिप्रतिबन्धकरूपः स मुर एवेति तस्मिन्निवृत्ते स्वत एव भगवत्प्राप्तिरिति जलदोषात्म- केत्युक्तम्। एतेनेति। चरणरेणुषु मुरारिसम्बन्धेन स्फुरत्पदबोधितसेवोपयोगि- श्रीपुरुषोत्तमप्रणीता विवृतिः। भगवत्सम्बन्धप्रतिबन्धनिराकरणेन तदनुभवयोग्यताऽनुकूलशुद्धिसम्पादकत्वञ्चभुवन- पावनीत्वं तृतीयम्। भगवत्समानधर्मवत्त्वादनायासेन भगवत्सम्बन्धसम्पादकत्वं तुरीयम्। भगवत्प्रियकलिनिवारकत्वं पञ्चमम्। स्वसेवनाद्रोपिकावद्भगव- त्प्रियत्वसम्पादकत्वं षष्ठम्। तनुनवत्वसम्पादकत्वं सप्तमम्। लीलासामयिक- प्रसुश्रमजलकणसम्बन्धसम्पादकत्वमष्टममिति। इदं च यथाधिकारं लीलास्थेषु १ मुदेति क-ग. २ स्वरूपेनेति क-ङ. ३ एतेनेत्यारभ्य तदुभयमपास्तमिति भाव इत्यन्तो ग्रन्थः 'सुरासु- रेत्या'रभ्य 'तथैव तत्सत्त्वादित्यान्तद्ग्रन्थात्परतो लेखकदोषात्सर्वत्र पतितः क-ख-ग-घ-ङ-अ. चपुस्तके तु यथानिवेशमुपलब्धः, एष एव च युक्तः, व्याख्येयविवृतिक्रमानुरोधात्।

८ श्रीमद्यमुनाष्टकम् । त्प्राप्तिविलम्बश्चाऽपास्तः । अग्रे स्पष्टम् । जलदर्शनस्य भगवत्स्मारकत्वं भावजनकत्वं च ज्ञापयितुं स्मरपितृपदम् ॥ १ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । देहादिसम्पादनोन्मुखत्वकथनेन चेत्यर्थः । तथाच स्वप्रयत्नदोषनिवारकसम्बन्धेन चरणरेणूनां कार्योन्मुखत्वनिरूपणेन च तदुभयमपास्तमिति भावः।सुरासुरसुपूजितेति मूले । वस्तुतस्तु¹ सर्व्वात्मभावकामभावयुतस्वामिनीभिः पुष्पाभरणैरलङ्कृतः सन् भाव- जनक इत्यर्थः । दार्ष्टान्तिके तु तत्पूजितत्वं दैन्यभावमानभावयुतोभयविधस्वामिनी- पूजितत्वेन ज्ञेयम् । दैन्यभाववतीनां प्रभुप्राकट्यार्थं मानभाववतीनामनुनयकरणार्थं तत्पूजनात् । पूजनं चाऽत्र तत्परतयाऽनुसरणमेव । दृष्टान्ते तथैव तत्सत्त्वादिति भावः । भगवत्स्मारकत्वमिति । स्मरपितृपदे स्मरपदेन स्मरणमुच्यते । तज्जन- कत्वं च । स्मरणं स्मर इति व्युत्पत्तेः । अत एव छान्दोग्योपनिषदि 'स्मरो वा आकाशाद्भूय' इत्यत्र स्मरणमेव स्मरपदेनाऽभिमतम् । कामस्य त्वत्रा²ऽप्रसक्तेः³ । दोषनिरूपणप्रस्तावे हि तन्निरूपणं घटते । न तु सर्व्वविज्ञानायोत्तरोत्तरं भूयो निरू- पणप्रस्तावे । तथाच श्रीमद्यमुनायामपि तादृग्भगवच्छ्रीधारकत्वोक्त्या प्रभुधर्मस्मरण- र्जनकत्वसत्त्वेन भगवत्स्मारकत्वमिति भावः । भावजनकत्वं⁵ तु कामजनकभगव- श्रीपुरुषोत्तमप्रणीता विवृतिः । प्रकटयति । स्वदासेष्वाधुनिकेषु त्वेतदष्टकोक्तं फलं भगवदिच्छानुसारण ददती किञ्चि- देकं द्वयं प्रकटयतीति स्तोत्रान्त्यश्लोकादवसीयते । प्रकृतमनुसरामः । अत एवेति । दीनबन्धुत्वसिद्धिदातृत्वाभ्यामेवेत्यर्थः। ननु दोषबाहुल्ये दैन्यस्य न दयोत्पादकत्वं लोके दृष्टमतस्तेषु विद्यमानेषु किं स्तोत्रेणेत्याकाङ्क्षायां द्वितीयं विशेषणं विवृण्वन्ति जलेत्या- दि । एतेनेति । मुरारिपदामन्दपदघटितेनानेनेत्यर्थः । अत्राऽसुरादिपदं विहाय मूले जलदोषात्मकसुरपदं यदुक्तं तद्विवृतौ च यज्जलपदं तच्छ्रीभागवते 'दैत्यः पञ्चशिरा जलादि'ति कथनादुक्तं बोध्यम् । जलपदस्य डलयोरभेदेन जडपर्यन्तत्वं तेन तत्र भगवतस्तत्सम्बन्धिमहादोषनिवर्तकत्वमभिप्रेयत इत्याशयं गमयितुम् । तेन दाम्भिकादीनां न निवर्तयतीति ध्वनयन्ति । तावता—'अश्रद्दधानः पापात्मा १ वस्तुतस्त्वित्यादिग्रन्थो नास्ति क-ग-घ. २ अपीति म-घ.अ. ३ तत्राऽप्रसिद्धेरिति ग-घ. ४ प्रभुधर्म- स्मरणजनकसत्त्वेनेति क. प्रभुस्मरजनकसत्त्वे इति ग. प्रभुस्मरणजनकसत्त्वे इति घ. प्रभुधर्मस्मरणजनकत्वेनेति ख- ङ-च. प्रतिभाति त्वेवम् । ५ भावजनकत्वमित्यारभ्य स्पष्टमेवेत्यन्तोऽशो नास्ति किन्तु "भगवत्स्मारकत्वमिति भाव" इतीयं पूर्वपङ्क्तिरेव "भगवत्स्मारकत्वं स्पष्टमेवे' ति रूपेण वर्त्तते ग-घ.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ९ कलिन्दगिरिमस्तके पतदमन्दपूरोज्ज्वला आविर्भावप्रकारमाहुः कलिन्देति । रविमण्डलादतिदूराद्विरिमस्तके श्रीहरिरायप्रणीतं टिप्पणम्। च्छ्रीधारकत्वेन स्पष्टमेव । तदा स्मरपदं कामवाचकमेव । तेनाऽत्र स्मरपदेऽर्थद्वय- मप्यभिप्रेतमित्यर्थः । तथा च यथा भगवति दृष्टे 'निरीक्ष्य रूपं यद्गोद्विजद्रुममृगा' इति वाक्याद्भावजननं पूर्वानुभूतलीलाविशिष्टप्रभुस्मरणं तथा तादृग्भगवत्स्वरूपाया- मेतस्यां दृष्टायामपीति भावः ॥ १ ॥ भगवत इवाऽलौकिकप्रकारेणाऽत्राऽऽविर्भाव इति ज्ञापनायाऽऽहुरावि- र्भावप्रकारमिति । यथा भगवान् वसुदेवदेवकीसमक्षमाविर्भूतो वरदानाय, यथा वा तपसा पूर्वानुभूतभगवद्विरहेण च तापात्मकात्तदुभयहृदयाद् यथा वा आवि- र्भूयाऽन्यत्र केवललीलास्थाने गोकुले प्रयातस्तत्र गत्वा सर्वात्मभाववद्भक्तसंवलितो श्रीपुरुषोत्तमप्रणीता विवृतिः। नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिन' इति वाक्योक्तानां दोषं न दूरीकरोतीति सिद्धयति । तृतीयं विवृण्वन्तस्तदेकदेशस्योत्तानार्थत्वमाहु- रग्रे स्पष्टमिति । सुरासुरपदाभ्यां द्विविधाधिकारिणोः सुपूजितपदेन पूजाङ्गीका- रस्य च शीघ्रं प्रतीतेस्तथेत्यर्थः । तटस्थनवकानने प्रकटो मोद आनन्दो यैस्तादृश- पुष्पयुक्तेनाऽम्बुनेत्येवं तृतीयान्तार्थः । स्मरपितृपदेन प्रद्युम्नजनकत्वस्य शीघ्रं प्रतीते- स्तद्वारणााय तद्विवृण्वन्ति जलेत्यादि । भगवतस्तथात्वं ' यं मां स्मृत्वा निष्कामः सकामो भवती'ति तापनीयश्रुतेरपि सिद्धम् । पूर्वं निष्कामस्य भगव- त्स्मरणेन भगवद्विषयकस्यैव तस्य जननात् । तत्साम्येनाऽत्राऽपि तथात्वात् । एव- ञ्चैताभ्यां विशेषणाभ्यां यद्दोषनिवर्त्तकत्वं भावजनकत्वं चोक्तं तत्पूर्वविशेषणोक्तसि- द्धिदातृत्वसहकारित्वायेति बोध्यम् । अनुग्रहः सर्वत्र बीजमिति न काऽपि कोऽपि चोद्यावसरः ॥ १ ॥ ननु नदीत्वे साधारणेऽपि कथमत्रैवैष विशेष इत्याकाङ्क्षायामाधिदैविक्यां विशेषं वक्तुं द्वितीयं श्लोकं वदन्तीत्याशयेन द्वितीयमवतारयन्त्याविरित्यादि । आधिदैविक्याः सृष्टेर्वेदाधारत्वं देवताविग्रहाधिकरणे 'शब्द इति चेदि'ति सूत्रस्य भाष्ये मतान्तरापाकरणपुरस्सरं व्युत्पादितम् । रवेर्वेदात्मकत्वं च तैत्तिरीयाणां बृहन्नारायणोपनिषदि ' आदित्यो वा एष एतन्मण्डलं तपती'त्यनुवाके श्रावितम्। तदन्तःस्थितस्य पुरुषस्य परब्रह्मत्वं च अन्तस्तद्धर्माधिकरणे व्यासचरणैरेव निर्णी- २

१० श्रीयमुनाष्टकम्। विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता। पाते फेनेन प्रवाहजलेन चोज्ज्वला। उच्चनीचशैलारोहावरोहौ विलासगति- श्रीहरिरायप्रणीतं टिप्पणम्। जातस्तत्र लीलां च प्रकटितवान्, तथा श्रीयमुनाऽपि प्रथमं सूर्यमण्डलान्तर्वर्त्तिनारा- यणहृदयादानन्दमयादाविर्भूता द्रवीभूतरसात्मिका, ततस्तापात्मकाद्रविमण्डलात्कलि- न्दोपरि समागत्य भूमावागता ततो लीलास्थाने समागत्य तादृग्भक्तसंवलिता जातेत्यर्थः। श्रीपुरुषोत्तमप्रणीता विवृतिः। तम्। मधुविद्यायां च 'यश्चाऽयमादित्ये तेजोमय' इत्युपक्रम्य ' अयमेव स योऽय- मि'ति तस्य व्यापकत्वमपि श्रावितम्। पाद्मे यमुनामाहात्म्ये च-'त्रय्येषा ऋग्यजुः- साम्नामादित्य इति गीयते। सम्यग्ज्ञानं च यत्तेषां विश्वेषां कर्मणां मुने। सञ्ज्ञेति साऽस्यां यो धर्मो धर्मराजः स उच्यते। रसो यः परमाधारः सच्चिदानन्दलक्षणः। ब्रह्मेत्युपनिषद्गीतस्तदेव यमुना स्वयमि'ति । 'दिवसे दिवसे भानुरादायाऽऽदाय वत्सलः। उदयाचलतः पुत्रीं नयत्यस्ताचलं मुने। यमुनाऽपि ततो नित्यं गच्छ- न्त्यास्तेऽक्षयाऽव्यया। विशन्त्योगेन साऽदित्यमुदयाद्रौ पुनः पुनः। एवं भूमौ तथाऽऽकाशे घटीयन्त्रमिवाऽनिशम्। यमुनाऽस्तोदयाद्रिभ्यां अमन्त्यास्तेऽक्षयोदके'ति वसिष्ठवाक्यं च हृदिकृत्य 'ममोदरं प्रविश्य त्वं गच्छ चाऽऽदित्यनन्दिनि। कालि- न्दीति तव ख्यातिरस्तु लोकत्रये सदे'ति कलिन्दकृतवरप्रार्थनं च हृदिकृत्याऽऽचा- र्यैर्मूले पद्माबन्धोः सुतेत्युक्तमित्याशयेन रविमण्डलापादानकत्वोक्तिपुरस्सरं प्रथम- विशेषणं व्याकुर्वन्ति रवीत्यादि। अत्र वर्षावद्रश्मिभ्यो नोत्पत्तिः किन्तु स्वरूपादि- त्याशयेन मण्डलस्याऽपादानत्वोक्त्या पूर्वोक्तरीतिकवेदाधारत्वस्फोरणेन तत्राऽऽधि- दैविकत्वं दृढीकतम्। तथैवाऽधिकरणकथनेन सौरगत्यनधीनपातत्वबोधनात्तदन्तः- स्थितादेवाऽऽगमनं न भौतिकाद्रवेरिति निश्चायितम्। तृतीयान्तद्वयेनोज्ज्वलत्वस्या- ऽऽगन्तुकत्वबाह्यत्वबोधनात् स्वरूपश्यामलत्वस्याऽबाधो ध्वनितः। तेनाऽऽपाततो दर्शन- विरोधोऽपि परिहृतः । अतः परमुक्तविशेषणस्थममन्दत्वं द्रढयितुं विलासगमने- त्यादि द्वितीयं विशेषणमित्याशयेन तद्व्याकुर्वन्त्युच्चनीचेत्यादि। एवं क्रियाविशेषकृत- शोभया प्रवाहाविच्छेदबोधनेनाऽमन्दत्वं स्थिरीकृतम्, तेनाऽपादानस्य व्यापकत्वे- ऽपि प्रदेशभेदस्य विद्यमानत्वान्मूलधान्न एव समागमनं स्फोरितम्। अथ तद्गमके

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ११ सघोषगतिदन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्धिनी जयति पद्मबन्धोः सुता ॥ २ ॥ रूपौ । तत्रोल्लसन्तः शोभां प्राप्नुवन्तः प्रवाहवेगेनोच्चैः क्षिप्ता अत एव प्रकटाः सर्वेषां दृश्यास्तैस्तादृशैस्तथा । उच्चतः पाते शोभामुक्त्वा ततो विषमभू- मिगतिशोभामाहुः सघोषेति । दन्तुरशब्देन विविधविकारवत्त्वमुच्यते । 'विपुलपुलकभरदन्तुरितम्' 'केतकीदन्तुरिताश' इत्यादिनयदेवोक्तिरपि । श्रीहरिरायप्रणीतं टिप्पणम् । घनीभूतरसात्मा हि जातो नन्दगृहे हरिः । केवलो धर्मयुक्तस्तु वसुदेवगृहे तथा ॥ १ ॥ शब्दात्मा गुणगानादौ वदनादुद्गतः स्वतः । द्रवीभूतरसात्मैषा सर्वाङ्गीणश्रमाम्बुभिः ॥ २ ॥ नारायणस्य हृदयाच्छुद्धसत्त्वस्वरूपतः । प्रादुरासीन्मूलरूपपुष्टिलीलाप्रसिद्धये ॥ ३ ॥ विषमभूमीति । पर्वतसम्बन्धित्वादित्यर्थः । वैषम्यं चाऽत्राल्पानल्पप्रस्तर- श्रीपुरुषोत्तमप्रणीता विवृतिः । भगवन्मेलनौत्सुकत्वं बोधयितुं सघोषगतिदन्तुरेत्यग्रिमं विशेषणमित्याशयेन तद्व्या- कुर्वन्तः पूर्वविशेषणवाच्योऽर्थ उत्तरत्राऽप्युपकरोतीत्याशयेन तमनूद्याऽवतारयन्त्यु- च्चत इत्यादि । तत्र 'दन्तुरं तून्नतानतमि'ति कोशोक्तस्य वाच्यार्थस्य पूर्वार्ध एव सिद्धेस्तदनुवादवैयर्थ्यादत्र लाक्षणिकोऽर्थोऽभिप्रेयत इत्याशयेन विवक्षितमर्थमाहु- र्दन्तुरेत्यादि । अत्र जयदेवोक्ति सम्मतित्वेनाऽऽहुर्विपुलेत्यादि । पुलकेऽपि रोमकू- पदेशे उच्छ्रनतेव भवतीति नोक्तार्थदार्ढ्यमिति द्वितीयमुदाहरणम् । उक्तमर्थं हेतूक्त्या द्रढयन्ति व्रजजनेत्यादि । समानो घोषो व्रजो यस्य तत् सघोषं व्रजजनादि । 'समानस्य छन्दस्य मूर्द्धप्रभृत्युदकेष्वि'ति सूत्रे समानस्येति योगं विभज्य सपक्ष- साधर्म्यादिशब्दाः काशिकायां व्युत्पादितास्तथाऽत्राऽपि । सदृशस्तुल्यो वासो घोषो यस्य तद्वा । अस्वपदविग्रहे बहुव्रीहौ सदृशार्थस्य सहस्य सभावेन कौमुद्यां ते साधितास्तथा वा । तथा च 'व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैरि'तिवत्तद्गतिम्र्भि- र्विविधविकारवतीवेत्यर्थः । विकारश्चाऽत्र रसानुकूलो बाह्याभ्यन्तरो धर्मो बोध्यः यो रसशास्त्रे भावपदेनोच्यते । एतस्य पक्षस्य गौणत्वायोत्प्रेक्षावाचकपद्मयोगः

१. यमुनाष्टकम्, बालबोधः एवं सिद्धान्तमुक्तावली

१२ श्रीयमुनाष्टकम्। ब्रजजनगोवृन्दादिविविधगतिभिस्तादृशीव । घोषः शब्दो व्रजो वा । अनतिस्थूलशिलासु गतिशोभया असमधिरूढेव समधिरूढदोलोत्तमा । श्रीहरिरायप्रणीतं टिप्पणम्। साहित्येनेति ज्ञेयम् । घोषः शब्दो व्रजो वेति । 'घोष आभीरपल्ली स्याद्'इतिको- षात् घोषो व्रजस्तेन सह वर्त्तन्ते, न कदाचिदपि तं विहायाऽन्यत्र प्रयान्ति निरोध- स्थानत्वात्ते सघोषा व्रजजनादयस्तेषां तीरे गतिभिस्तथेत्यर्थः । शब्दपक्षे यथा प्रिया- भिमुखं गच्छन्ती प्रिया अन्तरुद्गतरजोगुणजनितकामावेशेन गायन्ती तथोच्चैर्भाष- माणा गच्छति तथेत्यर्थः । व्रजपक्षे तु भाववत्संसर्गे भाववतां भावोदयजनित- विविधविकारवत्त्वं लोकसिद्धमिति श्रीयमुनायामपि तथा निरूपितमित्यर्थः । असमधिरूढेवेति, पदच्छेदे अकारस्यापि प्रतीयमानत्वादसमधिरूढत्वमपि व्याख्ये- यम् । तथाचाऽसमधिरूढेव समधिरूढदोलोत्तमा । यतो दोलाधिरोहेऽपि न तथा प्रतीतिः । भगवत्साम्मुख्यगमने तद्भाववैवश्येन गमनमात्रस्फूर्त्याऽऽरोहदोलास्फूर्ते- श्रीपुरुषोत्तमप्रणीता विवृतिः । गौणत्वं तु व्रजजनसम्बन्धस्य समभूमौ सत्त्वेनाऽत्राऽभावात्स्वतस्तथात्वासिद्ध्या मूलधामागमनगमकत्वाभावाच्च ज्ञेयम् । अनेनैवाऽस्वरसेन पक्षान्तरं वदिष्यन्तो घोषपदस्याऽर्थावाहुः—घोषः शब्दो व्रजो वेति । शब्दपक्षे घोषेण सह वर्त्तमाना सघोषा तादृश्या गत्या तथा । ससिञ्जिताभिसरणेनोत्कटानेकभावेत्यर्थः । अस्मिन् पक्षे नोत्प्रेक्षेति यद्यपि तदपेक्षयाऽयमुत्तमस्तथापि लीलाया नित्यत्वेन मूलधाम्न्यपि व्रजसम्बन्धस्य सार्वदिकत्वात्प्रथमपक्षस्याऽपि नाऽसम्भवः । स्वाभाविकत्वात्स्व- पक्षश्चाऽऽवश्यक एवेति द्वयमपि सङ्ग्रहीतुं व्याख्यातविशेषणद्वयस्य द्वितीयविशेषणार्थ- द्वयस्य च तात्पर्यमाहुरनतीत्यादि । 'गण्डशैलास्तु ते भग्नाश्च्युताः स्थूलोपला- गिरेरि'ति कोशे गिरिच्युतानां तथात्वकथनादनतिस्थूलशिलासु या गतिरुच्चनीच- भावेन गमनं तत्र घोषेण यत्सिञ्जितवत्ताव्यञ्जनं सैव शोभा तया स्वयमसमधिरूढेव समानसौभाग्यानां साहित्यात्स्वयमपि पादचारिणीव । तथाच सेयमाधिदैविकी यद्यपि दोलास्थानीये आधिभौतिके जलरूपे आरुह्य गच्छतीत्यग्रिमविशेषणे वक्तव्यं, तथापि विलासगमनेत्यादिविशेषणद्वयवत्त्वादसमधिरूढेवेत्यर्थः । द्वितीयविशेषण- प्रथमव्याख्याने घोषो व्रजसुन्दरीप्रभृतिवृन्दम् । तात्स्थ्यात्तद्व्यपदेशः । तेन सह वर्त्त- माना सघोषा तादृश्या गत्या चरणचलनेन दन्तुरेव दन्तुरेति । "समासे पुंवत्कर्म- धारयजातीयेष्वि"ति पुंवद्भावः । एवं शब्दपक्षव्याख्यानेऽपि ज्ञेयः । एवं सकल-

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृत्तिभ्यां संवलितम् । १३ भुवं भुवनपावनीमधिगतामनेकस्वनैः ततो भूमावागत्य मुकुन्दरतिवर्द्धिनी जाता । यतो रसाकरसखस्य सुता । अतः स्वयमपि रसात्मिकेति भावः ॥ २ ॥

  • ततो भुव्यागताया धर्मानाहुर्भुवमिति । प्रयोजनम्-भुवनपावनीमिति । श्रीहरिरायप्रणीतं टिप्पणम् । रसमधिरूढेवेत्युक्तम् । ततो भूमावागत्येति, यथा भगवतो मथुरातो व्रजे समागत- स्यैव स्वामिनीभाववर्द्धकत्वं तथा रविमण्डलादाविर्भूय कलिन्दपर्वतोपरि पतित्वा ततः कालिन्दीं स्वप्रविष्टां विधाय व्रजभूमौ समागताया एव लीलासृष्टिस्थेष्वेव मुकुन्दरतिवर्द्धिनीत्वमित्यर्थः । मुकुन्दरतिवर्द्धिनीत्यत्र षष्ठीसमासो ज्ञेयः । तथा च, मुकुन्दस्य भगवतः स्वामिनीषु रतिवर्द्धिनी । तस्या उभयसम्बन्धिनीत्वा- दिति भावः । रतिवर्द्धिनीत्वे हेतुरेव यतो रसाकरसखस्य सुतेत्यादिना निरूपितः ॥ २ ॥ भुव्यागताया धर्मानिति, भुव्यागमनं हि भगवतो रतिवर्द्धनाय । तत्र च श्रीपुरुषोत्तमप्रणीता विवृत्तिः । सिद्धिहेतुत्वदार्थ्यार्थमाधिदैविकत्वमनेकधा समर्थयित्वा भूमौ लीलासम्बन्ध आधि- भौतिकादिरूपद्वयविशिष्टायामस्तीत्यादिज्ञापनाय तदुभयसाहित्यं हृदिकृत्याऽग्रिमं व्याकरिष्यन्तः प्रथममाधिभौतिकसाहित्यमाहुः समधीति । दोला शिबिका, उत्तमत्वं तु तस्या अपि, अग्रे लीलासम्बन्धात् । समधिरूढा आविष्टा सा ययेत्यर्थः । अथाऽऽध्यात्मिकसाहित्यमग्रिमे विवृण्वन्ति ततो भूमावित्यादि । तत इति दोला- रोहोत्तरम् । भूमावागत्येति, दूराद्गिरिमूर्द्धपातक्लेशसहनपूर्वकं भूमावागत्य । एव- मुभयसाहित्यात् "कलिन्दतनयातटोन्मदे"त्यादीनां न विरुद्धत्वम् । तथा पद्मबन्धोः सुतेत्यस्य 'जयति'क्रियाकर्त्तृत्वेन विशेष्यत्वेऽप्याधिदैविक्या नित्याया एव स्तुत्यत्वेन विवक्षितत्वात्तद्विचारेणाऽस्याऽपि विशेषणत्वमेव । तेन 'कलिन्दगिरी'त्यारभ्य 'पद्म- बन्धोः सुते'त्यन्तानि पञ्चाऽपि विशेषणानि भगवद्रतिवर्द्धकत्वस्यैवोपकारकाणीति द्वितीयैश्वर्यवत्त्वमनेन श्लोकेन समर्पितम् । एतेन द्वितीयमैश्वर्यं रूपद्वयविशिष्टाया- मित्यपि ज्ञापितम् ॥ २ ॥ अतः परं रतिवर्द्धकत्वस्य दृढीकरणाय रतिजनका धर्मा अग्रिमे उच्यन्त इत्याश- येन तमवतारयन्ति ततो भुमीत्यादि । भुवनपावनीति श्रीयमुनाविशेषणम् । "सप्तद्वी-
  • ततो भूमीति पाठः श्रीपुरुषोत्तमचरणानाम् हस्ताक्षरग्रन्थे वर्तते ।

१४ श्रीयमुनाष्टकम् । प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका- अनेकस्वनैरिति शुकादिविशेषणम् । एतेन विभावादिसामग्र्युक्ता । यत्र यथोचितं तत्र तथा कुर्वन्तीति प्रियापदम् । तीरस्य चाकचक्यवत्सिक्ततां- कृतशोभां तत्स्वरूपमप्याहुस्तरङ्गेति । यदा तरङ्गास्तीरमागत्य प्रसृता भवन्ति तदा तीरसिकता मुक्तावद्भासन्ते । ता न सिकताः । लोकप्रतीतिः परं तथा । किन्तु तरङ्गा एव भुजास्तत्र यानि कङ्कणानि तत्र प्रकटा या

श्रीहरिरायप्रणीतं टिप्पणम् । ये धर्मास्तदनुकूला अपेक्ष्यन्ते विभावादिसामग्रीसेविकांसाहित्यस्वरूपसौन्दर्यादयस्ता- नित्यर्थः । प्रयोजनमिति, रविमण्डलाद्गव्यागमनप्रयोजनमित्यर्थः । भुवनेति, भुवनं लोकः सर्वोऽपि लीलासृष्टिस्थिततदतिरिक्त रूपस्तस्य भगवद्भावान्यभावराहित्य- सम्पादनभगवत्सेवनार्हशरीरसम्पादनाभ्यां पावनीं शोधिकामित्यर्थः । शुद्धिरत्र पुष्टिमार्गीयैव वाच्या । सा च पूर्वोक्तरूपैवेति तथेति भावः । भगवति स्नेहाति- ऽशय इति, तरङ्गभुजेत्यादिविशेषणेनाऽप्राकृताखिलाकल्पभूषितत्वबोधकेन तथाविधे भगवति सजातीयतया स्नेहातिशयो द्योतित इत्यर्थः । अप्राकृतानामप्राकृते वस्तुनि प्रीतिभरसम्भवस्योचितत्वादिति भावः । नमन कृष्णतुर्यप्रियामिति मूले । तत्रा- ऽयमाशयः । अत्र स्तोत्रे विविधलीलोपयोगिनी श्रीयमुना प्रस्तूयते । तत्र च कृष्ण- तुर्यप्रियात्वमनुपपन्नम् । तस्य धर्मस्य कालिन्दीनिष्ठत्वात् । इयं च ततो भिन्ना,

श्रीपुरुषोत्तमप्रणीता विवृतिः । पान् सप्तराशींश्च वारामाग्राद्वित्वा प्राङ्मुखी पावयन्ती । यास्येऽस्ताद्रेरुद्रमाद्रिं विहर्तुं खेलन्तीव स्वाश्रिताघापनुत्त्यै” इति तत्रैव यमं प्रति श्रीयमुनावाक्यात् । अनेक- स्वनैरित्यस्योपलक्षकत्ववारणायाऽऽहुः शुकादीति । प्रियापदं प्रियसखीबोधक- मित्याशयेनाऽऽहुर्यत्रेत्यादि । चाकचक्यवत्सिक्ततेति चाकचक्यवत्यो याः सिकता इत्यर्थः । विशेषणेनेत्येकवचनेनेतरयोः स्नेहबोधकत्वं द्योतितम् । तथा चेतराभ्यां स्नेहो बोध्यतेऽनेन त्ववस्थाविशेषकृतोऽतिशय इत्यर्थः । तेन यदि भग- वति स्नेहो न स्यान्मूलधाम विहाय भगवद्विचारितभुवनपावनात्मककार्यार्थं भुवं नेयान् । आगत्य च लीलार्थं ससामग्रीका न स्यात् । यदि तदतिशयो न स्यात्ता-

१ सेवकसाहित्येति च.

[Page Header] श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। १५

नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥ मुक्तिका मुक्ताफलानि तान्येव वालुकावत्प्रतीयमानानि तद्युक्तो यो नितम्ब एवोच्चदेशात्मकतटस्तेन तादृशीम्। भगवति स्नेहातिशयो विशेषणेनोक्तः ॥३॥

श्रीहरिरायप्रणीतं टिप्पणम्। "वसामि यमुनाजल' इति वाक्यात् । यद्यप्यस्यामभेदेन भगवति देवकीपुत्रत्वव- त्कालिन्दीत्वं वक्तुं शक्यम्, न तु तुर्यप्रियात्वम्, तदधिष्ठानत्वेन तद्रूपत्वोक्त्यौ- चित्येऽपि तद्धर्मवत्त्वोक्तेरनुचितत्वात्, असाधारणधर्माणां तद्रूपमात्रनिष्ठत्वेनोपास- कैरन्यत्राऽविभावनीयत्वात् । अन्यथा भावने "योऽन्यथा सन्तमात्मानम्"ति वाक्याद्दोषश्च । न हि सीतापत्तिः पुरुषोत्तमोऽपि रसात्मकश्रीगोपीजनवल्लभत्वेनो- पासकैर्विभाव्यते । अन्यधर्मवत्त्वेनाऽन्यरूपभावने "तं यथा यथोपासते तथैव भवति तद्धैतान् भूत्वाऽवति"ति श्रुतेः स्वाभीष्टसाक्षात्काराभावेन फलासिद्धेः । १ ननु रूपा- न्तरदर्शनोद्भूतभावस्य रूपान्तरेण कथं फलसिद्धिर्र्यथा रघुपतिवर्यवितीर्णवरस्य श्रीव्रजनाथेनेति चेत् । सत्यम् । तत्र हि श्रीरघुनाथस्य गुरोरिवोपदेशद्वारा फल- प्रापकत्वं स्वाविष्टमूलरूपत्वेन न तु साक्षाद्दातुत्वम्, मर्यादापुरुषोत्तमत्वात् । न हि तेन पुष्टिमार्गाङ्गीकारस्तत्फलदानं च शक्यते विधातुम् । तत्त्वं च दाम्पत्यर- सात्मकत्वेन तद्धर्मसहितत्वम् । तत्र मर्यादया फलदानाद्भगवन्मार्गीयगुरुणेव

श्रीपुरुषोत्तमप्रणीता विवृतिः । दृक्तवती न स्यादिति तर्का एतैर्बोधिताः । तावता रतिवर्द्धकत्वमनुमानेन दृढी- कृतम् । किञ्चैतेनाऽऽधिदैविक्या भगवदवतारोत्तरमवतरणं तादृग्लीलादावेव च तदाविर्भाव इत्यपि ज्ञापितम् । तेन "मघोनि वर्षत्यसकृद्यमानुजे"त्यत्र व्याख्या- तदोषगुणयोर्न विरोधः । नमत कृष्णतुर्यप्रियामिति न व्याख्यातम् । नमनतात्पर्यस्य पूर्वमुक्तत्वेनोपदेशमात्रस्य स्फुटत्वात् । "कालिन्दीति समाख्याता वसामि यमुना- जल" इत्यत्र कालिन्दीयमुनयोर्भेदस्य श्रीभागवते मूल एव स्फुटत्वेन तयोराधिदै- विकाधिभौतिकभावस्य तत्सुबोधिन्यां सोपपत्तिकं निरस्तत्वेन च श्रीरुक्मिण्या- दित्रयसापेक्षस्य तुरीयत्वस्याऽशक्यवचनतया सात्त्विकादित्रयसापेक्षस्य गुणातीता- त्मकस्य तस्य स्फुटत्वात् । न च महिषीष्वनन्तर्भावे प्रियात्वस्यैवाऽसिद्ध्या तुर्य- प्रियात्वस्य सुतरामसिद्धिरिति शङ्क्यम्, यमुनामाहात्म्ये यमुनाभिषेकाध्याये पूर्वं भगवत्कृतमाश्लेषमुक्त्वा "यमुनाऽप्यच्युतेनैवं सुसंस्कृताऽथ शिक्षिता । शङ्खाम्बुना-

[Footnotes] १ तद्वैतानिति च. तद्वैनानिति ख.

१६ श्रीयमुनाष्टकम् । अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते भगवत्समानधर्मत्वं ज्ञापयितुं तथा विशेषणैराहुरनन्तेति । प्रभौ सप्तम्यन्तानि विशेषणानि । तत्प्रियायां सम्बुद्धिरूपाणि । घनाघनशब्दो श्रीहरिरायप्रणीतं टिप्पणम् । तद्विधिनिरूपणेन । अतस्तदुक्त्यनुपपत्तिरिति चेत् । अत्र वदामः । व्रजे हि भगव- द्भोग्याः स्वामिन्यश्चतुर्विधाः । तत्रैका मुख्या भगवतः स्वामिनी सर्वविलक्षणा । अस्यां चाऽनन्यपूर्वाऽन्यपूर्वोभयरूपत्वाभावः । भगवतो रसात्मकस्य श्रुतिसिद्धस्याऽऽलम्बन- विभावत्वेन तथात्वसम्पादकत्वात् । श्रुतिरूपा गोपगृहेषु स्थिताः सर्वात्मभाववत्यः प्रौढा एकाः । तथा कुमारिका व्रजस्था अनन्यपूर्वा विवाहाभावेऽपि वसनादानेन स्वकीयाः कृताश्चाऽपराः । चतुर्थी श्रीयमुना । तस्यामपि क्रीडाव्याजेन सर्वाङ्ग- सम्बन्धसम्पादनेन स्वातन्त्र्येण तया सह क्रीडेति सा चतुर्थी । अत एवैतदभिप्रायेण तत्र तुर्यप्रियात्वोक्तिर्न तु तुर्यभार्यात्वोक्तिरिति नाऽनुपपत्तिः काचित् ॥ ३ ॥ भगवत्समानधर्मत्वं ज्ञापयितुमिति । भगवान् हि षड्गुणैः स्वरूपेण च सप्त- विधः । तत्र गुणाः षड् ऐश्वर्यादयः । तेऽपि पुष्टिमार्गीयमर्यादामार्गीयतद्भेदेन विविधाः । तत्र पुष्टिमार्गीयाः षट् फलप्रकरणे वेणुगीते च-“धन्यास्त्वि”ति श्लोक- श्रीपुरुषोत्तमप्रणीता विवृत्तिः । ऽभिषिच्यैनां त्वत्तो नाऽन्याऽस्ति पावनी”त्यादिकं चोक्त्वा “अपि ब्रह्मणः पाप- मपनेष्यसि सेविता, सप्तरात्रात्तु सान्निध्यं न ते त्यक्ष्यामि कर्हिचिदि”ति भगवता सर्वदा स्वसान्निध्यरूपवरदानात्तैरर्थैः प्रियात्वस्य सिद्धावुक्तरीत्या तुर्यप्रियात्वस्य सुखेनैव सिद्धिरिति । साम्प्रदायिकास्तु केचन मुख्यस्वामिन्यग्निकुमारश्रुतिरूपसापे- क्षत्वेनाऽऽहुः । केचन मुख्यतत्तत्सङ्गमुख्यसापेक्षत्वेनाऽऽहुः । ताभ्यामपि मदु- क्तिर्न विरुध्यते । अत्र ध्रुवं समधिगतामिति विशेषणेन कर्मभूमिगतपापात्मक- प्रतिबन्धनिवृत्तिसूचनाच्छेषाभ्यां विशेषणाभ्यां सखीभिराभरणैश्च भूषितत्वबोधनेन भगवत्सान्निध्यसूचनाद्विवक्षितशुद्धिसम्पादकत्वरूपं तृतीयमैश्वर्यं दृढीकृतम् ॥ ३ ॥ अतः परं तुर्यत्वबोधितगुणातीतत्वसमर्थनाय भुवनपावनीत्वनिष्कर्षाय च तुरीयः श्लोक इति ज्ञापयन्तस्तमवतारयन्ति भगवदित्यादि । साम्प्रदायिकोक्ततुर्यत्वपक्षस्त्वष्टमे स्फुटीभविष्यति । तथा विशेषणैरिति । विशेष्यसहितैः षड्भिस्तैरित्यर्थः । समानधर्म- १ तद्विधिनिरूपणेन फलदातृत्वमिति च. २ वसनदानेनेति क-ग-घ-ङ-च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणेविवृतिभ्यां संवलितम्। १७ घनाघननिभे सदा ध्रुवपराशराभीष्टदे । निपातरूपो घनसमुदायं वदति । श्यामे । तादृशीति वा । ध्रुवादेस्तत्तीर श्रीहरिरायप्रणीतं टिप्पणम् । षट्केन निरूपिताः प्रभुचरणैः। तेऽत्राऽपि तत्समानसङ्ख्याकैर्विशेषणैः श्रीयमुनायां निरू- प्यन्ते । तथाहि । सप्तम्यन्तप्रभुविशेषणपक्षे अनन्ता असङ्ख्याता नित्याश्च ये गुणास्तै- र्भूषिते अलङ्कृते प्रभावित्यर्थः । सम्बुद्ध्यन्ततया श्रीयमुनापक्षे अनन्तस्य नित्यस्य रासो- त्सवादिषु बहुरूपस्य वा भगवतो ये गुणा भक्तकार्यसाधकत्वादयस्तैर्भूषिते इत्यर्थः । एतेन सर्वसद्गुणसततसाहित्यान्न 'गुणाः सर्वत्र पूज्यन्त' इति वाक्यात् । “पूज्यो हि भग- वान् तद्गुणाश्चे'त्याचार्यचरणवचनाच्च गुणानां पूज्यतावच्छेदकधर्मरूपत्वाद् “ईश्वरः पूज्यते लोके मूढैरपि यदा तदे”ति श्लोकनिरूपितमैश्वर्यं निरूपितमिति भावः । शिवविरञ्चिदेवस्तुते इति विशेषणेन पक्षद्वयेऽपि “वीर्यं देवेष्वि”त्यत्र निरूपितं वीर्यं निरूपितमित्यर्थः। घनाघननिभे इति विशेषणेन पक्षद्वयेऽपि स्वरूपसौन्दर्यं सर्वविस्मारकं विश्वजीवनत्वादिकं च निरूपितमिति “यशो यदि विमूढानां प्रत्यक्षासक्तिवारणा- दि”त्यत्रोक्तं यशो निरूपितमित्यर्थः । ध्रुवपराशराभीष्टदे इति विशेषणेन स्वसे- वकानामप्यैश्वर्यज्ञानरूपाभीष्टप्रदानेन तेषामपि तद्भोगात् “श्रियो हि परमा काष्ठा सेवकास्तादृशा यदी”त्यत्रोक्ता श्रीर्निरूपितेत्यर्थः । श्रीपुरुषोत्तमप्रणीता विवृतिः । वत्त्वमत्र न समानसङ्ख्यामात्रबोधितमपि तु पदार्थसाम्येनाऽपीत्याशयेनाऽऽहुः प्रभा- वित्यादि । तथा च विभक्तिरेव विपरिणीयते न त्वर्थो भेद्यत इत्यर्थः । निपातरूप इति, अव्युत्पन्न इत्यर्थः । यद्यपि कृदन्ते “हन्तेर्घत्वञ्चे”त्यनेन हन्तेः कर्तरि घनाघन- शब्दो व्युत्पादितस्तथापि मेघे वाच्ये यौगिकोऽर्थो न विवक्षित इति तथोक्तम् । तादृशी इति वेति। भगवति श्यामवर्णस्य “श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्य” इति श्रुतिसिद्धत्वात्तदर्थनिश्चायके 'अथवा शून्यवद्गाढमि'ति तत्त्वदीपश्लोके स्वरूपा- भिन्नत्वेनोपपादनाद्भगवत्पक्षे घनाघननिभपदस्य विशेष्यत्वे स्फुटेऽपि तत्प्रियापक्षे तन्न स्फुटमिति तत्रापि 'ततश्च कृष्णोपवने' 'कृष्णाया हस्ततरले'त्यादिश्रीभागवत- वाक्ये कृष्णापदस्य नामत्वेन बोधनादस्य तत्स्मारकत्वेन तथात्वं बोध्यमित्या- ३